प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 413, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] परार्थानुमानपरिच्छेदः ३८७
शास्त्रेष्विच्छाप्रवृत्त्यर्थो यदि शङ्का कुतो न्वियम् ॥ ७२ ॥
सोऽनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते ।
निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्त्यते ॥ ७३ ॥
पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् ।
किञ्चिदन्यं स तु पुनर्गृहीतुं लभते न किम् ॥ ७४ ॥
दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयं-श्रुतिम् ।
इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन् ॥ ७५ ॥
शास्त्रेष्टमात्रस्य तु साध्यत्वे निष्फलमेव तत् । शास्त्रेष्विच्छया प्रवृत्त्यर्थः
स्वयं-शब्दो यदि कथ्यते, स्वयं-शब्दमन्तरेण शास्त्रमिच्छया न ग्रहीतव्यमिति
शङ्केयं कुतो नु हेतोर्जाता, येन तन्निवृत्त्यर्था स्वयं-श्रुतिर्वर्ण्यते ॥ ७२ ॥
स वादी प्रमाणेन शास्त्रार्थबाधकेनानिषिद्धः शास्त्रं गृह्णन् केन
निवार्यते, न केनचित्; यतः स्वयं-ग्रहणं शास्त्रं ग्राहयत् सफलं स्यात् ।
प्रमाणेन चेच्छास्त्रार्थबाधकेन निषिद्धो वादी वाचा स्वयं-शब्देन शास्त्राभ्युपगमे
केन लक्षणकर्त्रा प्रवर्त्त्यते, न केनचित् ॥ ७३ ॥
किञ्च—एष वादी पूर्वमपि स्वेच्छयैव सिद्धान्तं कणादादिप्रणीतं
गृहीतवान्; न त्वन्यपुराणादिबलात् । स कथमिच्छया शास्त्रोद्दिष्टं किञ्चिद्
धर्मव्यभिचारदर्शनादिना शास्त्रेषु सफलधर्मकलापसाध्यत्वादन्यं सिद्धान्तमाकाश-
गुणत्वरहितानित्यतादिकं ग्रहीतुं किन्न लभते; इच्छाधीनत्वे नियमायोगात् ।
तस्मात् स्वयं-ग्रहणं शास्त्रेच्छाप्रवृत्त्यर्थमित्युक्तम् ॥ ७४ ॥
नन्विष्टस्यापि स्वेच्छयैव साध्यतापरिग्रहः सिद्ध इति व्यर्थं स्वयं-ग्रहणम् ?
इत्याह—शास्त्रकारस्येष्टं साध्यमिति विप्रतिपत्तीनां दृष्टेस्तन्निराकरणार्थमत्र
पक्षलक्षणे स्वयं-श्रुतिमाचार्योऽकार्षीत् । शास्त्रेष्वाकाशगुणत्वासिद्धावपि वादी-
ष्टस्याक्षतिं शास्त्रेष्टस्यासाध्यत्वं शास्त्रेष्टधर्मान्तरासिद्धौ हेतुबलप्रसिद्धसाध्य-
बाधने गन्धे भूगुणताबाधायां शब्दे कृतकत्वमनित्यत्वसाधनं विरुद्धं स्यादि-
त्यादिकामनवस्थां च परस्य दर्शयन्नाचार्यः स्वयं-श्रुतिमकार्षीदिति पूर्वेण
सम्बन्धः ॥ ७५ ॥