समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 83, कुल 726 में से
संदर्भ में पढ़ेंपरिक्षिप्तोऽयमुक्तस्ते जम्बूद्वीपो मयाखिलः ।
द्वादशाम्बुनिधावत्र पृथग् भूमिभृतः स्थिताः ॥ ५२ ॥
त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः ।
मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥ ५३ ॥
नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे ।
उदग्भागेऽपि च द्रोणकङ्कचन्द्रा इति त्रयः ॥ ५४ ॥
धूम्रको दुन्दुभिश्चैव सार्द्रकश्चेति पूर्वतः ।
सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥ ५५ ॥
मग्नास्तदर्धमम्भोद्यौ विस्तुताश्च धराधराः ।
जुष्टाः सर्वै सुरैः शृङ्गौढिलीढविहायसः ॥ ५६ ॥
ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः ।
द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥ ५७ ॥
गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः ।
क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥ ५८ ॥
द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् ।
खद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥ ५९ ॥
अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः ।
यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥ ६० ॥
शाके सप्ताद्रयस्तेषूदद्यो जलधरस्तथा ।
नारको रैवतः श्यामो राजतोऽर्थाम्बिकेयकः ॥ ६१ ॥
चतुःसाहस्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः ।
तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥ ६२ ॥
वृत्तानां द्वीपवत् तेषां बाह्यतोऽमूननुक्रमात् ।
वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥ ६३ ॥
जलदाख्यं कुमारं च सुकुमारं मणीचकम् ।
कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥ ६४ ॥
१ द. यांबिको जयः । ख. जांबिको॑ । जयः ग. पाठः ।