समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 668, कुल 726 में से
संदर्भ में पढ़ेंदेवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः । ६०७
वैदूर्यशकसङ्काशा ?) हरितश्मश्रवोऽपि च ।
रोहिता विकृता रक्तलोचना बहुरूपिणः ॥ ५७ ॥
नागैः१ शिरोरुहालीनैर्विरागाभरणाम्बराः ।
कार्याः पिशाचाँ भूताश्च परुषासत्यवादिनः ॥ ५८ ॥
(बहुप्रकारमन्दहा ?) विरूपा विकृताननाः ।
घोररूपा विधातव्या ह्रस्वा नानासु(यु)धाश्च ते ॥ ५९ ॥
सुभीमविक्रमा भीमा (:) सङ्घा यज्ञोपवीतिनः ।
वैर्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ॥ ६० ॥
येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः ।
यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ॥ ६१ ॥
यक्षराक्षसयोर्वापि नाना(ग)गन्धर्वयोरपि ।
तेन लिङ्गेन कार्यः स यथा साधु(धु) विजानजा(ता) ॥ ६२ ॥
प्रायेण (वा ?) वीर्यवन्तो हि दानवाः क्रूरकर्मिणः ।
किरीटिनश्च कर्तव्या विविधाsubपाणयः ॥ ६३ ॥
तेभ्योऽपीषत् कनीयांसो दैत्याः कार्या गुणैरपि ।
दैत्येभ्यः परिहीणांस्तु यक्षाः कार्या मदोत्कटाः ॥ ६४ ॥
हीनास्तेभ्योऽपि गन्धर्वा गन्धर्वेभ्योऽपि पन्नगाः ।
नागेभ्यो राक्षसा हीनाः क्रूर(विक्रिममतसूपिणः ?) ॥ ६५ ॥
विद्याधराश्च यक्षेभ्यो हीनदेहत(ध)राः स्मृताः ।
चित्रमाल्याम्बरधराश्चित्रचर्मासिपाणयः ॥ ६६ ॥
नानावेशधरा घोरा भूतसङ्घा भयानकः ।
पिशाचेभ्योऽधिकाः स्थूलास्तेजसा परुषास्तथा ॥ ६७ ॥
अन्यूनाधिकरूपांश्च कुर्वीत प्रायशः शुभान् ।
१ द. वैदूर्यससिकं संकासा । २ द. भैः । ३ द. च । ४ द. चर्मेचिः । ५ द. र्दा । ६ द.
दित्याः कार्यै । ७ द. ना । ८ द. विक्रुत रूपिणः ।