सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 667, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 667

६०६ समराङ्गणसूत्रधारे
तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः ।
सम्पूर्णचन्द्रवदनः पीतवासास्तु( : शु )१भेक्षणः ॥ ४५ ॥
विचित्रमुकुटः कार्यो वराङ्गदविभूषितः ।
तेजसा सूर्यसङ्काशः कर्तव्यो बेलवाञ्छु२भः ॥ ४६ ॥
धन्वन्तरिर्भरद्वाजः ( प्रजानीतैतयस्तथा ।
दॅ४क्षार्थाः सदृशाः कार्या कार्यो रूपाणि + रपि ? ) ॥ ४७ ॥
अर्चिष्मान् क्ष( ज्व )लनः कार्यः( यत्कण्ठाश्व ? )समीरणः ।
सौम्यः कार्यस्तथा( र्विंस्या ? ) + + रुद्र७शरीरिणः ॥ ४८ ॥
रक्तवस्त्रधराः कृष्णा नानाभरणभूषिताः ।
कर्तव्या राक्षसाः सर्वे बहुप्रहरणान्विताः ॥ ४९ ॥
पूर्णचन्द्रमुखा९ शुभ्रा विम्बोष्ठी चारुहासिनी ।
श्वेतवस्त्रधरा कान्ता दिव्यलङ्कारभूषिता१० ॥ ५० ॥
कटिदेशनिविष्टेन वामहस्तेन शोभना ।
सपद्मेन ( वौन्तेन ? )११ दक्षिणेन शुचिस्मिता१२ ॥ ५१ ॥
कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता ।
गृहीतशूलपरिघ( पाहिंको ? )१३पट्टिसध्वजा ॥ ५२ ॥
बिभ्राणा खेटकोपेतलघुखङ्गं च पाणिना ।
घण्टामेकां च सौवर्णी दधती घोररूपिणी ॥ ५३ ॥
कौशिकी पीतकौशेयवसना सिंहँवा१५( ह )ना ।
( सेचोष्ठौ ? ) + विधातव्याः शुक्लाम्बरधराः१६ + + ॥ ५४ ॥
शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः ।
सदृशावश्विनौ कार्यौ लोकस्य शुभदायकौ ॥ ५५ ॥
शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ ।
( त्रिपञ्चदशपूर्तिरस्येदं भृङ्गवन्मेचकप्रभाम्१८ ॥ ५६ ॥

१ द. ते । २ द. द । ३ द. ˚नां । ४ द. दक्ष्याथाः । ५ द. र्याः । ६ द. दि । ७ द. रुद्र रौद्र । ८ द. सां । ९ द. ˚स्वी श्वभ्रा बिम्बौष्ठी । १० द. ताः । ११ द. च कांतेन । १२ द. स्मृताः ।
१३ द. मू । १४ द. त । १५ द. वानव । स चोष्ठौ । १६ द. शुभाः । १७ द. ध । १८ द. भाः ।