प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
विचारः ] परार्थानुमानपरिच्छेदः ३८७
शास्त्रेष्विच्छाप्रवृत्त्यर्थो यदि शङ्का कुतो न्वियम् ॥ ७२ ॥
सोऽनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते ।
निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्त्यते ॥ ७३ ॥
पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् ।
किञ्चिदन्यं स तु पुनर्गृहीतुं लभते न किम् ॥ ७४ ॥
दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयं-श्रुतिम् ।
इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन् ॥ ७५ ॥
शास्त्रेष्टमात्रस्य तु साध्यत्वे निष्फलमेव तत् । शास्त्रेष्विच्छया प्रवृत्त्यर्थः
स्वयं-शब्दो यदि कथ्यते, स्वयं-शब्दमन्तरेण शास्त्रमिच्छया न ग्रहीतव्यमिति
शङ्केयं कुतो नु हेतोर्जाता, येन तन्निवृत्त्यर्था स्वयं-श्रुतिर्वर्ण्यते ॥ ७२ ॥
स वादी प्रमाणेन शास्त्रार्थबाधकेनानिषिद्धः शास्त्रं गृह्णन् केन
निवार्यते, न केनचित्; यतः स्वयं-ग्रहणं शास्त्रं ग्राहयत् सफलं स्यात् ।
प्रमाणेन चेच्छास्त्रार्थबाधकेन निषिद्धो वादी वाचा स्वयं-शब्देन शास्त्राभ्युपगमे
केन लक्षणकर्त्रा प्रवर्त्त्यते, न केनचित् ॥ ७३ ॥
किञ्च—एष वादी पूर्वमपि स्वेच्छयैव सिद्धान्तं कणादादिप्रणीतं
गृहीतवान्; न त्वन्यपुराणादिबलात् । स कथमिच्छया शास्त्रोद्दिष्टं किञ्चिद्
धर्मव्यभिचारदर्शनादिना शास्त्रेषु सफलधर्मकलापसाध्यत्वादन्यं सिद्धान्तमाकाश-
गुणत्वरहितानित्यतादिकं ग्रहीतुं किन्न लभते; इच्छाधीनत्वे नियमायोगात् ।
तस्मात् स्वयं-ग्रहणं शास्त्रेच्छाप्रवृत्त्यर्थमित्युक्तम् ॥ ७४ ॥
नन्विष्टस्यापि स्वेच्छयैव साध्यतापरिग्रहः सिद्ध इति व्यर्थं स्वयं-ग्रहणम् ?
इत्याह—शास्त्रकारस्येष्टं साध्यमिति विप्रतिपत्तीनां दृष्टेस्तन्निराकरणार्थमत्र
पक्षलक्षणे स्वयं-श्रुतिमाचार्योऽकार्षीत् । शास्त्रेष्वाकाशगुणत्वासिद्धावपि वादी-
ष्टस्याक्षतिं शास्त्रेष्टस्यासाध्यत्वं शास्त्रेष्टधर्मान्तरासिद्धौ हेतुबलप्रसिद्धसाध्य-
बाधने गन्धे भूगुणताबाधायां शब्दे कृतकत्वमनित्यत्वसाधनं विरुद्धं स्यादि-
त्यादिकामनवस्थां च परस्य दर्शयन्नाचार्यः स्वयं-श्रुतिमकार्षीदिति पूर्वेण
सम्बन्धः ॥ ७५ ॥
३८८ प्रमाणवार्त्तिके [ पक्षलक्षण-
समयाहितभेदस्य परिहारेण धर्मिणः ।
प्रसिद्धस्य गृहीत्यर्थां जगादान्यः स्वयं-श्रुतिम् ॥ ७६ ॥
विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः ।
स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः ॥ ७७ ॥
असाध्यतामथ प्राह सिद्धादेशेन धर्मिणः ।
स्वरूपेणैव निर्देश्य इत्यनेनैव तद् गतम् ॥ ७८ ॥
सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे ।
साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत् ॥ ७९ ॥
समयेन सिद्धान्तेनाहित आरोपितो भेदो विशेष आकाशगुणत्वादिर्यस्य
तस्य धर्मिणः परिहारेणागमनिरपेक्षप्रमाणबलात् प्रसिद्धस्य धर्मिणः शब्द-
मात्रादेर्गृहीतित्यर्थः प्रयोजनं यस्यास्तां स्वयं-श्रुतिमन्यो जगाद । स्वं
प्रसिद्धो धर्मी कार्यः, नागमसिद्ध इत्यर्थः ॥ ७६ ॥
अत्राह—धर्मिणि साध्यधर्मस्य भावाभावविचारप्रस्तुतेरेवागमनपेक्ष्य
प्रसिद्ध आश्रयो धर्मी सिद्धः; स्वेच्छया कल्पितो भेदो विशेषो येषां
तेषु पदार्थेष्वविवादतो विवादाभावात् । न हि कल्पितभेदे धर्मिणि कश्चित्
प्रेक्षावान् कस्यचिद् धर्मस्य साधनं बाधनं वेहते; किन्तु प्रमाणप्रतीते वस्तुनि ।
अतस्तदर्थमपि स्वयं-ग्रहणमनुपयुक्तम् ॥ ७७ ॥
अथ सिद्धादेशेन प्रसिद्धार्थवाचकेन स्वयं-शब्देन धर्मिणोऽसाध्यतां
प्राह, यथा—अस्ति प्रधानं भेदानामनुपदर्शनादिति ? इदमप्ययुक्तम्; यस्मात्
स्वरूपेण साध्यत्वेनैव निर्देश्य इत्यनेन पक्षलक्षणावयवेनैव च तद् धर्मिणः
सिद्धस्यासाध्यत्वं गतं प्रतीतम् ॥ ७८ ॥
तथा हि—'अयमिष्टोऽनिराकृतः पक्षः' इत्यनेन सिद्धस्य सिद्धरूपेण
निर्देशस्य धर्मवचनस्यासिद्धस्यापि साधनरूपेण निर्देशस्यासिद्धवचनस्य पक्षत्व-
सम्भवे हि तत्प्रतिषेधं विदधत् साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत् ।
साध्यस्यैव निर्देशः पक्ष इति सिद्धस्य धर्मिणोऽसिद्धस्य च साधनत्वेनोक्तस्य
निरासः ॥ ७९ ॥
विचारः ] परार्थानुमानपरिच्छेदः ३८९
अनुमानस्य सामान्यविषयत्वं च वर्णितम् ।
इहैवं न ह्यनुक्तेऽपि किञ्चित् पक्षे विरुध्यते ॥ ८० ॥
कुर्याच्चेद् धर्मिणं साध्यं ततः किं तन्न शक्यते ।
कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥ ८१ ॥
उत्तरावयवापेक्षो न दोषः पक्ष इष्यते ।
तथा हेत्वादिदोषोऽपि पक्षदोषः प्रसज्यते ॥ ८२ ॥
सर्वैः पक्षस्य बाधात्तस्तस्मात् तन्मात्रसङ्गिनः ।
पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥ ८३ ॥
हेत्वादिलक्षणैर्बाध्यं मुक्त्वा पक्षस्य लक्षणम् ।
किञ्च—अनुमानस्य सामान्यविषयत्वं स्वयमाचार्येण वर्णितम् ।
यदि च धर्मी पक्षः, तदा तस्य स्वलक्षणत्वात् सामान्यविषयता व्याहन्येत ।
किञ्च—इह पक्षलक्षण एवमुक्तक्रमेणानुक्तेऽपि स्वयं-शब्दे सिद्धधर्म्यसिद्ध-
साधनव्यवच्छेदार्थे किञ्चित् पक्षे प्रतिपाद्ये न विरुध्यते ॥ ८० ॥
नन्वनुक्ते स्वयं-शब्दे पक्षलक्षणं धर्मिणं साध्यं कुर्यादिति दोषः, ततो
धर्मिणः पक्षत्वप्रसङ्गात् किं दूषणम् ? तद्धर्मिपक्षत्वं कर्तुं न शक्यत इति
अशक्यतादूषणम् । कस्मात् कारणाद् धर्मी पक्षो भवितुं नार्हति ? धर्मिणः
साध्यत्वेनासिद्धतायां हेतोरभावात्, विशेषस्य धर्मिणो दृष्टान्तेऽसम्भवात् ।
अन्वयाभावाच्च धर्मी पक्षः कर्तुं न शक्यते ।
नन्वयं दोषस्तयोर्हेतुदृष्टान्तयोः, न तु पक्षस्य । तथा हि—साधनवाक्यस्य
पक्षादुत्तरेऽवयवे 'हेतुदृष्टान्तादिकेऽपेक्षा यस्यासौ दोषः पक्षे नेष्यते; हेतु-
दृष्टान्तसम्बन्धित्वात् तस्य । यदि तूत्तरावयवापेक्षोऽपि पक्षस्य बाधनात् पक्षदोष
उच्यते, तथा सति हेत्वादिदोषोऽपि पक्षदोषः प्रसज्यते ॥ ८१–८२ ॥
सर्वैर्हेत्वादिदोषैः पक्षस्य बाधात् तस्मात् तन्मात्रसङ्गिनः पक्षमात्र-
सम्बद्धा दोषाः पक्षदोषा मताः। नान्येऽवयवान्तरापेक्षाः प्रत्यक्षादिविरोधवत् ।
यथा प्रत्यक्षादिबाधितत्वमवयवान्तरानपेक्षं पक्षदोषः ॥ ८३ ॥
तस्माद् हेत्वादीनां लक्षणैर्बाध्यं परिहर्त्तव्यं दोषमन्वयविरोधादिकं
चतुर्थ परिच्छेद: परार्थानुमान परिच्छेद एवं ग्रन्थ उपसंहार
३९० प्रमाणवार्त्तिके [ पक्षलक्षण-
उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः ॥ ८४ ॥
स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिकाः ।
सहानिराकृतेनेष्टश्रुतिर्व्याप्तिबाधनी ॥ ८५ ॥
साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता ।
निराकृते बाधनतः शेषेऽलक्षणवृत्तितः ॥ ८६ ॥
स्वयमिष्टाभिधानेन गतार्थेऽप्यवधारणे ।
मुक्त्वा पक्षमात्रानुषङ्गिणोर्व्याप्तिव्यतिरेकयोः परिहारार्थं पक्षलक्षणमुच्यते
व्यतिरेक आधिक्यमभिव्याप्तिरित्यर्थः ॥ ८४ ॥
तत्र येन पदेन यद् दूषणं परिह्रियते, तदाह—स्वयं च निपातं च
एवं रूपं स्वरूपं चाख्या श्रुतयः सहानिराकृतेन पदेन व्यतिरेकस्यातिव्याप्ते-
र्बाधिकाः । स्वयं-शब्देन शास्त्रेष्टस्य निपातेनासिद्धस्यापि साधनत्वेनोक्तस्य
स्वरूपशब्देन सिद्धस्य । निराकृतशब्देन प्रत्यक्षादिनिराकृतस्य पक्षत्वं सक्तं
निषिध्यते । इष्टश्रुतिर्व्याप्तेर्बाधनी । इष्टशब्दे ह्यक्रियमाणे निर्दिष्टमेव साध्यं
साध्यं स्यात्, न प्रकरणापन्नमिष्टम् ॥ ८५ ॥
यदि “स्वयंनिपातरूपाख्या व्यतिरेकस्य बाधिकाः” प्रमाणसमुच्चयलक्षणे
निर्दिष्टाः, तदा न्यायमुखे—“साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः” इति
पक्षलक्षणे ता न सन्तीति कथं तेनाव्याप्तिव्यतिरेकयोः परिहारः ? इत्याह१—
साध्याभ्युपगमः पक्ष इति पक्षलक्षणमवतिष्ठते । तथा च तेषु शास्त्रेच्छा-
दिषु पञ्चसु व्यावत्र्त्येषु मध्ये निराकृते प्रत्यक्षादिबाधिते बाधनतोऽपक्षता
विरुद्धार्था; निराकृतस्य पक्षविधानात् । शेषे शास्त्रेष्टे वादिनाऽनिष्टे साधने च
सिद्धे साधयितुमिष्ट एषिष्यमाणे सिद्धे च साध्यविपरीतेऽप्रस्तुते चोक्तमात्रे
लक्षणस्य साध्यत्वेनेप्सितत्वस्यावृत्तितोऽपक्षता सिद्धेति परिपूर्णमिदमपि
लक्षणम् ॥ ८६ ॥
ननु यथा सत्यर्थेभ्यो वर्त्तमाने कुविधानादीप्सितशब्दो वर्त्तमानमिच्छामाह,
तथेष्टशब्दोऽपि तत्र एषिष्यमाणे पक्षत्वमप्रसक्तमेव, तत् किं प्रमाणसमुच्चय-
१. साध्यत्वेनेप्सितः पक्ष इति—रा० संस्करणेऽधिकः पाठः ।
विचारः ] परार्थानुमानपरिच्छेदः ३९१
कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥ ८७ ॥
इहानङ्गमिषेन्निष्ठा तेनेप्सितपदे पुनः ।
अङ्गमेव तयाऽसिद्धहेत्वादि प्रतिषिध्यते ॥ ८८ ॥
अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना ।
अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥ ८९ ॥
तेनानभीष्टसंसृष्टस्येष्टस्यापि हि बाधने ।
यथा साध्यमबाधातः पक्षहेतू न दुष्यतः ॥ ९० ॥
लक्षणेऽवधारणं कृतम् ? इत्याह — स्वयमिष्ट इत्यनयोः पदयोरभिधानेनावधारणे
निपातार्थे गते प्रतीतेऽपि कृत्यान्तेन निर्देश्य-शब्देन सर्वकालसम्बन्धयोग्याभिधा-
यिनाऽभिसम्बन्धादिष्टशब्दस्यावर्त्तमानकालेच्छाविषयस्यापि पक्षत्वं स्यात् ।
यथा — आगतो देवदत्तो द्रष्टव्य इति । यदा आगमिष्यति तदा द्रक्ष्यत इत्यर्थः ।
अतो वर्त्तमानकालात् कालान्तरस्य भविष्यदादेः साध्ये साध्येच्छाविषयस्य
च्छिदे प्रतिषेधार्थमुक्तम् — अवधारणं स्वरूपेणैवेति ॥ ८७ ॥
यस्मात् कृत्यान्तेनाभिसम्बन्धात् कालसामान्यवृत्तिरिह प्रमाणसमुच्चय-
लक्षणे निष्ठा वर्त्तमानसाध्यत्वेष्टिप्रतिपादनमत्यनङ्गमहेतुः । न्यायमुखे तेन
कृत्यान्तेन सम्बन्धाभावेनेप्सितपदे पुनरङ्गमेव निष्ठा वर्त्तमानसाध्येच्छाबोधने
तया वर्त्तमानसाध्येच्छाबोधकयाऽसिद्धहेत्वाद्यपीष्यमाणं साध्यत्वेन प्रतिषिध्यते;
तस्मान्न धर्मिणः साध्यताप्रतिषेधार्थं स्वयं-ग्रहणम् ; सिद्धत्वेनैव तत्परिहारस्य लब्ध-
त्वात् । नापि शास्त्रेष्विच्छाप्रवृत्त्यर्थम्; इच्छामात्रेणैव तद्ग्रहणस्य सिद्धत्वा-
दित्युक्तम् ॥ ८८ ॥
अवाचकत्वाच्चायुक्तं तदर्थं स्वयं-ग्रहणम् । न हि स्वयं-शब्दः ‘स्वेच्छया
शास्त्रं ग्राह्यम्’ इत्येतदर्थवाचकः, किन्तु वादिन एव वाचकः । तेन तद्वाचकत्वेन
स्वयं-वादिनाऽऽत्मना शास्त्रमखिलमनपेक्ष्य यदिष्टं तस्य वादीष्टस्य
साध्यतेष्यते, न शास्त्रेष्टस्येत्युपसंहारः ॥ ८९ ॥
तेन कारणेन वादिनोऽनभीष्टेनाकाशगुणत्वेन संसृष्टस्येष्टस्यानित्यत्व-
स्यापि हि बाधनेऽभिधीयमाने पक्षहेतू न दुष्यतः । किं कारणम् ? इत्याह —
३९२ प्रमाणवार्त्तिके [ पक्षलक्षण-
सहानिराकृतग्रहणप्रयोजनम्
अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते ।
सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ॥ ९१ ॥
बाधायाश्चातुर्विध्यम्
अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा ।
तत्राभ्युपातः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः ॥ ९२ ॥
आगमस्ववचनयोस्तुल्यबलत्वम्
आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् ।
आप्तः स्ववचनं शास्त्रं चैकमुक्तं समत्वतः ॥ ९३ ॥
यथा साध्यमबाधातः । न हि वादिनाऽऽकाशगुणत्वैकार्थसमवाय्यनित्यत्वं
साधयितुमिष्टम्, येनास्य बाधः स्यात् ; किन्त्वनित्यत्वमात्रम् । न चास्य प्रत्यक्षादि-
बाधास्ति । हेतोर्वा तदपेक्षया विरुद्धतादिकम् । तदेवम्—“स्वयं निपातरूपारूया
व्यतिरेकस्य बाधिकाः सहानिराकृतेन” इति व्याख्यातम् ॥ ९० ॥
अनिराकृतपदं व्याख्यातुमाह—स चोक्तलक्षणः साध्यस्योपगमः पक्षः ।
प्रमाणाभ्यां प्रत्यक्षानुमानाभ्यामनिषिद्ध इष्यते । कस्माद् ? इत्याह—सन्दि-
ग्धेऽर्थे साधकबाधकप्रमाणविषये हेतोर्वचनाद् व्यस्तः प्रमाणप्रतिक्षिप्तो हेतोर-
नाशयोऽविषयः ॥ ९१ ॥
यदि द्विविधौ पक्षबाधौ, तदा प्रत्यक्षानुमानाप्तैः प्रसिद्धेनेति कथमाचार्येण
चतुर्विधा सा दर्शिता ? इत्याह—अनुमानस्य भेदेन त्रैविध्येन, प्रत्यक्षेण चैकेन
सह सा बाधा चतुर्विधोक्ता । तत्र तेषु बाधकेष्वभ्युपाय आप्तस्ववचने
कार्यमङ्गं जगतः स्थितिर्व्यवहृतिः प्रसिद्धिः स्वभावोऽङ्गं हेतुः ॥ ९२ ॥
कस्मात् पुनराप्तवचनं स्ववचनं चाभ्युपाय उच्यते ? इत्याह—आत्मापरो-
धाभिमतो भूतस्यार्थस्य निश्चयेन युक्ता प्रयुक्ता वाग् यस्य स आप्त उच्यते ।
एवं परम्परयाऽर्थकार्यत्वेन स्ववचनं शास्त्रञ्च समत्वतोऽभ्युपाय इति समस्य
कार्यलिङ्गमेकमुक्तम् ॥ ९३ ॥
विचारः ] परार्थानुमानपरिच्छेदः ३९३
यथात्मनोऽप्रमाणत्वे वचनं न प्रवर्त्तते ।
शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये ॥ ९४ ॥
तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् ।
वक्तुमर्थं स्ववाचास्य सहोक्तिः साम्यदृष्टये ॥ ९५ ॥
उदाहरणमप्यत्र सदृशं तेन वर्णितम्¹ ।
प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ॥ ९६ ॥
किञ्च—वक्तुरात्मनोऽप्रमाणत्वे प्रामाण्यनिमित्ताभावात् वचनप्रामाण्यं
न प्रवर्त्तते । न ह्यसत्यार्थेन वचनेन परः प्रतिपादयितुं शक्यते; विसंवादना-
श्रयस्य वचनादर्थापत्तेः । ततो यथा प्रतिपादयितुः प्रामाण्य एव सति वचनं
प्रवर्त्तते, तथा शास्त्रसिद्धेऽर्थे तस्य शास्त्रप्रामाण्यस्यानाश्रयेण न विचारः
प्रवर्त्तते । प्रमाणविषयो लब्धः साक्षादस्यैव प्रमाणस्य शास्त्रस्यात्यन्तपरोक्षार्थे
विचारः प्रस्तूयते प्रेक्षैः, नान्यस्य । ततः शास्त्रस्ववचनयोः प्रामाण्येऽभ्युपगतेऽपि
साम्यमुक्तम् ॥ ९४ ॥
साम्यमेव पुनः किमर्थमुपदर्शितम् ? इत्याह—हि यस्मात् तत्प्रस्तावस्य विचार-
प्रक्रमस्याश्रयत्वेऽधिकरणत्वे सति शास्त्रं सिद्धे धर्मिणि शास्त्रं प्रतिज्ञार्थविरुद्ध-
बाधकम्, न वस्तुबलप्रवृत्तानुमानमित्यमुमर्थं वक्तुमस्य शास्त्रस्य स्ववाचा
साम्यस्य दृष्टये दर्शनार्थं सहोक्तिरनयोरभ्युपायतानिर्देशे । स्ववचनमपि
ह्युच्चारणसामर्थ्यादुपगतप्रामाण्यं सिद्धे धर्मिणि विचारप्रक्रमे प्रतिज्ञार्थविषयबाधकं
बाधकं दृष्टम्, न वस्तुबलप्रवृत्तानुमानेन—इदमनयोः साम्यदर्शनप्रयोजनम् ॥९५॥
अत्र शास्त्रवचनयोः व्याघातेनाचार्येणोदाहरणमपि सदृशमभिन्नं वर्णि-
तम्, यथा—'न सन्ति प्रमाणानि प्रमेयार्थानि' इति । कथं पुनरत्र शास्त्रार्थस्व-
वचनाभ्यां व्याघातः ? इत्याह—प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ।
अनुपपत्तेः प्रमाणसम्भवे हि शास्त्रवचनयोः परप्रतिपादनार्थमुक्तिर्युक्ता । तस्मा-
दुच्चारणसामर्थ्यादभ्युपगतप्रामाण्यात् प्रयोगवचनादेव प्रमाणाभावप्रतिज्ञा बाध्यते
॥ ९६ ॥
१. दर्शितम् — पाठ० ।
३९४ प्रमाणवार्त्तिके [ पक्षलक्षण-
स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे ।
दिङ्मात्रदर्शनम्, तत्र प्रेत्यधर्मोऽसुखप्रदः ॥ ९७ ॥
शास्त्रिणोऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि ।
न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥ ९८ ॥
यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् ।
तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥ ९९ ॥
एतच्चोदाहरणम् स्ववाग्विरोधे स्ववचनव्याहतौ विस्पष्टम् । तथा हि—
प्रमाणाभावप्रतिज्ञावचनोच्चारणसामर्थ्याभ्युपगतप्रामाण्येन वचनेनैव बाध्यते ।
आगमे शास्त्रे पुनरुदाहरणस्य दिङ्मात्रदर्शनमुपलक्षणमात्रमेतत्, न तु मुख्य-
मुदाहरणम्; प्रमाणस्य धर्मिण आगमसिद्धत्वाभावात् । इदं पुनर्मुख्यमुदाहरणम्—
आगमे प्रेत्य परलोके धर्मोऽसुखप्रदः; आगमसिद्धे धर्मिणि धर्मे सामान्येऽ-
सुखप्रदत्वस्य विशेषस्य सुखप्रदत्वेन विरुद्धेनागमसिद्धेन बाधनात् ॥ ९७ ॥
किन्तु शास्त्रिणोऽभ्युपगतशास्त्रस्यातदालम्बे शास्त्रासिद्धे प्रमाणसिद्धे
वस्तुनि धर्मिणि शास्त्रप्रतिज्ञाविरुद्धस्य धर्मस्योक्तौ न सा बाधा । यथा
मीमांसकस्य गृहीतशास्त्रस्य प्रत्यक्षसिद्धे शब्दे धर्मिणि कृतकत्पादनित्यत्वो-
क्तावपि शास्त्रप्रतिज्ञातेन नित्यत्वेन न बाधा । यदि बाधा, किं तर्हि भवति ?
इत्याह—प्रतिबन्धः स्यात् । कस्माद् ? इत्याह—तयोः तुल्यकक्षत्वात् ।
समबलत्वात् । यथा 'माता मे बन्ध्या च' इति स्ववाचि तुल्यकक्षत्वात्
पदयोः परस्परं प्रतिबन्धः ॥ ९८ ॥
ननु स्ववचनयोस्तुल्यकक्षत्वाद् युक्तः प्रतिबन्धः, आगमस्ववचनयोस्तुल्य-
बलतैव कथम् ? इत्याह—तच्च शास्त्रं नित्यत्वप्रतिज्ञातस्य वादिनः तदा प्रसिद्धे
धर्मिणि शास्त्रविरुद्धप्रतिज्ञासमये स्वोपगमस्वीकृतप्रमाणत्वात् स्ववचनात्मकं
जातं वचनं.शास्त्रं च स्वयमभ्युपगतप्रामाण्ययुक्तं तुल्यकक्षम्, यथा स्ववाचि
'माता मे बन्ध्या' इति वचनमात्रयोः प्रतिबन्धोऽन्योन्यं तयोः शास्त्रवचनयो-
र्विरुद्धार्थाभिधायिनोर्मध्ये यस्य प्रमाणमनुवर्त्तकमस्ति तत् प्रमाणवत
अन्यस्याप्रमाणकस्य बाधकं भवति, यथा—अनित्यत्वं नित्यस्य शब्दे ॥९९॥
विचारः ] परार्थानुमानपरिच्छेदः ३९५
प्रतिज्ञामनुमानं वा प्रतिज्ञाऽपेतयुक्तिका ।
तुल्यकक्षा यथार्थं वा बाधेत कथमन्यथा ॥ १०० ॥
प्रामाण्यमागमानां च प्रागेव विनिवारितम् ।
अभ्युपायविचारेषु तस्माद् दोषोऽयमिष्यते १ ॥ १०१ ॥
तस्माद् विषयभेदस्य दर्शनार्थं पृथक् कृतः ।
अनुमानाबहिर्भूतोऽप्यभ्युपायः प्रबाधनात् ॥ १०२ ॥
अन्यथाऽतिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः ।
अन्यथा यदि प्रमाणसिद्धे धर्मिणि प्रमाणाननुगृहीतयोः परस्परं बाधा ।
प्रमाणाभावे केनेतरस्य नाबाधेतीष्यते, तदा प्रतिज्ञाविपरीता शास्त्रवचनाख्याऽ-
पेतयुक्तिका प्रतिज्ञा प्रामाण्याभ्युपगमात् तुल्यकक्षा सती कथं बाधेत !
यथा शब्दे नित्यत्वप्रतिज्ञा शास्त्रोक्ता अनित्यत्वप्रतिज्ञां विद्यमानमनुमानं वा
यथार्थं वस्तुभूतकृतकत्वलिङ्गसमुत्थं नित्यत्वप्रतिज्ञया कथं बाधितं स्याद्;
अनित्यत्वात् ॥ १०० ॥
तस्मात् कार्यलिङ्गत्वादनुमानादबहिर्भूतोऽप्यभ्युपायो विषयस्य भेदो
नानात्वं तद्दर्शनार्थमनुमानात् पृथक् कृतः । अनुमानं सर्वत्र बाधकम्, शास्त्रं तु
शास्त्राश्रये धर्मिणीति बाधकत्वविषयभेदोपदर्शनं पृथक्करणफलम् । कथं ज्ञायते-
अनुमानाबहिर्भूतं शास्त्रम् ? इत्याह — स्वसिद्धे धर्मिणि स्वोपगमविरुद्धस्य
धर्मस्य प्रबाधनात् न ह्यप्रमाणं बाधकम् । प्रमाणं चाप्रत्यक्षत्वात् अनुमानमेव ॥
१०१-१०२ ॥
अन्यथा यदि विषयभेदोपदर्शनफलं पृथक्करणं नेष्यते, तदा प्रभेद-
दर्शनार्थं वक्तव्यम् । तथा च कार्यस्वभावानुपलम्भानां प्रभेदो यावत्सम्भवं वाच्य
इत्यतिप्रसङ्गः स्यात् ।
अथ सदपि भेदान्तरं नोच्यते, तदाऽनुमानाच्छास्त्रस्य पृथक्कृतेर्व्यर्थता
वा स्यात्; प्रभेदवचनस्याविवक्षितत्वात् सामान्यवचनस्यानुमानेनैव सिद्धत्वात् ।
यदि विषयभेदोपदर्शनार्थमनुमानात् पृथग्वचनं शास्त्रस्य, तदाभ्युपगमात् स्ववचन-
१. अस्याः कारिकाया वृत्तिर्नोपलब्धा ।
३९६ प्रमाणवार्त्तिके [ पक्षलक्षण-
भेदो वाङ्मात्रवचने प्रतिबन्धः स्ववाच्यपि ॥ १०३ ॥
तेनाभ्युपगमाच्छास्त्रं प्रमाणं सर्ववस्तुषु ।
बाधकम्, यदि नेच्छेत् स बाधकं किं पुनर्भवेत् ॥ १०४ ॥
स्ववाग्विरोधेऽभेदः स्यात् स्ववाक्शास्त्रविरोधयोः ।
पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता ॥ १०५ ॥
माचार्येण किमर्थं पृथक्कृतं न्यायमुखे, यथा—"सर्वमुक्तं मृषेति, तथा
औलूक्यस्य नित्यः शब्दः" इति ?
अत्राह—स्ववाच्यपि भेदः स्ववचनस्यापि शास्त्रात् पृथक्करणम् अप्र-
माणकं वचनं वाङ्मात्रं तस्मिन् प्रतिबन्धः । उच्चारणसामर्थ्यादभ्युपगत-
प्रामाण्यं स्ववचनम् । अन्यथोच्चारणमेव न स्यात् । सत्यार्थता च प्रामाण्यम् ।
तन्मृषार्थतया वाच्यया निषेध्यत इति तुल्यकक्षतया प्रतिबन्ध एवानयोः, न बाधा ।
तदेनं वाक्यं स्वार्थं प्रतिबध्नाति, वाक्यान्तरनिर्दिष्टं वस्तु शास्त्रमित्यनयोर्भेद
इत्युक्तम् ॥ १०३ ॥
स्यादेतत् । शास्त्रस्य तेन वादिनाभ्युपगमात् सर्वत्र वस्तुषु धर्मिषु
शास्त्रसिद्धे वस्तुबलप्रवृत्ते प्रमाणनिश्चितेषु च शास्त्रं प्रमाणं सत् बाधकमेव
स्यात्, विपरीतप्रतिज्ञाया न प्रतिबन्धकम्, तत् कथं प्रमाणीकृतशास्त्रस्य
मीमांसकस्य शब्दे प्रत्यक्षसिद्धे कृतकत्वादनित्यत्वप्रतिज्ञायाः साध्यमानायाः
शास्त्रेण प्रतिबन्धो न बाधेत्युक्तम् ? अथ स वादी यदि शास्त्रं प्रमाणं नेच्छेत्,
तदा किं पुनर्धर्मस्यासुखप्रदत्वस्य बाधायां प्रमाणं भवेत् । न ह्यप्रमाणं क्वचित्
प्रमाणीकृतशास्त्रस्य शब्दे प्रत्यक्षसिद्धे भवितुमर्हति ॥ १०४ ॥
धर्मस्य सुखप्रदत्वेन निर्देशादसुखप्रदत्वे साध्ये स्ववचनविरोध एवेति
चेत् ? एवं तर्हि स्ववाग्विरोधेऽभ्युपगम्यमाने स्ववाक्-शास्त्रविरोधयोरभेद
एव स्यात् ; द्वयोरभ्युपगमसिद्धप्रमाणत्वात् । पुरुषेच्छाकृता चास्य शास्त्रस्य
परिपूर्णा प्रमाणतेत्युपहसति । सत्यप्यागमस्ववचनयोरभ्युपगमाहितप्रामाण्याद-
भेदे भेददर्शननिमित्तं चोक्तम् ॥ १०५ ॥
विचारः ] परार्थानुमानपरिच्छेदः ३९७
तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागेऽपि न क्षतिः ।
परोक्षेष्व्वागमानिष्टौ न चिन्तैव प्रवर्त्तते ॥ १०६ ॥
विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा ।
अधर्ममूलं रागादि स्नानं चाधर्मनाशनम् ॥ १०७ ॥
शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते ।
दृष्टेऽदृष्टेऽपि तद् ग्राह्यमिति चिन्ता प्रवर्त्त्यते¹ ॥ १०८ ॥
यस्माच्छास्त्रं तत्सिद्ध एव धर्मिणि लिङ्गे च बाधकम्, न तु प्रमाण-
सिद्धेऽपि, तस्मात् प्रत्यक्षानुमानाभ्यां प्रसिद्धेषु धर्मिलिङ्गसाध्यसम्बन्धादिषु सत्सु
शास्त्रत्यागेऽपि न क्षतिः । यथा शब्दकृतकत्वानित्यत्वसम्बन्धादिषु प्रमाणसिद्धेषु
शास्त्रस्याकाशगुणत्वप्रतिपादकस्य त्यागेऽपि नानिष्टम् । परोक्षेषु धर्माधर्मादिषु
पुनरागमस्य प्रमाणत्वेनानिष्टौ चिन्तैव न प्रवर्त्तते । न ह्यसिद्धे धर्मिणि
विचारः ॥ १०६ ॥
ननु शास्त्रं चेन्न प्रमाणम्, कथं तत्सिद्धे धर्मिणि लिङ्गादौ वा विचारः ?
इत्याह—अत्र शास्त्रे परीक्षापि या क्रियते सा पूर्वापराभ्यां विरोधोद्भावन-
प्राया, न वास्तवो । तद्यथा—'अधर्मस्य मूलं रागादि' इति क्वचिदुक्तम्
'स्नानं चाधर्मनाशनम्' इत्यत्रोच्यमानं विरुणद्धि । रागादयो हि पापनिदानम्, न
च निदानावरोधे निदानिनो बाधा । तत् कथं रागाद्यविरोधि स्नानं पापविरोधि
स्यात् ! अप्रमाणे शास्त्रे विरोधोद्भावनप्रायापि चिन्ता कस्मात् प्रवर्त्त्यते इति
चेत् ? दानादिचेतनानां प्रवृत्तेर्महानृशंसाश्रवणात्, हिंसादिचेतनानां महापाप-
श्रवणाच्च, अपेक्षितफलेषु दानादिष्वयं पुरुषः प्रवृत्तिकामो नागमप्रामाण्यमना-
श्रित्यासितुं समर्थः ॥ १०७ ॥
ततो यच्छास्त्रं दृष्टे प्रमाणे विषये युक्त्या प्रत्यक्षाद्याख्यया न
बाध्यते, अदृष्टे प्रमाणविषये च स्ववाचाऽगमाश्रयेणानुमानेन न बाध्यते;
तत्प्रमाणत्वेनादृष्टे विषये प्रवृत्तिकामस्य ग्राह्यम्, न तु यत्किञ्चिदित्यनेन प्रयो-
जनेन शास्त्रे विरोधोद्भावनप्राया चिन्ता प्रवर्त्त्यते ॥ १०८ ॥
शास्त्रस्ववचनविरोधौ व्याख्यातौ ॥
१. प्रवर्त्तते—पाठा० ।
३९८ प्रमाणवार्त्तिके [पक्षलक्षण-
प्रतीतिबाधा
अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः ।
इष्टशब्दाभिधेयस्याप्तोऽत्राक्षतवाग् जनः ॥ १०९ ॥
उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः ।
प्रत्यक्षादिमिता मानश्रुत्यारोपेण सूचिताः ॥ ११० ॥
तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम् ।
कृतानामकृतानां च योग्यं विश्वं स्वभावतः ॥ १११ ॥
अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा ।
प्रतीतिबाधां व्याख्यातुमाह—इष्टशब्दाभिधेयस्याभिमतवाच्यत्वस्य पुरुषे-
च्छानुरोधिनः पुरुषेच्छाधीनस्यार्थेष्वप्रतिषिद्धत्वात् । न हि पुरुषेच्छायामपि
शशी चन्द्रशब्दं वाचकतया न स्वीकरोति । तत्तथात्रेष्टशब्दाभिधेयत्वे विषये आप्तो
व्यवहर्त्ता जनोऽक्षतवागप्रतिषिद्धेष्टवचनः । अनेन शब्देनायमर्थो मयाभिधातव्य
इति कल्पनाविषयत्वमिष्टशब्दाभिधेयत्वम् । तत्र च पुरुषस्यारोपेण स्वेच्छाधीना
वचनप्रवृत्तिः । तस्मादिष्टशब्दाभिधेयत्वबाधः पक्षीक्रियमाणस्तेनैव स्वसंवेदन-
सिद्धेन बाध्यते ॥ १०९ ॥
चन्द्रश्चन्द्र इत्यादिशब्दव्यवहाराज्जातो धर्मः कल्पनाविषयो योग्यताख्य
आचार्येण प्रसिद्धशब्देन ‘तद्यथा शाब्दसिद्धेन’ इत्यादिनोक्तः । शाब्दी प्रसिद्धि-
र्व्यवहारः शाब्दप्रसिद्धिः, तद्भवो विषयः शाब्दप्रसिद्धः, तेन बाध्येत्यर्थः। न केवल-
मिहैव, प्रत्यक्षादिबाधास्वपि मानश्रुतौ मेयस्यारोपेण प्रत्यक्षादिभ्यामनुमाना-
गमाभ्यां मितार्था एव विरोधिनो वाचकत्वे पक्षस्य सूचिताः ॥ ११० ॥
न हि प्रत्यक्षानुमाने पुरुषचित्तवर्तिनी आगमश्च बाध्यमाने धर्मिणि सम्भ-
वन्ति । तदुपलब्धतद्धर्माः सन्तो युज्यन्ते बाधकाः, तस्मात् तस्य लोकस्याश्रयेण
भुवां भवतां शब्दानां व्यावहारिकाणां इच्छानुरोधादर्थेषु वाचकत्वप्रवृत्तेः
कारणात् क्वचिदपि विषयेऽनिषेधिनां निषेधरहितानां कृतानां संकेतितानामकृ-
तामसंकेतितानां च विश्वमिदं वाच्यत्वेन स्वभावादेव योग्यम् ॥ १११ ॥
यतश्चेष्टशब्दाभिधेयत्वयोग्यता सर्वत्र सम्भवति, अतो विशेषानपेक्षणाद्
अर्थमात्रानुरोधिन्या तया शब्दयोग्यतया भाविसंकेतापेक्षया भाविन्या,
विचारः ] परार्थानुमानपरिच्छेदः ३९९
बाध्यते प्रतिरुन्धानः शब्दयोग्यता तया ॥ ११२ ॥
तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः ।
सर्वोऽस्यामप्रतीतेऽपि तस्मिंस्तत्सिद्धता ततः ॥ ११३ ॥
असाधारणता न स्यात् बाधाहेतोरिहान्यथा ।
तन्निषेधोऽनुमानात् स्याच्छब्दार्थेऽनक्षवृत्तितः ॥ ११४ ॥
असाधारणता तत्र हेतूनां यत्र नान्वयि ।
सत्त्वमित्यप्युदाहारो हेतोरेवं कुतो मतः ॥ ११५ ॥
अतीतसंकेतापेक्षया भूतयापि वा व्यवस्थितया तामेव योग्यतां प्रतिरुन्धानः,
यथा—अचन्द्रः शशी सत्त्वादिति बाध्यते ॥ ११२ ॥
योग्यताबलादेव वस्तुतः सामर्थ्यात् सर्वः संकेतितोऽसंकेतितश्च ध्वनिर-
स्यां योग्यतायां घटितः सम्बद्धः साक्षाद् वाचकत्वेन तस्मिन् शब्देऽप्रतीतेऽपि
वस्तुनि अप्रातिकूल्यलक्षणस्य योग्यत्वस्य सर्वदा स्थितेः । यत एवम्, ततस्तस्या
योग्यतायाः शब्दप्रसिद्धताचाय्येणोक्ता । यद् यत्र समर्थम्, तदसम्मुखीभावेऽपि
तत् तेन व्यपदिश्यते, यथा—पाचक इति । समर्थं च वस्त्विष्टशब्दाभिधेयत्व
इति कृत्वा शाब्दप्रसिद्धिरिति ॥ ११३ ॥
अन्यथा यदि शब्दोऽसम्मुखीभवन्नपि योग्यतायां न सम्बद्धः, तदेह
शब्दयोग्यताप्रतिषेधे कर्त्तव्ये बाधाहेतोः 'अचन्द्रः शशी सत्त्वाद्' इत्यादेर-
साधारणतोक्ता न स्यात् । सर्वस्य चन्द्रशब्दयोग्यत्वे सपक्षाभावात्मत्वसाधारणं
स्यात्, नान्यथा । शब्दार्थे योग्यतालक्षणे कल्पितेऽनक्षवृत्तितः अक्षवृत्त्यभावात्
प्रत्यक्षबाधकमिति तस्या योग्यताया निषेधोऽनुमानात् स्यात् ॥ ११४ ॥
तत्र योग्यताप्रतिषेधे कर्त्तव्ये सर्वेषां हेतूनां सपक्षाभावादसाधारणता ।
कथमेतद् ? इत्याह—यत्र साध्ये सत्त्वमपि लिङ्गं सर्ववस्तुव्यापि नान्वयि साधा-
रणं भवति, तत्रान्यस्य का कथेति हेतोः कृतकत्वस्योदाहार आचार्यस्यैवम्फलः
सर्वहेत्वसाधारणत्वप्रतिपादनप्रयोजनो मतः ॥ ११५ ॥
कथं गम्यते सर्वेषां शब्दानां सर्वत्रार्थे सिद्धिः ? इत्याह—सङ्केतमन्तरेण वाच-
४०० प्रमाणवार्त्तिके [ पक्षलक्षण-
संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः ।
नासिद्धिः शब्दसिद्धानामिति शाब्दप्रसिद्धिवाक् ॥ ११६ ॥
अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः ।
अभावं दर्शयत्येवं प्रतीतेरनुमात्वतः ॥ ११७ ॥
अथ वा ब्रुवतो लोकस्यानुमाऽभाव उच्यते ।
किं तेन भिन्नविषया प्रतीतिरनुमानतः ॥ ११८ ॥
तेनानुमानाद् वस्तूनां सदसत्तानुरोधिनः ।
भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥ ११९ ॥
कादृष्टेः संकेतसंश्रयाः शब्दाः । स च संकेतः पुरुषेच्छामात्रसंश्रयः;
तदतिरिक्तस्यापेक्षणीयस्याभावात् । तस्माच्छब्दसिद्धानामभिधेयत्वादीनां क्वचिद्-
प्यर्थे नासिद्धिः, इति हेतोः शाब्दप्रसिद्धिराचार्यस्य ॥ ११६ ॥
एतच्च शाब्दप्रसिद्धिवचनं वस्तुबलप्रवृत्तेनानुमानेन प्रसिद्धेष्वर्थेषु
विपरीतधर्मोपस्थापकस्य विरुद्धाव्यभिचारिणः साधनान्तरस्याभावं दर्शयति ।
कस्माद् ? इत्याह— एवमीदृश्याः शब्दसिद्धाया योग्यतायाः प्रतीतेः स्वभावलिङ्ग-
समुत्थत्वात् अनुमात्वतः । यथा शब्दसिद्धा योग्यताऽनुमानसिद्धा—इति बाध्या
सत्त्वादिहेतुना, तथा अन्योऽपि वस्तुबलप्रवृत्तानुमानविषयः; समानत्वात् न्याय-
स्येत्यर्थः ॥ ११७ ॥
अथ वा—'अचन्द्रः शशी सत्त्वाद्' इति विप्रतिपद्यमानं प्रतिपत्प्रतिपाद-
नार्थं लोकस्य ब्रुवतः शाब्दप्रसिद्धेनासाधारणत्वादनुमानाभाव आचार्येणोच्यते;
पारमार्थिकस्य बाध्यत्वस्याभावात् कल्पितं निषेध्यम् । तच्च पुरुषेच्छामात्राधीनत्वात्
सर्वत्र सम्भवतीति सर्वस्य चन्द्रशब्दयोग्यतायोगान्न कश्चिदचन्द्रः पक्षोऽस्ति,
यत्र वर्त्तमान सत्त्वमसाधारणतां जह्यात् । एवं दर्शिते किं भवतीति चेत् ? तेना-
नुमानाभावाभिधायिना शब्दसिद्धा प्रतीतिर्वस्तुबलप्रवृत्तानुमानतो भिन्नवि-
षयोक्ता भवति । वस्तुविषयं ह्यनुमानं कल्पितगोचरान्तरा शाब्दी प्रतीति-
रित्यर्थः ॥ ११८ ॥
तेन विषयभेदेन वस्तूनां सदसत्तानुरोधिनोऽनुमानात् भिन्नस्य
dha)
्य (ya)
े (e)
त (ta)
Wait, does it end in 'त' or 'ते'?
It ends in 'त' with an e-matra: त + े = ते!
Wait, look at the very end of the word:
It is 'ते', followed by a comma (,)!
And before 'ते':
It's 'य' with an e-matra! "यते"!
Wait, what is before 'यते'?
"बाधे"?
Wait, let's look at the letters: बा - धे - य - ते?
Wait, look at "बाध्यते": sometimes in Devanagari typesetting, ध + य is written as ध followed by half-य, or ध followed by full य?
No, in this font, ध्य is: look at line 18: "मधिकृत्येदं" (त्य).
Look at line 16: "साध्ये" -> स, ा, ध्, य, े!
Look at "साध्ये" in line 16:
स + ा = सा.
Then 'ध' connected to 'य', with 'े' on top! That is 'ध्ये'!
Now compare "साध्ये" in line 16 with the word in line 21:
In line 16: 'ध्' is on the left, connected to 'य', and 'े' is on top of 'य'.
In line 21:
ब्दवाच्यत्वस्य वस्तुत्वाद्धेतोर्वारणेऽपि न किञ्चिद् दुष्यति;
- `` निमित्ताभावे नैमित्तिकाभावस्येष्टत्वात् । सामयिकं तु सर्वत्राशक्यवारणमिति
- `` तच्छब्दयोग्यताप्यबाध्या ॥ १२४ ॥
- `` तस्मादवस्तु नियतो वस्तुन्यनियत इच्छाधीनत्वात् संकेत:, तस्य बलाद्
- `` भाविनां धर्माणां वाच्यत्वादीनां पदार्थाः सर्वे धर्मित्वेन योग्याः, इच्छातः;
- `` पुंसः केनचिद् वाच्यत्वाद्युत्थापिकाया इच्छाया अनिरोधात् ॥ १२५ ॥
Wait, let's double check lines 5-7 (the verses):
Image:
Row 1: ४०२ प्रमाणवार्त्तिके [ पक्षलक्षण-
Row 2: समयाद्वर्त्तमानस्य काऽसाधारणतापि वा ॥ १२२ ॥
Row 3: यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् ।
Row 4: प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम् ॥ १२३ ॥
Row 5: तस्य वस्तुनि सिद्धस्य शशिन्य
विचारः ] परार्थानुमानपरिच्छेदः ४०३
तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा ।
प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥ १२६ ॥
शब्दानामर्थनियमः संकेतानुविधायिनाम् ।
नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥ १२७ ॥
नैमित्तिक्याः श्रुतेरर्थमर्थं वा पारमार्थिकम् ।
शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्णितः ॥ १२८ ॥
तस्माद् विषयभेदस्य दर्शनाय पृथक्कृता ।
अनुमानाबहिर्भूता प्रतीतिरपि पूर्ववत् ॥ १२९ ॥
तामिष्टशब्दाभिधेयत्वयोग्यतां पदार्थानां सत्त्वादिकाद्धेतोर्विरुन्धानं
प्रतिक्षिपन्तं वादिनं प्रतीत्याख्या प्रतीतिसंज्ञिताऽनुमा प्रतिहन्ति । संकेता-
प्रतिषेधजेति स्वभावलिङ्गत्वमाह । इच्छाधीनत्वात् योग्यताविषये विपरीत-
धर्मोपस्थानमाह । प्रयोगः पुनः—"यः पुरुषेच्छानुविधायी स सर्वत्र सम्भवी,
तद्यथा विकल्पः । पुरुषेच्छानुविधायि चार्थेष्विष्टशब्दाभिधेयत्वम्" इति ॥ १२६ ॥
अनेन चेष्टशब्दाभिधेयत्वयोग्यताप्रतिषेधबाधनेन दर्शितेन शब्दानां संके-
तानुविधायिनामर्थनियमः प्रतिनियतवाचकत्वं नेत्युक्तं भवति । ततोऽस्य
स्वेच्छाकल्पितेऽर्थे एषां शब्दानां वाचकत्वस्य प्रतिषेधः सत्त्वादिहेतोः क्रिय-
माणो विरुध्यते ॥ १२७ ॥
यद्येवम् , तदा क्वचिदर्थे निषेधं कुर्वता शब्दो बाध्यः स्यात्, ततश्च
गुणादिकं निमित्तभूतं गुणादिशब्दानां गुणगुणिसम्बन्धादिपारमार्थिकमर्थं गुणि-
शब्दादीनां निषेधन् बाध्यः स्याद् ? इत्याह—येन कल्पितमर्थं शब्दानां बाधमानः
प्रतिक्षिप्यते, न तु गुणादिकम्, तेन नैमित्तिक्या वस्तुभूतगुणादिनिमित्तवत्याः
श्रुतेरर्थं गुणादिकं पारमार्थिकमर्थं गुणगुणादिसम्बन्धं शब्दानां गुण्यादि-
वाचिनां प्रतिरुन्धानोऽबाधनार्हो बाधां नार्हतीत्युक्तो भवति ॥ १२८ ॥
यस्माच्च सांकेतिकार्थनिराकरणे प्रतीतिबाधा, तस्मात् स्वभावलिङ्गत्वेना-
नुमानाद्बहिर्भूता प्रतीतिरपि तस्मात् पृथक्कृता । किमर्थम् ? इत्याह—
विषयस्य भेदः कल्पिताकल्पितत्वं तस्य दर्शनाय कल्पितार्थविषया प्रतीतिः,
४०४ प्रमाणवार्त्तिके [ पक्षलक्षण-
सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् ।
एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ १३० ॥
प्रत्यक्षबाधा
अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ;
रूपं यदेव प्रतिभासते ॥ १३१ ॥
अद्वयं शबलाभासस्यादृष्टेर्बुद्धिजन्मनः ।
वस्तुविषयं त्वनुमानमित्यर्थः । पूर्ववदिति । यथा आगमस्ववचनेऽभ्युपगत-
प्रामाण्येऽप्रत्यक्षत्वादनुमानान्तर्गतेऽपि विषयभेददर्शनाय पृथग्दर्शिते—वस्तुबल-
प्रवृत्तेऽनुमानम्, सर्वविषयविचारे त्वागमस्ववचने अधिकृते, तथा प्रतीत्यनुमाने
अपि भिन्नविषये इत्यर्थः ॥ १२९ ॥
अनुमानबाधायामन्तर्भावादनयोरभ्युपगमप्रतीतिबाधयोः सिद्धयोरपि पृथ-
गाख्याने विषयभेदलक्षणं प्रयोजनं दर्शयन्नाचार्य एते अभ्युपगमप्रतीतिबाधे
सहेतुके प्राह । 'न सन्ति प्रमाणानि प्रमेयार्थानीति प्रतिज्ञामात्रेण' इत्यत्र
प्रतिज्ञामात्रं शास्त्रस्ववचनयोः सिद्धयोरप्रामाण्यप्रतिज्ञाबाधकमुक्तम् , अतोऽप्य-
साधारणत्वादनुमानाभावे शाब्दप्रसिद्धेनापोद्यते, न सपक्ष इति । अत्र शाब्दप्रसि-
द्धेन शशिनश्चन्द्रत्वेनाचन्द्रत्वप्रतिज्ञाया बाधनमुक्तम् । अनुमाध्यक्षबाधने तु न
सहेतुके प्राह—अश्रावणः शब्दो नित्यो घट इति । तस्माद् विषयभेदोपलक्षणार्थं
सहेतुत्वाहेतुत्वदर्शनम् । प्रत्यक्षानुमानबाधे सर्वविषये । अभ्युपगमप्रतीतिबाधे
तु नियतविषये इत्यर्थः ॥ १३० ॥
उक्ता प्रतीतिबाधा ॥
प्रत्यक्षबाधा वक्तव्या । न केवलं शाब्दप्रसिद्धे व्यवहारधर्मप्रसिद्धौ तत्प्रति-
रोद्धा बाध्यते, किन्तु अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नाना-
रूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ श्रवणज्ञाने यदेव रूपमद्वयं
धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नानाकारस्य बुद्धिजन्मनोऽदृष्टेः,
यदि नानाकारता शब्दस्य वास्तवी स्यात्; तथैव श्रुतिज्ञाने प्रतिभासेत ।
विचारः ] परार्थानुमानपरिच्छेदः ४०५
तदर्थार्थोक्तिरस्यैव क्षेपेऽध्यक्षेण बाधनम् ॥ १३२ ॥
सामान्यविचारः
तदेव रूपं तत्रार्थः शेषं व्यावृत्तिलक्षणम् ।
अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः ॥ १३३ ॥
तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धितः ।
प्रतिक्षेपेऽप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ १३४ ॥
सर्वथाऽवाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् ।
तदर्था तत्प्रतिपादनफलाऽऽचार्यस्य प्रत्यक्षानुमानार्थप्रसिद्धेन निराकृत इत्यत्रार्थो-
क्तिरर्थग्रहणमस्याध्यक्षसिद्धस्यैव रूपस्य क्षेपेऽध्यक्षेण बाधनमिष्टम् ॥
१३१-१३२ ॥
तत्र श्रुतिज्ञाने भासमानं तद्रूपमर्थः स्वलक्षणम्, तदतिरिक्तं शेषं धर्मि-
धर्मादि व्यावृत्तिलक्षणमन्यव्यवच्छेदस्वभावमवस्तुभूतं सर्वत्र सम्भवात् सामान्यं
च । अतोऽवस्तुत्वादेस्तद् गुणजात्यादि नाक्षगोचरः ॥ १३३ ॥
तेनावस्तुत्वेन कारणेन सामान्यधर्माणां प्रमेयत्वादीनामप्रत्यक्षत्वस्य
सिद्धितः । केनचिद् वादिना प्रत्यक्षसिद्धितः प्रतिक्षेपेऽपि क्रियमाणे न बाध्य-
बाधकभाव इत्यश्रावण इत्यत्र श्रावणोक्त्या निषेध्यदर्शिकाया प्रकाशितम् ।
स्वलक्षणबाधने प्रत्यक्षबाधेत्यर्थः ॥ १३४ ॥
एवं तर्हि शब्दस्वलक्षणं नास्तीत्येव कस्मान्नोच्यते, किं श्रावणत्वं मुख्यं
निषेध्य युक्तिः ? इत्याह-- स्वलक्षणस्य सर्वथा केनचिच्छब्देनावाच्यत्वात् मुख्य-
मभिधानं नास्त्येव । अथ सामान्यवृत्तिरपि स्वलक्षणशब्दोऽध्यवसायानुरोधात्
स्वलक्षणमुपलक्षयति । एवं श्रावणशब्दोऽपीन्द्रियग्राह्यतोपलक्षणं शब्दस्वलक्षण-
मुपलक्षयिष्यतीति न कश्चिद् विशेषः ।
अथ वा--अस्त्येव श्रावणशब्देनाभिधाने प्रयोजनमित्याह । श्रोत्रेन्द्रिय-
विषयस्य या सिद्धिस्तथा भावः, तया सिद्ध्या तस्येन्द्रियज्ञानस्य समाश्रया-
च्छब्दस्य स्वरूपव्यवस्थित्या हेतुना तेन व्यपदेश इन्द्रियज्ञानबलेन शब्दस्वरूपा-
वस्थितः । तथाभिधानमित्यर्थः ।
४०६ प्रमाणवार्त्तिके [ सामान्य-
बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः ॥ १३५ ॥
सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः ।
तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥ १३६ ॥
अन्यथास्योपरोधः को बाधितेऽन्यत्र धर्मिणि ।
गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः ॥ १३७ ॥
बाधायां धर्मिणोऽपि स्याद् बाधेत्यस्य प्रसिद्धये ।
आश्रयस्य विरोधेन तदाश्रितविरोधनात् ॥ १३८ ॥
किञ्च—तस्येन्द्रियज्ञानस्य बलेन शब्दस्वलक्षणविपर्ययभावस्य बाध-
नात् कारणात् श्रावणेनाक्षगोचरः स्वलक्षणमुक्तः । 'नित्यो घटः' इत्यनु-
माने नित्यत्वविषयेण कृतकत्वलिङ्गभुवा बाधितः पक्षः । स चासकृद्दर्शित एवेति
नेह प्रपञ्चितः ॥ १३५ ॥
इदानीं प्रत्यक्षानुमानाप्रसिद्धेन स्वधर्मिणीति स्वधर्मिग्रहणस्य साफल्य-
माख्यातुमाह—सर्वत्र वादकाले साध्यकाले वा वादिनः स्वसाध्यतया
यो धर्म इप्सितः तद्धर्मवति धर्मिणि बाधा स्यात् । यथा श्रावणत्ववति
शब्दे बाधिते बाधा पक्षस्य । न तु वादीष्टाद् धर्मादन्येन धर्मेण धर्मवति
धर्मिणि बाधिते बाधा पक्षस्य स्यादिति धर्मिग्रहणप्रयोजनम्, यथाकाशगुणत्ववति
शब्दे बाधितेन पक्षबाधा ॥ १३६ ॥
अन्यथा यद्येवं नेष्यते, तदान्यत्र धर्मे धर्मिणि बाधितेऽस्य प्रकृतधर्म-
विशिष्टस्य धर्मिणः क उपरोधो बाधा । ननु “स्वरूपेणैव निर्देश्यः स्वयमिष्टोऽ-
निराकृतः पक्षः” इति पक्षलक्षणेनैवानिष्टधर्मवतो धर्मिणो बाधा न पक्षबाधेति लभ्यत
एव ? इत्याह—पक्षस्य लक्षणेनास्मिन् वादीष्टधर्मवति धर्मिणि बाध्यत्वेन
गतार्थे पुनः स्वधर्मिवचनं यत्कृतम् ॥ १३७ ॥
धर्मिणोऽपि बाधायां धर्मस्य बाधने पक्षबाधा यथा स्यादित्यस्यार्थस्य
प्रसिद्धये कचिदाश्रयस्य धर्मिणो विरोधेन प्रतिक्षेपेण तदाश्रितस्य विरोध-
नात् धर्मद्वारेण धर्मिद्वारेण वा समुदायबाधायां पक्षबाधेत्यर्थः ॥ १३८ ॥