सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ६०३
सर्वलक्षणसम्पूर्णो^१ नेत्रत्रितयभूषणः ।
एवंविधगुणैर्युक्तो यत्र लोकेश्वरो हरः ॥ १२ ॥
परा तत्र भवेद् वृद्धिर्देशस्य च नृपस्य च ।
यदारण्ये (संमाने ?)^२ वा विधीयेत महेश्वरः ॥ १३ ॥
एवं रूपस्तदा कार्यः कारकस्य शुभावहः ।
अष्टादशभुजो (जो) दोषणां^३ विंशत्या वा समन्वितः ॥ १४ ॥
शतबाहुः कदाचिद्वा सहस्रभुज एव च ।
रौद्ररूपो गणवृतैः^४ सिंहचर्मोत्तरीयकः ॥ १५ ॥
तीक्ष्णदंष्ट्राग्रदशनः शिरोमालाविभूषितः^५ ।
चन्द्राङ्कितशिराः श्रीमान् पीनोरस्कोऽग्रदर्शनः ॥ १६ ॥
(भद्रम् ?)^६ कर्तव्यः श्मशानस्थो महेश्वरः ।
द्विभुजो राजधान्यां तु पत्तने स्याच्चतुर्भुजः ॥ १७ ॥
कर्तव्यो विंशतिभुजः श्मशानारण्यमध्यगः ।
एकोऽपि भगवान् भद्र(:) स्थानभेदविकल्पितैः^७ ॥ १८ ॥
रौद्रसौम्यस्वभावश्च क्रियमाणो भवेद् बुधैः ।
(उद्याद्यथा भौवद्भागभगवान्)^८ सौम्यदर्शनः ॥ १९ ॥
स एव तीक्ष्णतामेति मध्यन्दिनगतः पुनः ।
तथारण्यस्थितो नित्यं रौद्रो भवति शङ्करः ॥ २० ॥
(सं येद सौम्यावति स्थाने सौम्यो व्यवस्थितः ?)^९ ।
स्थानान्येतानि सर्वाणि ज्ञात्वा किम्पुरुषादिभिः ॥ २१ ॥
प्रैमथैः^११ सहितः कार्यः शङ्करो लोकशङ्करः ।
एतद् यथावत् कथितं संस्थानं त्रिपुरद्रुहः^१२ ॥ २२ ॥
१ द. र्णे । २ मुद्रित प्रतौ 'श्मशाने' इति स्यात् । ३ द. ष्णा । ४ द. त्तः । ५ द. ल ।
६ द. भद्रस्तू स्तु कं । मुद्रित प्रतौ 'भद्रमूर्तिस्तु' इति स्यात् । ७ द. ताः । ८ द. ०द्यं; मुद्रित प्रतौ
'उद्यन् यथा भवेद् भानुर्भगवान्' इति स्यात् । ९ द. भा(भ)वे । १० द. स एदा सौभ्या भवति;
मुद्रित प्रतौ 'स एव सौम्यो भवति स्थाने सौम्ये व्यवस्थितः' इति स्यात् । ११ द. प्रथमैः ।
१२ द. रुहा ।

६०४ समराङ्गणसूत्रधारे
कार्त्तिकेयस्य संस्थानमिदानीमभिधीयते ।
तरुणार्कनिभो रक्तवासाः पावकसप्रभः ॥ २३ ॥
ईषद्भालाकृतिः कान्तो मङ्गल्यः प्रियदर्शनः ।
प्रसन्नवदनः श्रीमानोजस्तेजोन्वितः शुभः ॥ २४ ॥
(विशेषान्मुडुकैश्चित्रि ? ) मुक्तामणि(वि)भूषितः ।
षण्मुखो वैकवक्त्रो वा शक्तिं रोचिष्मतीं दधत् ॥ २५ ॥
नगरे द्वादशभुजः खेटके षड्भुजो भवेत् ।
ग्रामे भुजद्वयोपेतः कर्तव्यः शुभमिच्छता ॥ २६ ॥
शक्तिः शरस्तथा खङ्गो मुसृण्डी$^३$ मुद्गरोऽपि च ।
हस्तेषु दक्षिणेष्वेतान्यायुधान्यस्य दर्शयेत् ॥ २७ ॥
एकः प्रसारितश्चान्यः षष्ठो हस्तः प्रकीर्तितः ।
(चैतुः ? ) पताका घण्टा च खेटः कुक्कुट(क)स्तथा ॥ २८ ॥
वामहस्तेषु षष्ठस्तु तत्र (शौसर्जन ?) करः ।
एवमायुधसम्पन्नः संग्रामस्थो विधीयते ॥ २९ ॥
(अन्यया) तु विधातव्यः क्रीडालीलान्वितश्च सः ।
छागकुक्कुटसंयुक्तः शिखियुक्तो मनोरमः ॥ ३० ॥
नगरेषु सदा कार्यः स्कन्दः परजयैषिभिः ।
खेटके तु विधातव्यः षण्मुखो$^{१०}$ ज्वलनप्रभः ॥ ३१ ॥
तथा तीक्ष्णायुधोपेतः स्रग्दामभिरलङ्कृतः ।
ग्रामेऽपि द्विभुजः कार्यः कान्तियुतिसमन्वितः ॥ ३२ ॥
(दक्षिणा च भवेद् भक्तिर्नाम हस्ते तु कुक्कुटः ?) ।
विचित्रपक्षः स(सु) महान् कर्तव्योऽतिमनोहरः ॥ ३३ ॥
१ मुद्रित प्रतौ 'विशेषान्मुकुटैश्चित्रैः' इति स्यात् । २ द. ढु । ३ द. मुखंडी । ४ द. णा ।
५ मुद्रित प्रतौ 'धनुः' इति स्यात् । ६ मु. प्र. 'संवर्धनः' इति; द. शंजर्जनकरः । ७ मुद्रित पुस्तके
'अन्यदा' इति स्यात् । ८ द. ड । ९ द. थः । १० द. खे । ११ मुद्रित पुस्तके 'दक्षिणे च भवे-
च्छक्तिर्वामे हस्ते तु कुक्कुटः' इति । १२ द. कुंटः ।

देवादिहूपप्रहरणसंगोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ६०५
एवं पुरे खेटके च ग्रामे (वाभिलं ?) शुभम् ।
कार्त्तिकेयं ++ कुर्यादाचार्यः शास्त्रकोविदः ॥ ३४ ॥
अविरुद्धेषु कार्येषु खेटे या(ग्रा)मे पुरोत्तमे ।
कार्त्तिकेयस्य संस्थानमेतद् यत्नेन कारयेत् ॥ ३५ ॥
(१बालस्तु सुभुजः श्रीमान् स्थैले केतु महाद्युतिः ? ) ।
वनमालाकुलोरोस्को निशाकरसमप्रभः ॥ ३६ ॥
गृहीतसौरौ(सीर)मुसलः कार्यो दिव्यमदोत्कटः ।
चतुर्भुजः सौम्यवक्रो नीलाम्बरसमावृतः ॥ ३७ ॥
कु(मु)कुटालङ्कृतशिरोरुहो रागविभूषितः ।
रेवतीसहितः कार्यो वन(बर्ल)देवः प्रतापवान् ॥ ३८ ॥
विष्णुर्वैदूर्यसङ्काशः पीतवासाः श्रियाकृ(वृ)तः ।
वराहो वामनश्च स्योन्नरसिंहो भयानकः ॥ ३९ ॥
कार्यो (वां ?) दाशरथी रामो जामदग्न्यश्च वीर्यवान् ।
द्विभुजोऽष्टभुजो वापि चतुर्बाहुररिन्दमः ॥ ४० ॥११
शङ्खचक्रगदापाणिरोजस्वी कान्तिसंयुतः ।
नानारूपैस्तु कर्तव्यो ज्ञात्वा कार्यान्तरं विभुः ॥ ४१ ॥
इत्येष विष्णुः कथितः (सुरास्वरनमस्वरनमस्त्वतः ? ) ।
त्रिदशेशः सहस्राक्षौ(क्षो) वैज्रभृत् सुभुजो बली ॥ ४२ ॥
किरीटी सगदः श्रीमाञ् श्वेताम्बरधरस्तथा ।
श्रोणिसूत्रेण महा(हता) दिव्याभरणभूषितः ॥ ४३ ॥
कार्यो राजश्रिया युक्तः पुरोहितसहायवान् ।
वैवस्वतस्तु विज्ञेयः (कौलेःकेसं ?)परायणः ॥ ४४ ॥
१ द. व । मुद्रित पुस्तके 'बलस्तु सुभुजः श्रीमांस्तालकेतुर्महाद्युतिः' इति च स्यात् ।
२ द. स्ताल । ३ द. गृहीतशीलं रमुं । ४ द. हों । ५ द. रारा । ६ द. नव । ७ द. डू । ८ द.
वाता श्रयान्वितः । ९ द. स्यात् शंखचक्रगदानकः । १० द. प्रतौ नास्ति । ११ द. इतः परं 'वाराहवा-
मनश्च स्यात्' । इत्यधिकः पाठः । १२ द. पासु । १३ द. सुरासुरनमस्कृतः । मुद्रित पुस्तकेऽपि
'सुरासुर नमस्कृतः' इति स्यात् । १४ द. वज्रभृत्सुभुजोबली । १५ द. मु । १६ द. याः ।
१७ द. कालोक ।

६०६ समराङ्गणसूत्रधारे
तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः ।
सम्पूर्णचन्द्रवदनः पीतवासास्तु( : शु )१भेक्षणः ॥ ४५ ॥
विचित्रमुकुटः कार्यो वराङ्गदविभूषितः ।
तेजसा सूर्यसङ्काशः कर्तव्यो बेलवाञ्छु२भः ॥ ४६ ॥
धन्वन्तरिर्भरद्वाजः ( प्रजानीतैतयस्तथा ।
दॅ४क्षार्थाः सदृशाः कार्या कार्यो रूपाणि + रपि ? ) ॥ ४७ ॥
अर्चिष्मान् क्ष( ज्व )लनः कार्यः( यत्कण्ठाश्व ? )समीरणः ।
सौम्यः कार्यस्तथा( र्विंस्या ? ) + + रुद्र७शरीरिणः ॥ ४८ ॥
रक्तवस्त्रधराः कृष्णा नानाभरणभूषिताः ।
कर्तव्या राक्षसाः सर्वे बहुप्रहरणान्विताः ॥ ४९ ॥
पूर्णचन्द्रमुखा९ शुभ्रा विम्बोष्ठी चारुहासिनी ।
श्वेतवस्त्रधरा कान्ता दिव्यलङ्कारभूषिता१० ॥ ५० ॥
कटिदेशनिविष्टेन वामहस्तेन शोभना ।
सपद्मेन ( वौन्तेन ? )११ दक्षिणेन शुचिस्मिता१२ ॥ ५१ ॥
कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता ।
गृहीतशूलपरिघ( पाहिंको ? )१३पट्टिसध्वजा ॥ ५२ ॥
बिभ्राणा खेटकोपेतलघुखङ्गं च पाणिना ।
घण्टामेकां च सौवर्णी दधती घोररूपिणी ॥ ५३ ॥
कौशिकी पीतकौशेयवसना सिंहँवा१५( ह )ना ।
( सेचोष्ठौ ? ) + विधातव्याः शुक्लाम्बरधराः१६ + + ॥ ५४ ॥
शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः ।
सदृशावश्विनौ कार्यौ लोकस्य शुभदायकौ ॥ ५५ ॥
शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ ।
( त्रिपञ्चदशपूर्तिरस्येदं भृङ्गवन्मेचकप्रभाम्१८ ॥ ५६ ॥

१ द. ते । २ द. द । ३ द. ˚नां । ४ द. दक्ष्याथाः । ५ द. र्याः । ६ द. दि । ७ द. रुद्र रौद्र । ८ द. सां । ९ द. ˚स्वी श्वभ्रा बिम्बौष्ठी । १० द. ताः । ११ द. च कांतेन । १२ द. स्मृताः ।
१३ द. मू । १४ द. त । १५ द. वानव । स चोष्ठौ । १६ द. शुभाः । १७ द. ध । १८ द. भाः ।

देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ६०७
वैदूर्यशकसङ्काशा ?) हरितश्मश्रवोऽपि च ।
रोहिता विकृता रक्तलोचना बहुरूपिणः ॥ ५७ ॥
नागैः१ शिरोरुहालीनैर्विरागाभरणाम्बराः ।
कार्याः पिशाचाँ भूताश्च परुषासत्यवादिनः ॥ ५८ ॥
(बहुप्रकारमन्दहा ?) विरूपा विकृताननाः ।
घोररूपा विधातव्या ह्रस्वा नानासु(यु)धाश्च ते ॥ ५९ ॥
सुभीमविक्रमा भीमा (:) सङ्घा यज्ञोपवीतिनः ।
वैर्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ॥ ६० ॥
येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः ।
यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ॥ ६१ ॥
यक्षराक्षसयोर्वापि नाना(ग)गन्धर्वयोरपि ।
तेन लिङ्गेन कार्यः स यथा साधु(धु) विजानजा(ता) ॥ ६२ ॥
प्रायेण (वा ?) वीर्यवन्तो हि दानवाः क्रूरकर्मिणः ।
किरीटिनश्च कर्तव्या विविधाsubपाणयः ॥ ६३ ॥
तेभ्योऽपीषत् कनीयांसो दैत्याः कार्या गुणैरपि ।
दैत्येभ्यः परिहीणांस्तु यक्षाः कार्या मदोत्कटाः ॥ ६४ ॥
हीनास्तेभ्योऽपि गन्धर्वा गन्धर्वेभ्योऽपि पन्नगाः ।
नागेभ्यो राक्षसा हीनाः क्रूर(विक्रिममतसूपिणः ?) ॥ ६५ ॥
विद्याधराश्च यक्षेभ्यो हीनदेहत(ध)राः स्मृताः ।
चित्रमाल्याम्बरधराश्चित्रचर्मासिपाणयः ॥ ६६ ॥
नानावेशधरा घोरा भूतसङ्घा भयानकः ।
पिशाचेभ्योऽधिकाः स्थूलास्तेजसा परुषास्तथा ॥ ६७ ॥
अन्यूनाधिकरूपांश्च कुर्वीत प्रायशः शुभान् ।
१ द. वैदूर्यससिकं संकासा । २ द. भैः । ३ द. च । ४ द. चर्मेचिः । ५ द. र्दा । ६ द.
दित्याः कार्यै । ७ द. ना । ८ द. विक्रुत रूपिणः ।

६०८ समराङ्गणसूत्रधारे
*( दिव्यैरासणाभरणैश्च युक्ताः
कृतीथविदधीत यथोदितांस्तान् ?) ॥ ६८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
देवादिरूपप्रहरणसंयोगलक्षणाध्यायो नाम (षट् ?सप्त)सप्ततितमः ॥
अथ दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः ।
अथ वर्ज्यानि रूपाणि ब्रूमहेऽर्चादिकर्मसु ।
यथोक्तं शास्त्रतत्त्वज्ञैर्गोब्राह्मणहितार्थिभिः ॥ १ ॥
अशास्त्रज्ञेन घटिता(तं) शिल्पिना दोषसंयुतम् ।
अपि माधुर्यसम्पन्नं(न) ग्राह्यं शास्त्रवेदिभिः ॥ २ ॥
अश्लिष्टसन्धे(न्धि) विभ्रान्तां वक्रां चावनतां तथा ।
अस्थितामुन्नतां चैव काकजङ्घां तथैव च ॥ ३ ॥
प्रत्यङ्गहीनां विकटां मध्ये ग्रन्थिनतां तथा ।
ईदृशीं देवतां प्राज्ञैर्हि(ज्ञो हि)तार्थं नैव कारयेत् ॥ ४ ॥
अश्लिष्टसन्ध्या मरणं भ्रान्तया स्थानविभ्रमम् ।
वक्रया कलहं विद्यान्नतया (४मिवसः ?) क्षयम् ॥ ५ ॥
नित्यमस्थितया पुंसामर्थस्य क्षयमादिशेत् ।
भयमुन्नतया विद्याद्धृद्रोगं च न संशयः ॥ ६ ॥
देशान्तरेषु गमनं सततं कारु(क)जङ्घया ।
प्रत्यङ्गहीनया नित्यं भर्तुः स्यादा(स्यादन)पत्यता ॥ ७ ॥
विकटाकारया ज्ञेयं भयं दारुणमर्ध(र्च)या ।
अधोमुख्या शिरोरोगं ५(तथानयापि च ?) ॥ ८ ॥
एतैरुपैता दोषैर्या वर्जयेत् तां प्रयत्नतः ।
अन्यैरपि युतां दोषैरर्चां ब्रूमोऽर्थं सम्प्रति ॥ ९ ॥
१ द. दिव्याराभरणा भं° । २ द. सम । ३ द. ज्ञेयेन । ४ मुद्रित पुस्तके 'वयसः' इति स्यात् ;
द. मिव सं । ५ द. में । ६ द. त्र ।

  • इदमशुद्धं वसन्ततिलकश्लोकस्यार्धम्, अर्धान्तरं तु भ्रष्टम् ।

दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः । ६०९
( ऊर्ध्वपिण्डका सासिसासि ? ) स्वामिनो दुःखमावहेत् ।
( कुक्षिष्टिप्राय ? ) दुर्भिक्षं रोगा( न् ) कुब्जार्चिता नृणाम् ॥ १० ॥
पार्श्वहीना तु भवति राज्यैस्याशुभदर्शनी । ४
( शालायासनया स्थानं स्त्रीश्व ? ) प्रतिमया भवेत् ॥ ११ ॥
आसनालयहीनायां बन्धनं स्थानविच्युते( तिः ) ।
नानाकाष्ठसमायुक्ता या चैवायसपिण्डिता ॥ १२ ॥
सन्धिभिः ( प्रविसहिर्या ? ) सानर्थभयदा भवेत् ।
( सम्बन्धार्कृष्ट ? ) लोहेन त्रपुणा वा कदाचन ॥ १३ ॥
दारुणा च तथैवोक्ता प्रतिमायाँस्तु( शास्त्र )वेदिभिः ।
सन्धयश्चापि कर्तव्याः सुश्लिष्टाः पुष्टिमिच्छता ॥ १४ ॥
अर्चानाम धराधेन(?) शास्त्रदृष्टविधानतः ।
बध्नीयात् ताम्रलोहेन सुवर्णरजतेन वा ॥ १५ ॥
( कृतेन केणुना चान्यथा स्तुसामबद्धावरुजावहा ? ) ।
तस्मात् सर्वप्रयत्नेन स्थपतिः शास्त्रकोविदः ॥ १६ ॥
कुर्यादर्चां यथान्यायं सुविभक्तां प्रमाणतः ।
( न क्षतां नोपदिगां च न च १२विवर्जिता ॥ १७ ॥
न प्रत्यङ्गैः प्रहीनं च घ्राणपा१३दैर्नखादिभिः ? ) ।
सुविभक्तां१४ यथोत्सेधां प्रसन्नवदनां शुभाम् ॥ १८ ॥
निगूढसन्धे( न्धि )करणां समायतिम्ऋजुस्थिताम् ।
( १५ईदृशां राणायेदर्घा ? ) प्रमाणगुणसंयुताम् ॥ १९ ॥
समोपचितमां१६साङ्गाः पुरुषाः स्युः समासतः ।
प्रमाणलक्षणयुता वस्त्ररत्नविभूषितैः १७ (?) ॥ २० ॥
१ द. सासि इति पाठः प्रतौ नास्ति । २ द. ष्ट्र् । ३ द. र्शि । ४ द. इतः परं 'अधोमुखी
तु विज्ञेया वच्चलंकारहारिणी ॥ प्रतीक्षार्थमुखी या स्यात्सा मृत्युर्भयदायिनी' । इत्यधिकः पाठः । ५ द. प ।
६ द्वा । ७ द. यास्तु इति पाठः प्रतौ नास्ति । ८ द. य । ९ द. प्रत्नेन । १० द. र्था । ११ द. र्तां ।
१२ द. च मान वि° । १३ द. देन । १४ द. क्तं । १५ द. ईदृशी कारयेदर्चा; मुद्रित प्रतौ 'ईदृशी
कारयेदर्चा' इति स्यात् । १६ द. मा । १७ द. ताः ।
वा. ७७

६१० समराङ्गणसूत्रधारे
(क्षान्त ?) गुणान् परिकल्प्य च दोषजात-
मर्चां यथोदितगुणां (विदेधीता मतून्या ?) ।
शिष्यत्वमेत्य विविध(त्स ?)मुपासतेऽन्ये
तं शिल्पिनः कृतध्ये(धि)यश्च मुहुः स्तुवन्ति ॥ २१ ॥
इति महाराजाधिराजश्रीभोज४देवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
दोषगुणाध्यायो नाम सप्त(माष्ट)सप्ततितमः ॥
अथ ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः ।
अत ऊर्ध्वं प्रवक्ष्यामि६ (नेवि ?)स्थानविधिक्रमम् ।
(संपात्यारुघांणां ?) हि जायन्ते नव वृत्तयः ॥ १ ॥
(पूर्वभृष्क्कोगतं तेषां ततोऽध्वं क्षंरगतं भवेत्८ ?) ।
ततः (शें११ची१२क्षेतं ?) १३विद्याद्ध्यर्धाक्षम१४नन्तरम् ॥ २ ॥
चत्वार्यूर्ध्वागतादीनि परावृत्तानि तानि च ।
ऋँ७ज्वागतपरावृत्ता(न्तं ) ततोऽर्ध्वर्ज्वागतादिकम् ॥ ३ ॥
(शें१६चीकृत् ?)परावृत्तं ततोऽध्यै१७र्धाक्षपूर्वकम् ।
पार्श्वं१८(श्वां१९)गतं च नवमं स्थानं भित्तिकविग्रहम् ॥ ४ ॥
ऋज्वर्धऋजुनोर्मध्ये चत्वारि व्यन्तराणि च ।
अर्धर्जुसाचीकृतयोर्मध्ये च व्यन्तरत्रयम् ॥ ५ ॥
(द्व्यर्धार्जवौ ?)साचीकृतयोर्मध्ये द्वे व्यन्तरे परे ।
(परोद्यर्धक्षपार्श्व ?) व्यन्तरं चैकमन्तरे ॥ ६ ॥
१ मुद्रित प्रतौ 'ज्ञात्वा' इति स्यात् । २ मु. पु. 'विदधीत भूत्यै' इति स्यात् । ३ द. मृदुः ।
४ द. 'परमेश्वर श्रीभोजदेव' इत्ययं पाठः । ५ द. नामः सप्तं । ६ द. ॰मो नवस्थानं । ७ द. पा ।
८ मुद्रित पुस्तके 'पूर्वमृज्वागतं तेषां ततोऽर्ध्वर्ज्वागतं भवेत्' इति स्यात् । ९ द. ज्वा । १० द. ज्व ।
११ मुद्रित पुस्तके 'साचीकृतम्' इति स्यात् । १२ द. कृ । १३ द. विं । १४ द. ना । १५ द. कृत्वा ।
१६ द. शचीकृत; मुद्रित पुस्तके 'साचीकृत' इति स्यात् । १७ द. ध्यर्थक्तं । १८ द. ॰श्वं ।
१९ द. ज्या ।

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६११
ऋज्वांगतपरावृत्तपार्श्वाभ्यं( भ्या )गतयोर्दश ।
अन्तरे व्यन्तराणि स्युः स्थानकान्यपराण्यपि ॥ ७ ॥
ऋज्वागताद्यं मध्यं च विग्रहं (वेन्वा +++।
ऋैज्वागतां ++++ शेषभाव्यन्तरा व्यैंया ? ) ॥ ८ ॥
अर्धापाङ्गमर्धपुटैमर्धार्धपुटमेव च ।
( अर्धर्ध्वसेऽपि कथितं सिलीढव्यन्तरं व्ययः ? ) ॥ ९ ॥
अर्धसाचीकृतं चैव स्वस्तिकं च ततः परम् ।
( साचीकृतोशे ? ) द्वावुक्तावंशौ द्व्यर्धाक्षसंज्ञिते ॥ १० ॥
द्व्यर्थाक्षांशपरावृत्तं द्व्यर्थाक्षांसं च ते उमे( ? ) ।
( द्विज्वाक्षे ? )व्यन्तरे प्रोक्ते चित्रैशास्त्रविशारदैः ॥ ११ ॥
ऋज्वागतादध्यर्धाक्षं( ? ) यथा प्रोक्तानि संज्ञया ।
व्यन्तराणि तथैव स्युः परावृत्ते यथाक्रमम् ॥ १२ ॥
वैचित्र्यं भित्तिके नास्तीत्येव चित्र्यं(त्र)(विचित्र्यं वि?)विदो विदुः।
एकान्नत्रिंशदेवं च स्थानानि व्यस्तवर्त्मना ॥ १३ ॥
वैतस्त्यमन्तरं स्थाप्यं पादयोः सुप्रतिष्ठितम् ।
हिक्कायां पादयोश्चान्तर्भूभौ लम्बे प्रतिष्ठिते ॥ १४ ॥
प्रोक्तमृज्वागतं पूर्वं प्रमाणेन १५निरूपितम् ।
ततोऽर्धज्र्वागतस्येदं प्रमाणमुपलक्षयेत् ॥ १५ ॥
ब्रह्मसूत्रं तु कर्तव्यं मुखस्यैव तु मध्यगः( गम् ) ।
नेत्ररेखासमत्वेन तिर्यक्तालो भवेन्मुखम् ( ? ) ॥ १६ ॥
अपाङ्गस्याक्षिकूटस्य कर्णस्य च भवे( त् ) क्षयः ।
अन्यत्र कर्णमानं स्यादर्धाङ्गुलविशेषितम् ॥ १७ ॥
दृक्सूत्रे ब्रह्मलेखाया अपरे स्यात् ( कलाहवम् ।
यैच्छमात्राश्रुपातोक्षि क्षीयतान्योपवस्तथा ? ) ॥ १८ ॥
१ द. ज्व । २ द. भ्यां ३ द. र्यु । ४ द. व्य । ५ द. ˚डमवार्द्धपुठं । ६ द. र्धा । ७ द.
रत्र्यं । ८ द. र्द्धा । ९ द. यु । १० द. शो । ११ द. त्रां । १२ द. र्ना । १३ द. यै । १४ द. र्भू ।
१५ द. वि । १६ द. ज्ञात । १७ द. यव ।

६१२ समराङ्गणसूत्रधारे
त्रियवाः श्वेतभागः स्यात् तारा च प्रोक्तमानतः ।
विस्तारः श्वेतभागश्च करवीरोऽपि चोक्तवत् ॥ १९ ॥
परभाः(?) करवीरं स्याद् ब्रह्मसूत्रात् तथाङ्गुलम् ।
पूर्वभाकरवीरात्तु(?) सङ्गमश्चाङ्गुलं भवेत् ॥ २० ॥
कर्णनेत्रान्तरं प्रोक्तं कलाभ्य(ध्य)र्धाङ्गुलाधिकम्(का) ।
(पूर्वक्कं सर्वदिस्याविक्षायत् कथयेत् पराम् ?) ॥ २१ ॥
पुटोऽङ्गुलं ब्रह्मसूत्रात् कपोलोद् द्व्यङ्गुलं भवेत् ।
पूर्वे परत्र मात्रार्थं पुटः स्याच्छेषमुक्तवत् ॥ २२ ॥
(परभागौन्तराष्ट ?) स्यादङ्गुलं द्वियवाधिकम् ।
अधरः परभागे तु यवषट्कं विधीयते ॥ २३ ॥
अधरान्ता कला(?) गण्डो ब्रह्मसूत्रात् पुनर्हनुः ।
परभागेऽङ्गुलं सार्धं मुखलेखाङ्गुलं ततः ॥ २४ ॥
(आरुड वा यत्कार्यं मुखयां पर्यतलेखया ।
परिवर्त्तसुखादेशा ?) ज्ञात्वा कार्या प्रयत्नतः ॥ २५ ॥
(अपादमध्यं हि ज्ञातः ? ) सूत्रेऽन्यस्मिन् प्रवर्तिते ।
(खरे लुप्येत तुर्यांशः पूर्वेत्वेवाविवर्धते ?) ॥ २६ ॥
कक्षाधरः परे भागे सूत्रतः पञ्चगोलकः ।
पूर्वभागे(तृतं ?) ˚विद्यात् पङ्गो(षङ्गो)लपरिमाणतः ॥ २७ ॥
मध्ये सूत्रात् (पर?) पार्श्वलेखा ++ गावच्चतुष्कलम् ।
उरसो मध्यमो(मात्) सूत्रात् कक्षा स्यान्नव (माभंचा!) ॥ २८॥
(द्वंतलेखात्तस्मात्वं° विधाकलत्रयम् ।
स्तनाः पार्श्वकलां कुर्यात् स्तनं वा पतमण्डलम् ?) ॥ २९ ॥
परतो हस्तकः कार्यः कर्मयोगानुसारतः ।
(पार्श्वपर्यन्त सर्वा भागे षषंडलालम् ?) ॥ ३० ॥
१ द. क्कू । २ द. लो । ३ द. सू । ४ द. गो । ५ द. से । ६ द. ˚वर्त्त्यसुखोद्देशा । ७ द. विं ।
८ द. स । ९ द. न । १० द. ˚स्माच्च विधातव्या कालत्रयं । ११ द. र्श्व । १२ द. स्तनतः पार्श्वपर्यतः
सर्व भागे˚ ।

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६१३
तथैव पूर्वहस्तस्य यथायोगं प्रकल्पना ।
(अभ्यर्थयस्वाग + दीनां ?) ^२क्रिया स्याद् दक्षिणे^३ करे ॥ ३१ ॥
मध्ये षडङ्गुला रेखा बाह्यसूत्रात् परे भवेत् ।
पूर्वस्मिन् बाह्यलेखा तु मध्ये सा(स्या)^४र्देष्टमात्रका ॥ ३२ ॥
नाभिदेशे परे भागे बाह्यासो सप्तमात्रिका ।
कलामात्रं^५ भवेन्नाभिस्तस्याः पूर्वं^६ नवाङ्गुला ॥ ३३ ॥
परे भागे कटिः सप्त मात्रा दश च पूर्वतः ।
ऊरुलेखा परे भागे मुखमानस्य मध्यतः ॥ ३४ ॥
प्राग्भागंस्य बहिर्लेखा + + + परजानुतः ।
(परभागेन्द्र्र^११वैस्तेश्च सूत्रस्यात् तद्वदङ्गुले ? ) ॥ ३५ ॥
परस्य नलकस्य स्याल्लेखा प्रागङ्गुलान्तरे ।
परभागस्य षष्ठांशाः (सूत्रा प्रागङ्गुलद्वयोः ? ) ॥ ३६ ॥
नलेन परपादस्य भूमिलेखा विधीयते ।
ततोऽङ्गुष्ठोऽङ्गुलेनाधः पार्ष्णिरूर्ध्वं तदर्धतः ॥ ३७ ॥
अङ्गुष्ठाग्रं ब्रह्मसूत्रात् परस्मिन् पञ्चमात्रिकम् ।
तलं^१२ च परं^१३भागज्ञैस्तिर्यक् पञ्चाङ्गुलं स्मृतम् ॥ ३८ ॥
(सत्वितस्तलघाप्प्येः ? ) स्यादङ्गुष्ठाग्रं कलात्रये ।
अङ्गुल्योऽङ्गुष्ठतः सर्वा (व्रजत्परयं ? ) क्रमात् ॥ ३९ ॥
(सन्निवेशसवासाद्र्दै द्विरङ्गुल्यतो ? ) नवाङ्गुलः ।
यथोक्तं जानु पूर्वं^१५ स्यात् सूत्रतश्चतुरङ्गुले ॥ ४० ॥
नलकस्तद्वदेवाश्य नलकौ त्र्यङ्गुलान्तरौ ।
(सूत्रादक्षः कलास्तिस्रो^१६ऽङ्गुष्ठस्त्वङ्गुलत्रयम् ? ) ॥ ४१ ॥
१ द. भ । २ द. सा क्रिया स्या° । ३ द. णा । ४ द. ह्मा । ५ द. दृ । ६ द. तृ । ७ द. त्रा ।
८ द. वै । ९ द. परि । १० द. गे । ११ द. °वस्तैश्च । १२ द. नृकं । १३ द. परिभागाङ्गे स्ति° ।
१४ द. दृं । १५ द. र्वे । १६ द. स्त्रो ।

६१४ समराङ्गणसूत्रधारे

भूमिसूत्राद् गतोऽधस्तात् पूर्वाङ्गुष्ठो भवेत् कला ।
अङ्गुष्ठोऽङ्गुलयश्चेति सर्वमन्यद् यथोदितम् ॥ ४२ ॥
( द्वयपार्श्वतलप्रविपारंहौ ? ) मध्यमे¹ तलम् ।
एवमुक्तप्रमाणेन् ज्ञात्वा युक्त्या समादिशेत् ॥ ४३ ॥
अर्धर्ध्वगतमित्येतत् प्रवरं स्थानमीरितम् ।
लक्ष्म सा वो( साची )कृतस्याथ स्थानकस्याभिधीयते ॥ ४४ ॥
विन्यस्येद् ब्रह्मसूत्रं प्रा( कूँ² स्था )नबोधस्य सिद्धये ।
ललाटं परभागं( गे ) स्यात् केशलेखा तथा कला ॥ ४५ ॥
परभागभ्रुवो लेखा +++ ⁵र्धमुदाहृता ।
( परतो + क्षिलेखायां कालिका द्वियतो ज्ञत ? ) ॥ ४६ ॥
ज्योतिषः स्यात् परे भागे तारा दृश्या यवोन्मिता ।
यवमात्रं ततो ज्योतिस्तस्मात् तारा यवद्वयम् ॥ ४७ ॥
श्वेतं च करवीरं च ततः प्रागुक्तमानतः ।
( कनीलिका तु ? ) नासाया मूलं ⁶विद्याद् यवान्तरम् ॥ ४८ ॥
नासामूल( लं ) प्रमाणेन ततो ज्ञेयं यवत्रये ।
ब्रह्मसूत्रात् पूर्वभागे ( नग्नन्तो ? )र्ध्वगोलकौ⁸ ॥ ४९ ॥
( आपाङ्गं स्तोंत्रेतो⁹ ?) विद्याद् द्विगोलकमितेऽन्तरे ।
तस्माद् भागेन कर्णान्तः कर्णः स्याद् विस्तरेण तु ॥ ५० ॥
द्वियवोना कला चक्षुर्व्यावृत्त्या परिवर्धितः ।
पूर्वस्य करवीरेण सह श्वैत्यं यवत्रयम् ॥ ५१ ॥
द्वितीयश्वैत्यहक्ताराप्रसृतिः¹⁰ प्रोक्तमानतः ।
कपोललेखा परतो ( यवर्द्धा¹¹ ता ? ) कला भवेत् ॥ ५२ ॥
ब्रह्मसूत्रान्नासिकाग्रं परस्मिन् सप्तभिर्यवैः ।
नासापुटे¹² पूर्वभागे¹³ स्याद् यथा( वा )धिकमङ्गुलम् ॥ ५३ ॥

१ द. म । २ द. ज्वा । ३ द. द्धा । ४ द. भा । ५ द. थो । ६ द. विकातो । ७ द. र्वि ।
८ द. के । ९ द. सूत्रतो विंयाद् । १० द. प्रसूतीन्ध्रो° । ११ द. हीना । १२ द. द्धा । १३ द. गो ।

पूर्वो(र्वे) भागे यवं गोजी स्त(त)त्रोपान्ते विधीयते ।
परभागोत्तरोष्ठः स्यात् प्रमाणेनार्धमात्रकः ॥ ५४ ॥
त्रियवश्चाधरोष्ठः स्याच्छेषश्चापचयस्तयोः ।
पाल्या मध्ये भवेत् सूत्रं पाल्याशु(स्तु) चिबुकं परे ॥ ५५ ॥
हनुपर्यन्तलेखा च सूत्रादर्थाङ्गुले भवेत् ।
हनोर्मध्यगतं सूत्रं परे स्यात् परिमण्डलम् ॥ ५६ ॥
सहैकसूत्रे परह्रकू पर्यन्तेन परिस्फुटा ।
मुखपर्यन्तलेखार्धे(ह)नोरुपरि चाधरः ॥ ५७ ॥
कुर्याल्लेखाभिरेताभिः परभागं विचक्षणः ।
(सूत्राङ्गुलोर्ध्वमात्रायां तस्माद् ग्रीवा यथोदिता ॥ ५८ ॥
सूत्रसंयोगात् पूर्वस्मिन्नङ्गुले सयवेऽङ्गुलः ? ) ।
हिक्काध्यर्धाङ्गुलं सूत्रात् पूर्वे स्यात् सुप्रतिष्ठिता ॥ ५९ ॥
बाह्यलेखा हि व(त)त्सूत्रात् परस्मिन्नङ्गुलाष्टके ।
(ताले यवोनग्रीवातो नग्रीवज्ञेयौसूनदूर्ध्वकौ ? ) ॥ ६० ॥
हिक्कासूत्रात् समारभ्य ^७वक्षोभागोऽग्रिकं(?) भवेत् ।
(तावन्मात्रे तरेवाहु ? ) तस्मात् प्रभृति निर्दिशेत् ॥ ६१ ॥
^८हिक्कासूत्रात् परे भागे स्तनश्चाङ्गुलपञ्चके ।
रेखान्तसूचकः कार्यो मण्डलं सार्धमङ्गुलम् ॥ ६२ ॥
तस्मादनन्तरं बाह्यभागमात्रं विनिर्दिशेत् ।
हिक्कासूत्रात् समारभ्य स्तनंः (पूर्वषडङ्गुले ?) ॥ ६३ ॥
स्तनात् षडङ्गुले (तिर्यगक्षो स्मा ^१०द्वौ^११ ?) द्विभागिकः ।
कक्षै^१२तो द्विकलेऽधस्ताद् बाह्यलेखा विधीयते ॥ ६४ ॥
आभ्यन्तरा बाह्यलेखा स्तनात् पञ्चाङ्गुले^१३ त(लेऽन्त)रे ।
ब्रह्म^१४सूत्राच्च भागेन मध्यभागे (परि ?) विदुः ॥ ६५ ॥

१ द. न्त । २ द. त्रि । ३ द. र्मध्ये गरं । ४ द. स्याद्ध । ५ द. दोः बा । ६ द. च्° ।
७ द. वक्षौ भागौग्नितं । ८ द. दि । ९ द. ण्ड । १० द. तः । ११ द. दोर्द्धिं । १२ द. क्षा ।
१३ द. °ले गुलः । १४ द. 'ब्रह्मसूत्राच्च इत्यारभ्य दशाङ्गुलः' इत्यन्तं पाठः नास्ति ।

६१६ समराङ्गणसूत्रधारे
(मध्याच्चकलयावहः परे ? ) तिर्यग् विभज्यते ।
मध्यप्रान्तः पूर्वभागे भवेत् सूत्राद् दशाङ्गुलः ॥ ६६ ॥
तिर्यङ् नाभिप्रदेशः स्यात् पं(रनो)ब्रह्मसूत्रतः ।
यवैश्चतुर्भिरधिकमङ्गुलानां चतुष्टयम् ॥ ६७ ॥
पूर्वभागे विनिर्दिष्टः स एवैकादशाङ्गुलः ।
मध्येनैति परस्योरोः सूत्र(त्रं) नाभ्यन्तराश्रितम् ॥ ६८ ॥
प्रयात्यपरजाच्चैतत्(?) पूर्वतः कलया च तत् ।
जान्वधोभाग(त)श्चार्धकलया त्रियवेन च ॥ ६९ ॥
जङ्घामध्येन लेखायाः प्रसक्तं नलकस्य तु ।
( षांते वैरवं ? ) परतश्चतुर्भिः सूत्रमिष्यते ॥ ७० ॥
अनेनैवानुसारेण बहिर्लेखा विधीयते ।
ब्रह्मसूत्रात् परे भागे कटिरङ्गुलपञ्चके ॥ ७१ ॥
(तामालर्मात्रा तु मा पूर्वे मेडाग्रं सूत्रसङ्गतम् ।
सूत्रादरभागोरू मूलाग्रैये ? ) ॥ ७२ ॥
सूत्रादपरभागोरुमध्ये रेखा कलाद्वये ।
सूत्रात् पूर्वोरुमूलं स्यात् पूर्वतः कलया तथा ॥ ७३ ॥
कलाद्वयेन विज्ञेया रेखा पूर्वस्य जानतुः ।
सार्धाङ्गुलर्यवं जानु तत्पार्श्वं चार्धमङ्गुलम् ॥ ७४ ॥
सूत्रेण पर(पा)दस्य मध्यरेखा विभज्यते ।
आदिमध्यान्तलेखायां सूत्रशौचमुदाहृता( ? ) ॥ ७५ ॥
सूत्रात् प्राग्भागमैलके(?) प्रान्तः पञ्चभिरङ्गुलैः ।
अर्धाङ्गुलं क्षयः कार्यः परभागोरुजङ्घयोः ॥ ७६ ॥
पराक्षिमध्यगं सूत्रं लम्बभूमिप्रतिष्ठितम् ।
परपादतनान्तात् प्रागङ्गुलेन विधीयते ॥ ७७ ॥
१ द. परस्मिन् । २ द. राधिक्यं । ३ द. प्रांते वैरं । ४ द. म । ५ द. मूला रेखा कला ।
६ द. द्वयं । ७ द. न । ८ द. क्षयं कार्यार्न प° ।

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६१७

  • सूत्रात् पूर्वपादस्य तलमष्टाङ्गुलं भवेत् ।
    अभ्य(ध)स्तात् तलयोः सूक्ष्मा( : ?)स्याल्लेखाष्टादशाङ्गुलम् ॥७८॥
    अङ्गुष्ठकाद्र्क्रमात्(?) प्रदेशिन्यङ्गुलाधिका ।
    ( परपादतलावस्तून पूर्वा ह्यङ्गुष्ठमूलगम् ॥ ७९ ॥
    सूत्रं यथाति ?) सा भूमिलेखेति परिकीर्त्तिनाँ ।
    सूत्रादर्धाङ्गुलेनोर्ध्वं तस्मात् पार्णि( : )परस्य च ॥ ८० ॥
    अङ्गुष्ठादङ्गुलीपातः पूर्वपादेऽनुसारतः ।
    उ( प )प्रदेशिनीमानात् कुर्यादत्र प्रदेशिनीम् ॥ ८१ ॥
    अपराश्चाङ्गुलीः सर्वाः क्रमेण क्षपयेत् ततः ।
    इति साचीकृतं स्थानमेतदुक्तं यथार्थतः ॥ ८२ ॥
    अध्यर्धाक्षमिदानीं च स्थानकं ( सूं प्रचक्षते ? ) ।
    ⁷ब्रह्मसूत्रमुखे कृत्वा मानमात्रं(?) विधीयते ॥ ८३ ॥
    केशान्तलेखा सूत्रा(त्) स्यान्मो(न्मा)त्रैका यवसंयुता ।
    पृथग् वक्षः पृथक् श्रोणिः वृत्तं बाहुः सुसंस्कृतिः (?) ॥ ८४ ॥
    ⁹भद्राकारो भवेद् भद्रो वृत्तवक्त्रः स्वभावतः ।
    मालव्यस्य भवेन्मूर्धा प्रमाणेनाङ्गुलत्रयम् ॥ ८५ ॥
    ( चतुर्मात्रललाटं च नाश वक्त्राशिरोधरा ।
    मात्रा द्वादश वक्षस्ये नाभिमेद्रान्तरोदरे ?) ॥ ८६ ॥
    अष्टादशाङ्गुलौ ¹⁴ चोरू जङ्घे अप्येवमेव हि ।
    चतुरङ्गुलौ + + जानुनी चतुरङ्गुले ॥ ८७ ॥
    मालव्यस्यायमायामः पण( षण्ण )वत्यङ्गुलो मतः ।
    विस्तारो वक्षसस्तस्य मात्राः षड्विंशतिः स्मृतः ॥ ८८ ॥
    १ द. क्र । २ द. कं । ३ द. ल । ४ द. ताः । ५ द. ˚शिनी । ६ द. सं; मुद्रित प्रतौ ' संप्रच-
    क्ष्महं ' इति स्यात् । ७ मुद्रित प्रतौ ' ⁷ब्रह्मसूत्रं मुखे कृत्वा मानमत्र ' इति स्यात् । ८ द. प्रतौ नास्ति ।
    ९ द. क्ष्यः । १० द. न्त । ११ मुद्रित पुस्तके ' भद्रहंसादीनां पुरुषविशेषाणां लक्षणमध्यायान्तरेण
    वक्ष्यति । ततः कियांश्चिदंश इह प्रमादान् प्रक्षिप्त इति भाति, प्रक्रमभञ्जान् । १२ द. णा । १३ द. क्त्रा ।
    १४ द. क्ष्ये । १५ द. लो । १६ द. व्या ।
    वा, ७८

६१८ समराङ्गणसूत्रधारे
बाह्यो(ह्वोः) षोडशमात्रश्च प्रबाह्यो(ह्वो)रेवमेव सं¹ः।
(पाष्ण्र्यौ² द्वादशमात्रस्ये मालव्यस्त्वेह³ विस्तृनिः⁴?) ॥ ८९ ॥
पीनांसो ⁵दीर्घबाहुश्च पृथुवक्षाः कृशोदरः ।
वृत्तो रुकटीजङ्घश्च मालवः पुरुषोत्तमः ॥ ९० ॥
हंसस्य वक्त्रं पृथग्(थु) गण्डभागं
कृशं शशस्यायतमास्यमाहुः ।
विस्तारदैर्घ्याद् भवकस्य तुल्यं (?)
सुखं सुवृत्तं त्विहच(?) ⁸भद्रवक्त्रे⁶ ॥ ९१ ॥
(स्यान्मालावस्या लेपनं तु कान्तमयोऽयं ।
देही⁷ तु रूपैश्च भवन्ति युक्तास्ते कर्मणि सर्वगुणान्वितास्ते ?) ॥९२॥
(स दुर्लभं स्यात् पुरुषः प्रमेय-
मानोऽस्ति कीर्ण इति¹⁰ ह षष्ठः?)॥९३॥
(मांसलेन शरीरेण ग्रीवा¹¹सिरा अग्रा ++ ।
मांसलायत¹²शाखा च नारी वृत्तेति सा मता?) ॥ ९४ ॥
पृथुवक्त्रा¹³ कटीह्रस्वा ह्रस्वग्रीवा पृथूदरी ।
पुंवत्काण्डकतुल्या(?) स्यात् सा नारी पौरुषी मता ॥ ९५ ॥
अल्पकायशिरोग्रीवा लघुशाखा भवेच्च या ।
कृशाल्पब्रह्मसत्त्वा¹⁵ च सा नारी बालकी स्मृता(?) ॥ ९६ ॥
पुंस्पर्शात् पश्यता(?)या स्यात् कौमारे प्राप्तयौवना ।
अन्या सा बालकी प्रोक्ता स्त्रीलक्षणविचक्षणैः ॥ ९७ ॥
[ भ्रुवः¹⁶ सद्विर्यवामात्रा लेखा कृशैर्यवाङ्गुलाः ।
दत्तोयमन्तरे वर्त्म ताराय¹⁷ अर्धमालिखेत्¹⁸ ॥ ९८ ॥
१ द. च । २ द. ण्यो । ३ द. स्वेह । ४ द. विस्तृभिः । ५ द. दीर्घ वा ह्रस्व पृथ्वक्ष्याः ।
६ द. क्त्रं । ७ द. ‘ ‘योमवचेति शरीरवंशाः सिंम्यानभावैः कथिता नराणां सामान्य कथितं च योज्यं ।
इत्यधिकः पाठः समाविष्टः अस्ति । ८ द. हानु । ९ द. भां । १० द. ती । ११ द. ग्रीवां शिराश्च या ।
१२ द. य । १३ द. क्त्रा । १४ द. ल्यां । १५ द. त्व । १६ द. भ्रु; इत उत्तरं वक्ष्यमाणास्तु प्रकृता-
ध्यायगता विधयाश्चतुरशीतितमश्लोकपूर्वार्धानुगता इति शक्यमुन्नेतुम् । १७ द. यं । १८ द. स ।
१९ द. श्चा ।

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६१९
श्वैत्यं चतुर्यवं दृश्यशेषं सा तिरस्कृतम् ।
कपोतरेखा परतो यववर्जितमङ्गुलम् ॥ ९९ ॥
सूत्रात्पूर्वपटान्तः स्यादर्धाङ्गुलमितेन्तरे ।
नासिकान्तोऽङ्गुलं सूत्रात् परे पूर्वतपाङ्गुलम् ॥ १०० ॥
मूले नासापुटः साद्रः सूत्रं गोज्याश्च मध्यगम् ? ] ।
यवार्धमात्रौ गोजी स्यादुत्तरोष्ठः परस्यं यः ॥ १०१ ॥
स ब्रह्मसूत्रादारभ्य विज्ञेयो द्वियवोन्मितः ।
परे त्वधस्तन्नासाया रेखा चार्धाङ्गुलैर्भवेत् ॥ १०२ ॥
परभागेऽधरोष्ठस्य प्रमाणं + यवं मतम् ।
हन्वपर्यन्तलेखाया मध्ये सूत्रं प्रतिष्ठितम् ॥ १०३ ॥
सूत्रात् प्राक् करवीरः स्याद् द्वियैवोनाङ्गुलद्वयम् ।
यवार्धं स च दृश्येत श्वैत्यं सार्धयवं ततः ॥ १०४ ॥

  • तारा त्रियवा ज्ञेया शेषमुक्तप्रमाणतः ।
    कर्णावर्तादधः कर्णमध्यभागेन संमितम्(?) ॥ १०५ ॥
    द्व्यङ्गुलः कर्णविस्तारः कर्णावर्ताचतुर्यवे ।
    शिरःपृष्ठस्य लेखा स्यादिति ज्ञात्वोक्तमाचरेत् ॥ १०६ ॥
    कर्णसूत्राद् बहिर्ग्रीवा विधातव्यैकमङ्गुलम् ।
    गलो ग्रीवा च हिक्का च सूत्राद् प्रागङ्गुलोत्तरे ॥ १०७ ॥
    हिक्कासूत्राद् भवेदूर्ध्वमंश( स )लेखा तथाङ्गुलम् ।
    ब्रह्मसूत्रात् परे भागे स्यादंशो( सो )ऽङ्गुलसंमिते ॥ १०८ ॥
    (वक्षोऽङ्गुलं ब्रह्मसूत्रां ++ नस्ति कालान्तरे (?) ।
    भागमात्रे भवेत् कक्षासूत्रात् पूर्वः १६ स्तनस्य च ॥ १०९ ॥
    १ द. सूत्रार्धन् पू° । २ द. न्तं । ३ द. °कांशुं° । ४ द. शा । ५ द. र्वी । ६ द. स्या इत्यधिकः
    पाठः । ७ द. स्परं । ८ द. °स्ष्ट° । ९ द. हे । १० द. प्रात् । ११ द. का। १२ द गा । १३ द.
    त्रात् परे भागे स्यादंशोऽङ्गुलसंमिते । इत्यधिकः पाठः । १४ द. त्रातस्त्रि । १५ द. लं । १६ द. र्व ।

६२० समराङ्गणसूत्रधारे
कक्षात्त्रिकलं यावत् पार्श्वलेखा विधीयते ।
(१दूराग्रभुजस्तस्याग्रे कर्मानुसारतः ॥ ११०॥
प्रासादमध्यः सूत्रः स्यादेकादशभिरङ्गुलैः ।
परभागस्य मध्यस्त ?) सूत्रात् स्यादङ्गुलैस्त्रिभिः ॥ १११ ॥
अङ्गुलेन परे भागे सूत्रतो नाभिरिष्यते ।
नाभि(भे२)रुदरलेखा तु विज्ञातव्याङ्गुलत्रये ॥ ११२॥
श्रोणी कर्णो भवेन्नाभे(?) ३मुखमर्धाङ्गुलान्वितम् ।
ब्रह्मसूत्रात् कटिः पूर्वे त्रिभागा त्र्यङ्गुला परे ॥ ११३॥
(ब्रह्मसूत्राश्रितं मेढ्रस्तले चा परनो भवेत् ।
पूर्वोक्तः मध्यभेखास्यात् सूत्रात् प्रत्यङ्गुल्यन्तरे ? ॥ ११४॥
तस्यैव मूलरेखा च सूत्रात् प्राग् द्व्यङ्गुलेन्तरे ।
मूललेखा परस्योरोः सूत्रात् स्याद् द्विकलेऽन्तरे ॥ ११५॥
पर्यन्तजानुनो ५भागे पर्यन्तोपरा(?) जानुतः ।
परभागिका जातद्वै(?) सूत्रस्य सम्यक् प्रतिष्ठितम् ॥ ११६ ॥
जानुमध्ये गता लेखा बाह्यलेखाश्रिता भवेत् ।
अध्यर्धमात्रं जानु स्यादधोलेखा तु तस्य या ॥ ११७॥
अर्धाङ्गुलेन सा सूत्रात् पूर्वतः प्रविधीयते ।
सूत्रात् परे (९पराङ्गुष्ठं मूल ?) पादोनमङ्गुलम् ॥ ११८॥
मूलादङ्गुष्ठकस्याग्रं सार्धैः स्यादङ्गुलैस्त्रिभिः ।
सूत्रात् परं स्याज्जङ्घाया लेखाङ्गुलचतुष्टये ॥ ११९॥
तस्यास्तु पूर्वजङ्घाया लेखा स्यादङ्गुलद्वये ।
पूर्वजानु कलामानं शेषं कुर्याद् यथोदितम् ॥ १२०॥
१ द. खां । २ द. वा दू ं । ३ द. मुं । ४ द. तं मेतं । ५ द. ला । ६ द. तो । ७ द. त्रं
सम्यं । ८ द. ह्मा । ९ द. पराङ्गुष्ठ; मुद्रित पुस्तके ‘पराङ्गुष्ठमूल’ इति स्यात् ।

ऋज्वागतादिस्थानलक्षणं नामैकोनाशीतितमोऽध्यायः । ६२१
परपादतले (स्तम्भं ?) यत् तिर्यक् सुप्रतिष्ठितम् ।
(तत्प्राक्प्रदेशस्योर्ध्वं ?) सार्धया कलया भवेत् ॥ १२१ ॥
(प्राग्भङ्गोऽङ्गुष्ठमूलेच्छस्तत्रास्वीया ?) कनिष्ठिका ।
(कलामात्रं निजाङ्गुष्ठादंधौसागं ?) प्रपद्यते ॥ १२२ ॥
(यत् पराङ्गुल्लम्बसूत्रं प्रतिपद्यते ?) ।
यत् पराङ्गुष्ठमूलोत्थं लम्बसूत्रं प्रपद्यते ?) ।
(मध्येन पूर्वभागाप्ति मैबन्धाङ्गुष्ठकस्य तँत् ?) ॥ १२३ ॥
पूर्वपार्ष्णितलादूर्ध्वं विदध्यादङ्गुलत्रये ।
पाष्णेः⁷ परस्य पादस्य पूर्वपादं⁸ तिरस्कृतम् ॥ १२४ ॥
अध्यर्धाक्षं यथाशास्त्रमेवं स्थानकमालिखेत् ।
अथ पार्श्वगतं नासे(म)स्थान(नं)पञ्चममुच्यते ॥ १२५ ॥
व्यावर्तितमुखस्यान्ते ब्रह्मसूत्रं विधीयते ।
ललाटबाह्यलेखां च सूत्रस्पृष्टां प्रदर्शयेत् ॥ १२६ ॥
सूत्रात्¹⁰ तु नासिकावंशः (संवृद्ध्य द्व्यक्षमानतः ?) ।
अपाङ्गो¹¹ द्विकले सूत्रात् कर्णौ (यंशात् ?) कलाद्वये ॥ १२७ ॥
कर्णौ द्व्यङ्गुलविस्तारः शिरःपृष्ठं कला ततः( ?) ।
अस्य मध्यगतं सूत्रमास्यार्धं स्थापयेत् ततः ॥ १२८ ॥
अङ्गुलो(ले) चिबुकं सूत्राद्धनुमध्यं चतुर्यवे ।
सार्धाङ्गुले ततः कण्ठवर्तिग्रीवाङ्गुले नतः ॥ १२९ ॥
अङ्गुलेन ततो हिक्का¹² चतुर्भिर्र्ब्रह्मसूत्रतः ।
मूर्ध्ना श्रवणपाल्यन्तेनैति सूत्रं तदुच्यते ॥ १३० ॥


१ द. म्बं । २ द. पादे । ३ द. ०दधोभागं । ४ द. लमूलोत्थ ल० । ५ द. संबद्धाङ्गु० । ६ द. च ।
७ द. र्ष्णि । ८ द. ०र्वापाद । ९ द. प्रतौ नास्ति । १० द. सूत्रानुनासिका वंशः स्माध्य्यर्द्धाक्षमानतः ।
११ द. 'अपाङ्गो......कलाततः' नास्ति । १२ द. ष्का ।

ग्रीवायाङ्गुल्यमध्येन(?) मध्यसूत्रं तदुच्यते ।
भागे हिक्कामध्यसूत्राद्दण्डमूलं कलाद्वये ॥ १३१ ॥
मात्राष्टके च पृष्ठं तो(?) हल्लेखाप्येवमेव हि ।
न(स्त)नस्य मण्डलं तस्मादङ्गुलेन विधीयते ॥ १३२ ॥
कक्षा च पूर्वभागे स्यात् सूत्रात् पञ्चभिरङ्गुलैः ।
मात्रात्रयेणापरस्मिन् भागे कक्षा विधीयते ॥ १३३ ॥
उभयोरन्तयोः प्राहुर्मध्यमष्टाङ्गुलं बुधाः ।
अङ्गुलैर्दशभिर्मध्यं पर्यन्तो मध्यसूत्रतं१(तः) ॥ १३४ ॥
मध्यपृष्ठं चतुर्भिः स्यान्नाभिपृष्ठं च पञ्चभिः ।
नाभ्यन्तरे रेखा नवभिः कटिपृष्ठं कलात्रये ॥ १३५ ॥
उदरप्रान्तलेखा च ज्ञेया दशभिरङ्गुलैः ।
(माँ३ मा त्राँ४त्रयेणाभिरष्टाँ५भि ?) सूत्रात् ६स्फिजो मध्यं प्रचक्षते ॥
वस्तिशीर्षं च नवभिः स्फिगन्तो(ऽष्ट)भिरङ्गुलैः ।
अष्टभिर्मेढ्रमूलं स्यादूरुमध्यं च सप्तभिः ॥ १३७ ॥
अङ्गुलैः पञ्चभिर्मूलमूर्रोः (पाँश्चात्यमुच्यते१०?) ।
चतुर्भिरङ्गुलैः सार्धं७(धैः) क(र)८मध्यं च पृष्ठतः ॥ १३८ ॥
अग्रतः पञ्चभिः सार्धैस्तदेव प्राहुरङ्गुलैः ।
करमध्याङ्गलै२(ले)र्मध्यं९ सूत्रमध्ये विधीयते ॥ १३९ ॥
जान्वर्धे मध्यसूत्रं स्याद् भागो लेखा च जानुतः ।
भवेदुभयतःस्त(सू)त्रं जङ्घा मध्ये च कीर्तिता ॥ १४० ॥
जङ्घा षडङ्गुला सूत्रं मध्ये स्यान्नलकस्य च ।
उभयोः पार्श्वयोः कार्यों नलकश्चाङ्गुलद्वयम् ॥ १४१ ॥

१ द. प्रतौ नास्ति । २ द. ले । ३ मुद्रित पुस्तके 'मात्राभिरष्टभिः' इति स्यात् । .४ द. मात्रात्रं । ५ द. ष्टोभिः । ६ द. स्फितोजो । ७ द. र्ध । ८ द. र्मं । ९ द. व्य । १० द. ˚स्थां ।
मुद्रित प्रतौ 'पाश्चात्यमुच्यते' इत्येव पाठः स्यात् ।