सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 418, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 418

३९२ प्रमाणवार्त्तिके [ पक्षलक्षण-
सहानिराकृतग्रहणप्रयोजनम्
अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते ।
सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ॥ ९१ ॥
बाधायाश्चातुर्विध्यम्
अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा ।
तत्राभ्युपातः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः ॥ ९२ ॥
आगमस्ववचनयोस्तुल्यबलत्वम्
आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् ।
आप्तः स्ववचनं शास्त्रं चैकमुक्तं समत्वतः ॥ ९३ ॥
यथा साध्यमबाधातः । न हि वादिनाऽऽकाशगुणत्वैकार्थसमवाय्यनित्यत्वं
साधयितुमिष्टम्, येनास्य बाधः स्यात् ; किन्त्वनित्यत्वमात्रम् । न चास्य प्रत्यक्षादि-
बाधास्ति । हेतोर्वा तदपेक्षया विरुद्धतादिकम् । तदेवम्—“स्वयं निपातरूपारूया
व्यतिरेकस्य बाधिकाः सहानिराकृतेन” इति व्याख्यातम् ॥ ९० ॥
अनिराकृतपदं व्याख्यातुमाह—स चोक्तलक्षणः साध्यस्योपगमः पक्षः ।
प्रमाणाभ्यां प्रत्यक्षानुमानाभ्यामनिषिद्ध इष्यते । कस्माद् ? इत्याह—सन्दि-
ग्धेऽर्थे साधकबाधकप्रमाणविषये हेतोर्वचनाद् व्यस्तः प्रमाणप्रतिक्षिप्तो हेतोर-
नाशयोऽविषयः ॥ ९१ ॥
यदि द्विविधौ पक्षबाधौ, तदा प्रत्यक्षानुमानाप्तैः प्रसिद्धेनेति कथमाचार्येण
चतुर्विधा सा दर्शिता ? इत्याह—अनुमानस्य भेदेन त्रैविध्येन, प्रत्यक्षेण चैकेन
सह सा बाधा चतुर्विधोक्ता । तत्र तेषु बाधकेष्वभ्युपाय आप्तस्ववचने
कार्यमङ्गं जगतः स्थितिर्व्यवहृतिः प्रसिद्धिः स्वभावोऽङ्गं हेतुः ॥ ९२ ॥
कस्मात् पुनराप्तवचनं स्ववचनं चाभ्युपाय उच्यते ? इत्याह—आत्मापरो-
धाभिमतो भूतस्यार्थस्य निश्चयेन युक्ता प्रयुक्ता वाग् यस्य स आप्त उच्यते ।
एवं परम्परयाऽर्थकार्यत्वेन स्ववचनं शास्त्रञ्च समत्वतोऽभ्युपाय इति समस्य
कार्यलिङ्गमेकमुक्तम् ॥ ९३ ॥