सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 683, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 683

ग्रीवायाङ्गुल्यमध्येन(?) मध्यसूत्रं तदुच्यते ।
भागे हिक्कामध्यसूत्राद्दण्डमूलं कलाद्वये ॥ १३१ ॥
मात्राष्टके च पृष्ठं तो(?) हल्लेखाप्येवमेव हि ।
न(स्त)नस्य मण्डलं तस्मादङ्गुलेन विधीयते ॥ १३२ ॥
कक्षा च पूर्वभागे स्यात् सूत्रात् पञ्चभिरङ्गुलैः ।
मात्रात्रयेणापरस्मिन् भागे कक्षा विधीयते ॥ १३३ ॥
उभयोरन्तयोः प्राहुर्मध्यमष्टाङ्गुलं बुधाः ।
अङ्गुलैर्दशभिर्मध्यं पर्यन्तो मध्यसूत्रतं१(तः) ॥ १३४ ॥
मध्यपृष्ठं चतुर्भिः स्यान्नाभिपृष्ठं च पञ्चभिः ।
नाभ्यन्तरे रेखा नवभिः कटिपृष्ठं कलात्रये ॥ १३५ ॥
उदरप्रान्तलेखा च ज्ञेया दशभिरङ्गुलैः ।
(माँ३ मा त्राँ४त्रयेणाभिरष्टाँ५भि ?) सूत्रात् ६स्फिजो मध्यं प्रचक्षते ॥
वस्तिशीर्षं च नवभिः स्फिगन्तो(ऽष्ट)भिरङ्गुलैः ।
अष्टभिर्मेढ्रमूलं स्यादूरुमध्यं च सप्तभिः ॥ १३७ ॥
अङ्गुलैः पञ्चभिर्मूलमूर्रोः (पाँश्चात्यमुच्यते१०?) ।
चतुर्भिरङ्गुलैः सार्धं७(धैः) क(र)८मध्यं च पृष्ठतः ॥ १३८ ॥
अग्रतः पञ्चभिः सार्धैस्तदेव प्राहुरङ्गुलैः ।
करमध्याङ्गलै२(ले)र्मध्यं९ सूत्रमध्ये विधीयते ॥ १३९ ॥
जान्वर्धे मध्यसूत्रं स्याद् भागो लेखा च जानुतः ।
भवेदुभयतःस्त(सू)त्रं जङ्घा मध्ये च कीर्तिता ॥ १४० ॥
जङ्घा षडङ्गुला सूत्रं मध्ये स्यान्नलकस्य च ।
उभयोः पार्श्वयोः कार्यों नलकश्चाङ्गुलद्वयम् ॥ १४१ ॥

१ द. प्रतौ नास्ति । २ द. ले । ३ मुद्रित पुस्तके 'मात्राभिरष्टभिः' इति स्यात् । .४ द. मात्रात्रं । ५ द. ष्टोभिः । ६ द. स्फितोजो । ७ द. र्ध । ८ द. र्मं । ९ द. व्य । १० द. ˚स्थां ।
मुद्रित प्रतौ 'पाश्चात्यमुच्यते' इत्येव पाठः स्यात् ।