सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 421, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 421

विचारः ] परार्थानुमानपरिच्छेदः ३९५
प्रतिज्ञामनुमानं वा प्रतिज्ञाऽपेतयुक्तिका ।
तुल्यकक्षा यथार्थं वा बाधेत कथमन्यथा ॥ १०० ॥
प्रामाण्यमागमानां च प्रागेव विनिवारितम् ।
अभ्युपायविचारेषु तस्माद् दोषोऽयमिष्यते १ ॥ १०१ ॥
तस्माद् विषयभेदस्य दर्शनार्थं पृथक् कृतः ।
अनुमानाबहिर्भूतोऽप्यभ्युपायः प्रबाधनात् ॥ १०२ ॥
अन्यथाऽतिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः ।
अन्यथा यदि प्रमाणसिद्धे धर्मिणि प्रमाणाननुगृहीतयोः परस्परं बाधा ।
प्रमाणाभावे केनेतरस्य नाबाधेतीष्यते, तदा प्रतिज्ञाविपरीता शास्त्रवचनाख्याऽ-
पेतयुक्तिका प्रतिज्ञा प्रामाण्याभ्युपगमात् तुल्यकक्षा सती कथं बाधेत !
यथा शब्दे नित्यत्वप्रतिज्ञा शास्त्रोक्ता अनित्यत्वप्रतिज्ञां विद्यमानमनुमानं वा
यथार्थं वस्तुभूतकृतकत्वलिङ्गसमुत्थं नित्यत्वप्रतिज्ञया कथं बाधितं स्याद्;
अनित्यत्वात् ॥ १०० ॥
तस्मात् कार्यलिङ्गत्वादनुमानादबहिर्भूतोऽप्यभ्युपायो विषयस्य भेदो
नानात्वं तद्दर्शनार्थमनुमानात् पृथक् कृतः । अनुमानं सर्वत्र बाधकम्, शास्त्रं तु
शास्त्राश्रये धर्मिणीति बाधकत्वविषयभेदोपदर्शनं पृथक्करणफलम् । कथं ज्ञायते-
अनुमानाबहिर्भूतं शास्त्रम् ? इत्याह — स्वसिद्धे धर्मिणि स्वोपगमविरुद्धस्य
धर्मस्य प्रबाधनात् न ह्यप्रमाणं बाधकम् । प्रमाणं चाप्रत्यक्षत्वात् अनुमानमेव ॥
१०१-१०२ ॥
अन्यथा यदि विषयभेदोपदर्शनफलं पृथक्करणं नेष्यते, तदा प्रभेद-
दर्शनार्थं वक्तव्यम् । तथा च कार्यस्वभावानुपलम्भानां प्रभेदो यावत्सम्भवं वाच्य
इत्यतिप्रसङ्गः स्यात् ।
अथ सदपि भेदान्तरं नोच्यते, तदाऽनुमानाच्छास्त्रस्य पृथक्कृतेर्व्यर्थता
वा स्यात्; प्रभेदवचनस्याविवक्षितत्वात् सामान्यवचनस्यानुमानेनैव सिद्धत्वात् ।
यदि विषयभेदोपदर्शनार्थमनुमानात् पृथग्वचनं शास्त्रस्य, तदाभ्युपगमात् स्ववचन-
१. अस्याः कारिकाया वृत्तिर्नोपलब्धा ।