समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 676, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 676पूर्वो(र्वे) भागे यवं गोजी स्त(त)त्रोपान्ते विधीयते ।
पूर्वो(र्वे) भागे यवं गोजी स्त(त)त्रोपान्ते विधीयते ।
परभागोत्तरोष्ठः स्यात् प्रमाणेनार्धमात्रकः ॥ ५४ ॥
त्रियवश्चाधरोष्ठः स्याच्छेषश्चापचयस्तयोः ।
पाल्या मध्ये भवेत् सूत्रं पाल्याशु(स्तु) चिबुकं परे ॥ ५५ ॥
हनुपर्यन्तलेखा च सूत्रादर्थाङ्गुले भवेत् ।
हनोर्मध्यगतं सूत्रं परे स्यात् परिमण्डलम् ॥ ५६ ॥
सहैकसूत्रे परह्रकू पर्यन्तेन परिस्फुटा ।
मुखपर्यन्तलेखार्धे(ह)नोरुपरि चाधरः ॥ ५७ ॥
कुर्याल्लेखाभिरेताभिः परभागं विचक्षणः ।
(सूत्राङ्गुलोर्ध्वमात्रायां तस्माद् ग्रीवा यथोदिता ॥ ५८ ॥
सूत्रसंयोगात् पूर्वस्मिन्नङ्गुले सयवेऽङ्गुलः ? ) ।
हिक्काध्यर्धाङ्गुलं सूत्रात् पूर्वे स्यात् सुप्रतिष्ठिता ॥ ५९ ॥
बाह्यलेखा हि व(त)त्सूत्रात् परस्मिन्नङ्गुलाष्टके ।
(ताले यवोनग्रीवातो नग्रीवज्ञेयौसूनदूर्ध्वकौ ? ) ॥ ६० ॥
हिक्कासूत्रात् समारभ्य ^७वक्षोभागोऽग्रिकं(?) भवेत् ।
(तावन्मात्रे तरेवाहु ? ) तस्मात् प्रभृति निर्दिशेत् ॥ ६१ ॥
^८हिक्कासूत्रात् परे भागे स्तनश्चाङ्गुलपञ्चके ।
रेखान्तसूचकः कार्यो मण्डलं सार्धमङ्गुलम् ॥ ६२ ॥
तस्मादनन्तरं बाह्यभागमात्रं विनिर्दिशेत् ।
हिक्कासूत्रात् समारभ्य स्तनंः (पूर्वषडङ्गुले ?) ॥ ६३ ॥
स्तनात् षडङ्गुले (तिर्यगक्षो स्मा ^१०द्वौ^११ ?) द्विभागिकः ।
कक्षै^१२तो द्विकलेऽधस्ताद् बाह्यलेखा विधीयते ॥ ६४ ॥
आभ्यन्तरा बाह्यलेखा स्तनात् पञ्चाङ्गुले^१३ त(लेऽन्त)रे ।
ब्रह्म^१४सूत्राच्च भागेन मध्यभागे (परि ?) विदुः ॥ ६५ ॥
१ द. न्त । २ द. त्रि । ३ द. र्मध्ये गरं । ४ द. स्याद्ध । ५ द. दोः बा । ६ द. च्° ।
७ द. वक्षौ भागौग्नितं । ८ द. दि । ९ द. ण्ड । १० द. तः । ११ द. दोर्द्धिं । १२ द. क्षा ।
१३ द. °ले गुलः । १४ द. 'ब्रह्मसूत्राच्च इत्यारभ्य दशाङ्गुलः' इत्यन्तं पाठः नास्ति ।