सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 670, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 670

दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः । ६०९
( ऊर्ध्वपिण्डका सासिसासि ? ) स्वामिनो दुःखमावहेत् ।
( कुक्षिष्टिप्राय ? ) दुर्भिक्षं रोगा( न् ) कुब्जार्चिता नृणाम् ॥ १० ॥
पार्श्वहीना तु भवति राज्यैस्याशुभदर्शनी । ४
( शालायासनया स्थानं स्त्रीश्व ? ) प्रतिमया भवेत् ॥ ११ ॥
आसनालयहीनायां बन्धनं स्थानविच्युते( तिः ) ।
नानाकाष्ठसमायुक्ता या चैवायसपिण्डिता ॥ १२ ॥
सन्धिभिः ( प्रविसहिर्या ? ) सानर्थभयदा भवेत् ।
( सम्बन्धार्कृष्ट ? ) लोहेन त्रपुणा वा कदाचन ॥ १३ ॥
दारुणा च तथैवोक्ता प्रतिमायाँस्तु( शास्त्र )वेदिभिः ।
सन्धयश्चापि कर्तव्याः सुश्लिष्टाः पुष्टिमिच्छता ॥ १४ ॥
अर्चानाम धराधेन(?) शास्त्रदृष्टविधानतः ।
बध्नीयात् ताम्रलोहेन सुवर्णरजतेन वा ॥ १५ ॥
( कृतेन केणुना चान्यथा स्तुसामबद्धावरुजावहा ? ) ।
तस्मात् सर्वप्रयत्नेन स्थपतिः शास्त्रकोविदः ॥ १६ ॥
कुर्यादर्चां यथान्यायं सुविभक्तां प्रमाणतः ।
( न क्षतां नोपदिगां च न च १२विवर्जिता ॥ १७ ॥
न प्रत्यङ्गैः प्रहीनं च घ्राणपा१३दैर्नखादिभिः ? ) ।
सुविभक्तां१४ यथोत्सेधां प्रसन्नवदनां शुभाम् ॥ १८ ॥
निगूढसन्धे( न्धि )करणां समायतिम्ऋजुस्थिताम् ।
( १५ईदृशां राणायेदर्घा ? ) प्रमाणगुणसंयुताम् ॥ १९ ॥
समोपचितमां१६साङ्गाः पुरुषाः स्युः समासतः ।
प्रमाणलक्षणयुता वस्त्ररत्नविभूषितैः १७ (?) ॥ २० ॥
१ द. सासि इति पाठः प्रतौ नास्ति । २ द. ष्ट्र् । ३ द. र्शि । ४ द. इतः परं 'अधोमुखी
तु विज्ञेया वच्चलंकारहारिणी ॥ प्रतीक्षार्थमुखी या स्यात्सा मृत्युर्भयदायिनी' । इत्यधिकः पाठः । ५ द. प ।
६ द्वा । ७ द. यास्तु इति पाठः प्रतौ नास्ति । ८ द. य । ९ द. प्रत्नेन । १० द. र्था । ११ द. र्तां ।
१२ द. च मान वि° । १३ द. देन । १४ द. क्तं । १५ द. ईदृशी कारयेदर्चा; मुद्रित प्रतौ 'ईदृशी
कारयेदर्चा' इति स्यात् । १६ द. मा । १७ द. ताः ।
वा. ७७