सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

३७६ प्रमाणवार्त्तिके [ पक्षलक्षण-
वाच्यशून्यं प्रलपतां तदेतज्जाड्यवर्णितम् ॥ ३५ ॥
तुल्यं नाशेऽपि चेच्छब्दघटभेदेन कल्पने ।
न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः ॥ ३६ ॥
तथार्थान्तरभावे स्यात् तद्वान् कुम्भोऽप्य-
नित्यता ।
विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात् ॥ ३७ ॥
स्वरूपेणैवान्यतरसद्वितीयः, देहं तु नाभिव्यक्तचैतन्यलक्षणपुरुषमिच्छति प्रति-
वादीति भेदाभावात् तेनापि नान्यतरसद्वितीयत्वसिद्धिः ।
यतश्च न घटस्य स्वरूपेणैव सद्वितीयत्वसम्भवः, भेदाधिष्ठानत्वात् तस्य,
नापि देहेनान्वयाभावात् ; ततो वाच्यशून्यत्वमर्थशून्यत्वमन्यतरसद्वितीयत्वं
प्रलपतां परलोकापवादिनां तदेतदन्यतरसद्वितीयत्वसाध्यवचनं जाड्यस्य
वर्णितं चेष्टितम् ॥ ३४-३५ ॥
नाशेऽपि साध्ये शब्दघटयोः साध्यदृष्टान्तधर्मिणोः सम्बन्धितया भेदेन
कल्पने शब्दसम्बन्धिनो नाशस्य घटेऽन्वयाभावादसाध्यत्वम्, घटसम्बन्धिनश्च
शब्देऽसम्भवादसाध्यतेति तुल्यमिदमिति चेत् ? न तुल्यम् ; विनाशेन प्रध्वंस-
लक्षणेन सिद्धेन निश्चितेन ध्वनेस्तद्वतो विनाशवतः साधनाद् विनाशसामान्यं
साध्यं सिद्धं केवलम्, तद्वत्ता शब्दस्य न सिद्धेति साध्यते ॥ ३६ ॥
यथा विनाशे सामान्येन सिद्धे सत्यसिद्धस्तद्वान् शब्दः साध्यते, तथा
अर्थान्तरभावेऽभिव्यक्तचैतन्यस्वभावतया देहस्य घटाद् वैजात्ये सिद्धे सति
तद्वान् कुम्भोऽपि सिध्येत् । न चैतत् प्रतिवादी बोधयितुं शक्यते; तेना-
चैतन्यस्य भूतव्यतिरिक्तस्यैव स्वीकारात् । यदि पुनरचेतनस्वभावतया घटजाती-
येनैव देहेन सद्वितीयत्वं घटस्य साध्यते, तदा सिध्यत्येव; तथाविधस्य सद्विती-
यत्वस्य सिद्धत्वाद् विनाशवत् । किन्तु वादिनो नेष्टसिद्धिः; देहस्य चेतनस्वभाव-
तयाऽसिद्धेः ।
अथ ध्वनिना स्वसम्बन्धितया विशिष्टाऽनित्यता दृष्टान्तं नान्वेतीति
चेत् ? नानन्वयदोषः; विशेषणेनायोगस्यासम्बन्धस्य वारणात् ॥ ३७ ॥

विचारः ] परार्थानुमानपरिच्छेदः ३७७
द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः ।
व्यवच्छेदादयोगे तु वार्ये नानन्वयागमः ॥ ३८ ॥
सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनम् ।
विशिष्टं धर्मिणा तच्च न निरन्वयदोषवत् ॥ ३९ ॥
एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ ।
प्रत्याख्यातौ निराकुर्वन् धर्मिण्येवमसाधनात् ॥ ४० ॥
द्विविधो हि व्यवच्छेदो विशेषणेन दृष्टो वियोगापरयोगयोरयोगा-
न्ययोगयोर्व्यवच्छेदात् । यथा चैत्रो धनुर्धरः, पार्थो धनुर्धर इति । तत्र धर्मिणा
विशेषणेनायोगे वार्येऽनित्यताया नानन्वयागमोऽनन्वयापत्तिर्न भवति । शब्दो-
ऽनित्यो न वा—इत्ययोगः शङ्कितो विशेषणेन व्यावत्र्त्यते—शब्दोऽनित्य इति ।
एवंविधा चानित्यता नान्यसम्बन्धेन विरुध्यत इति नानन्वयो दृष्टान्ते ॥ ३८ ॥
उक्तार्थसंग्रहमाह—तदनित्यतादि सामान्यमेव साध्यम्, न विशेषः,
येनानन्वयदोषः स्यात् । नन्वनित्यतादि सामान्यं सिद्धमेव क्वचित् साधने
वैयर्थ्यम् ? इत्याह—न च सिद्धस्य क्वचित् सत्तामात्रेणानित्यत्वस्य प्रसाधनम्;
धर्मिण्ययोगव्यवच्छेदस्यासिद्धस्य प्रसाधनात् । न च धर्मिणाऽयोगव्यवच्छेदतो
विशिष्टम्, तच्चानित्यतादि दृष्टान्ते निरन्वयदोषवत् । न च अयोगव्यव-
च्छेदेन; धर्मिविशेषितस्य धर्मान्तरसम्बन्धाविरोधात् ॥ ३९ ॥
एतेनेष्टस्य साध्यत्ववचनेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणावन-
न्वयान्निराकुर्वन् चार्वाकः, यथा—'न शब्दानित्यत्ववान् शब्दो नानित्यशब्दवान्
वा शब्दः' इति, न हि शब्दानित्यत्वेनानित्यशब्देन वा क्वचिद् घटादौ दृष्टान्ते
कृतकत्वस्यान्वयोऽस्ति, तत इष्टविपर्यासाद् विरुद्धं कृतकत्वमिति, स एवं वदन्
प्रत्याख्यातः । कथम् ? इत्याह—धर्मिणि शब्दे एवं धर्मविशिष्टस्य धर्मस्य
धर्माविशिष्टस्य वा धर्मिणोऽसाधनादनित्यत्वमात्रस्य शब्दे साध्यत्वेनेष्टत्वात् ।
अन्यथाऽनित्यशब्दवति शब्दे सिद्धेऽपि शब्दो नानित्यः स्यात् । यदि धर्ममात्रं
साध्यम्, तदा समुदायः साध्यो न स्यात्, हेतोस्तदपवादोऽविरुद्धस्य न स्याद् ?
इत्याह—धर्ममात्रस्य धर्मिसाध्यत्वात् समुदाय एव साध्यः, हि यस्मात्

३७८ प्रमाणवार्त्तिके [ पक्षलक्षण-
समुदायापवादो हि न धर्मिणि विरुध्यते ।
साध्यं यतस्तथा नेष्टं साध्यो धर्मोऽत्र केवलः ॥ ४१ ॥
स्वयंशब्दग्रहणप्रयोजनम्
एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि ।
साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयं-श्रुतिः ॥ ४२ ॥
शास्त्राभ्युपगमादेव सर्वादानात् प्रबाधने ।
तत्रैकस्यापि दोषः स्याद् यदि हेतुप्रतिज्ञयोः ॥ ४३ ॥
शब्दनाशे प्रसाध्ये स्याद् गन्धभूगुणताक्षतेः ।
तस्माद् विरुद्धस्य हेतोरिष्टसमुदायापवादो न विरुध्यते । ननु समुदायस्य
साध्यत्वेऽनन्वयदोष इष्टविधातो वा स्याद् ? इत्याह—तथा धर्मिधर्मसमुदायोऽन्य-
धर्मसम्बन्धितया साध्यं यतो नेष्टम्, तस्मान्नानन्वयो विरुद्धता वा । तथा
हि—अत्र शब्दादौ धर्मिणि धर्मोऽनित्यतादिः केवलः साध्य इष्टः । तस्य
चान्वयोऽस्तीति न दोषः ॥ ४०-४१ ॥
उक्तमिष्टग्रहणस्य प्रयोजनम् ॥
स्वयं-शब्दस्येदानीं वक्तुमाह—एकस्य शब्दादेर्धर्मिणः शास्त्रे नाना-
धर्म्माणाममूर्त्तत्वानित्यताकाशगुणत्वादीनां स्थितावभ्युपगमेऽपि वादिना आत्म-
नैव साधनोपन्यासकाले साधयितुमिष्टो धर्मः साध्यः स्यात्, नान्य इति
स्वयं-श्रुतिराचार्येणोपात्ता ॥ ४२ ॥
यदि पुनः शास्त्रेणाभ्युपगमादेव सर्वेषां धर्माणामादानात् परिग्रहाद्
वादिना तत्र तेषु मध्ये एकस्यापि धर्मस्योपन्यस्तहेतुना बाधने हेतुप्रतिज्ञयो-
र्विरुद्धता दोष उच्यते ॥ ४३ ॥
यथा शब्दे शास्त्रेष्टमाकाशाश्रयत्वं बाधमानस्य वादीष्टमनित्यत्वं साधयतो-
ऽपि कृतकत्वस्य विरुद्धत्वं प्रतिज्ञाविरोधो वाऽभिधीयते । कृतकं हि क्षणिकम्,
न च क्षणिकमुत्पादानन्तरं क्षणमप्यस्ति, ततः कृतकत्वमाकाशाश्रयत्वबाधनम् ।
तथा कृतकत्वात् शब्दस्य नाशे साध्यमाने गन्धस्य कृतकत्वान्न-
श्वरस्य भूगुणतायाः पृथिव्याश्रिततायाः शास्त्रेष्टायाश्च क्षतेः विपर्यासनात्

विचारः ] परार्थानुमानपरिच्छेदः ३७९
हेतुर्विरुद्धोऽप्रकृतेर्नो चेदन्यत्र सा समा ॥ ४४ ॥
अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् ।
अथ वादीष्टतां ब्रूयाद् धर्मिधर्मादिसाधनैः ॥ ४५ ॥
कैश्चित् प्रकरणैरिच्छा भवेत् सा गम्यते च तैः ।
बलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ ४६ ॥
वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते ।
हेतुः प्रयत्नानन्तरीयकत्वादिर्विरुद्धः स्यात् । प्रतिज्ञा विरुद्धा स्यात् । उपात्तो हेतुः
वादिनानिष्टं शास्त्रेष्टं बाधत इत्येव यदि विरुद्धः, तदा गन्धभूगुणतां बाधमानस्य
कृतकत्वस्य शब्दे विरुद्धता स्यात् ; शास्त्रेष्टबाधकताया अविशेषात् ।
अथ गन्धभूगुणताया साध्यत्वेनाप्रकृतेरप्रस्तुते तद्बाधनेऽपि शब्दे कृतकत्वं
विरुद्धं नो चेत् ? सा प्रकृतिरन्यत्राकाशगुणत्वेऽपि समा । न हि वादिना
आकाशगुणत्वं साधयितुमिष्टम्, किन्त्वनित्यत्वम् । अतोऽप्रकृतस्यास्य बाधने न
विरुद्धः स्याद्धेतुः ॥ ४४ ॥
अथात्राकाशगुणत्वादौ धर्मी शब्द प्रकृतः । तत्र शास्त्रार्थस्याकाश-
गुणत्वादेः साधनम्, तद्बाधने च विरुद्धता हेतोः । भूगुणत्वे तु गन्धो धर्म्यप्रकृत
इति तद्बाधनेऽपि न विरोधः ? नैष परिहारः; तथा हि—न वादीष्टविपर्य्यासेन
दोष उक्तः; किन्तु शास्त्रार्थविरोधेन । तथा च प्रकृतत्वमनुपयुक्तम् ।
अथ वाद्यनिष्टतयाऽप्रकृतत्वं तच्चाकाशगुणत्वयोः समानम् । अथाकाशगुण-
त्वस्य वादीष्टतां परो ब्रूयात् धर्मिधर्मादिसाधनैः । साध्यधर्मिधर्मत्वात्
तदेकदेशत्वाद् वाऽकाशगुणत्वमिष्टं वादिनोऽनित्यत्ववदिति ॥ ४५ ॥
ननु कैश्चित् प्रकरणैर्विवादादिभिरिच्छा वादिनः कस्मिंश्चिद् धर्मे भवेत् ।
तैरेव च प्रकरणैः सा इच्छा गम्यते परेणापि ! न तु तस्य धर्मिणो धर्म इत्येव
वादिनेष्यते । ततो धर्मिधर्मत्वादिसन्दिग्धविपक्षव्यतिरेकित्वात् शेषवत्, स्वय-
मनिच्छतश्च वादिनः साधनस्य बलात् तवेच्छेयमिति यदुच्यते, व्यक्तमिद-
मीश्वरचेष्टितमित्युपहसति ॥ ४६ ॥
किञ्च—तामिच्छामकार्यलिङ्गां कार्येतरलिङ्गामनुमेयत्वेन वदन् परो

३८० प्रमाणवार्त्तिके [ पक्षलक्षण-
अनान्तरीयके चार्थे बाधितेऽन्यस्य का क्षतिः ॥ ४७ ॥
शब्दाप्रामाण्यविचारः
उक्तं च नागमापेक्षमनुमानं स्वगोचरे ।
सिद्धं तेन सुसिद्धं तन्न तदा शास्त्रमीक्ष्यते ॥ ४८ ॥
वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः ।
उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥ ४९ ॥
तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् ।
व्यभिचारेण बाध्यते । न ह्यन्योऽकार्योऽन्यं न व्यभिचरतीति नियमोऽस्ति ।
अपि च—साध्यस्यानित्यत्वस्यानन्तरीयकेऽर्थे आकाशगुणत्वादौ बाधि-
तत्वेऽप्यन्यस्य साध्यस्य का क्षतिः । न ह्यनित्यत्वमाकाशगुणत्वनान्तरीयकं
येन तदभावे तदपि न स्यात् । कृतकत्वं त्वनित्यतयाऽव्यभिचारीति तस्मान्ना-
नुमानमनैकान्तिकम् ॥ ४७ ॥
“अनुमाविषये नेष्टं····वाचः प्रामाण्यम्” ( प्र० वा० ४. २ ) इत्यादि-
नोक्तं प्राक् । वस्तुबलप्रवृत्तमनुमानं नागमापेक्षं स्वस्य गोचरे साध्ये
इति । तस्मात् तेन वस्तुबलप्रवृत्तेनागमानपेक्षिणाऽनुमाने यत् सिद्धं सुसिद्धं
तत् तदा च न शास्त्रमीक्ष्यते; बाधितं न वेति वस्तुबलप्रवृत्तानुमानेन तद-
पेक्षाभावात्, तदानुमाकाले शास्त्रस्यानाश्रयणात् ॥ ४८ ॥
वादत्यागः स्याच्चेत् ? न वादत्यागः सिसाधयिषितधर्मादपरस्य शास्त्रा-
भ्युपेतस्य तदा साधनोपन्यासकाले साध्यतयाऽनभ्युपायतोऽस्वीकारात् । ननु
शास्त्राभ्युपगमाद् यदा वादः क्रियते, तदा शास्त्रार्थबाधनात् वादत्यागः स्यादेव ?
इत्याह—शास्त्रस्याभ्युपायेऽयं विचार उपायः । ततस्तदा विचारकाले सन्न-
प्यभ्युपगमोऽनङ्गं शास्त्रार्थग्रहणे गृहीतस्य त्यागः स्यात् । न विचारात् प्राग्
ग्रहणमभ्युपगमान्न्याय्यम् ॥ ४९ ॥
कदा तर्हि शास्त्रेण बाधेष्यते ? इत्याह—शास्त्रोपदर्शिते विषयद्वये
प्रत्यक्षपरोक्षे रूपनैरात्म्यादौ तदा प्रमाणप्रवृत्त्या विशुद्धे निर्णीते सति पश्चाद्-

विचारः ] परार्थानुमानपरिच्छेदः ३८१
चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ॥ ५० ॥
तद्विरोधेन चिन्तायास्तत्सिद्धार्थेष्वयोगतः ।
तृतीयस्थानसंक्रान्तौ न्याय्यः शास्त्रपरिग्रहः ॥ ५१ ॥
तत्रापि साध्यधर्मस्य नान्तरीयकबाधनम् ।
परिहार्यं न चान्येषामनवस्थाप्रसङ्गतः ॥ ५२ ॥
केनेयं सर्वचिन्तासु शास्त्रं ग्राह्यमिति स्थितिः ।
कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः ॥ ५३ ॥
त्यन्तपरोक्षे स्वर्गादौ शास्त्रेण शास्त्राश्रयेणानुमानं चिकीर्षोः सतः स हि
कालोऽभ्युगम्य यदि शास्त्रबाधो न भवेत् । अतस्तदा शास्त्रेण बाधनं
साध्यसाधनादेरिष्यते ॥ ५० ॥
तदापि कस्माच्छास्त्रबाधेष्यते ? इत्याह—तस्य शास्त्रस्य विरोधेन तत्सि-
द्वेष्वर्थेषु लिङ्गादिष्वसिद्धकल्पेषु गमकचिन्ताया अयोगतः । यस्मात् प्रत्यक्ष-
परोक्षार्थयोर्नगमाधिकारः, तस्मात् तृतीयस्थानेऽतीन्द्रिये विषये विचारसंक्रान्तौ
शास्त्रपरिग्रहो न्याय्यः; प्रकारान्तराभावात् ॥ ५१ ॥
तत्र शास्त्रे परिगृहीतेऽपि तदा साधयितुमारब्धस्य साध्यधर्मस्य यन्नान्त-
रीयकं सम्बद्धम्, यथा क्षणिकत्वस्य नैरात्म्यम्, तस्य बाधनं परिहार्यम्;
वस्तुतस्तादात्म्यादनयोर्नैरात्म्यबाधने क्षणिकत्वबाधनप्रसङ्गात् । न त्वन्येषां
साध्यस्याकारणाव्यापकभूतानां धर्माणां बाधनं परिहार्यम्; अनवस्थाप्रसङ्गतः ।
न हि शास्त्रदर्शितसम्भवधर्मव्याप्तिलिङ्गस्य दृष्टान्ते दर्शयितुं शक्यते, येन
कश्चिदागमाश्रयो हेतुरवतिष्ठेत ॥ ५२ ॥
ननु शास्त्रमनपेक्ष्य न वादः कर्त्तव्य इति वस्तुबलप्रवृत्तानुमानेऽपि शास्त्रा-
पेक्षा ? इत्याह-सर्वासु परोक्षात्यन्तपरोक्षार्थचिन्तासु शास्त्रं ग्राह्यमिति केनेयं
स्थितिः कृता । नैतदनुमन्यन्ते विद्वांसः । इदानीमविदुषामस्मिन्रभ्युपगमे,
असिद्धान्तैः सिद्धान्तविशेषाश्रयरहितैर्गोपालकादिभिर्धूमेन लिङ्गेन नानलो
ग्राह्यः ॥ ५३ ॥

३८२ प्रमाणवार्त्तिके [ शब्दाप्रामाण्य-
रिक्तस्य जन्तोर्जातस्य गुणदोषमपश्यतः ।
विलब्धा बत केनामी सिद्धान्तविषमग्रहाः ॥ ५४ ॥
यदि साधन एकत्र सर्वं शास्त्रं निदर्शने ।
दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥ ५५ ॥
असम्बद्धस्य धर्मस्य किमसिद्धौ न सिध्यति ।
हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥ ५६ ॥
धर्माननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान् ।
वाग्धूमादेर्जनोऽन्वेति चैतन्यदहनादिकम् ॥ ५७ ॥
न च कस्यचित् सिद्धान्तसम्बन्धो युक्तः । तथा हि—सम्बन्धो भवन्
सहजो वा भवेद्, औपाधिको वा, द्वयमपि निषेद्धुमाह—रिक्तस्य तुच्छस्य
सिद्धान्तरहितस्य जन्तोर्जातस्यानेन सहजसम्बन्धाभावनिमित्तमुक्तम् । गुणदोषं
प्रामाण्याप्रामाण्यनिबन्धनमपश्यतः । अनेनौपाधिकसम्बन्धनिमित्ताभावः उक्तः ।
केनानर्थपटीयसा सिद्धान्ता एव विषमग्रहा दुष्परिहारत्वादिमे विलब्धा
बत, येषु स्वामित्वेन जन्तवो व्यवहरन्ति ! न हि कर्णनासमिव सिद्धान्तः
प्राणिसहजः । नापि दोषोजितगुणोपपन्नः प्रमाणमिव विचारात् प्राक् सिद्धान्तः
सिद्धः, येन समर्थविषयः स्यात् ॥ ५४ ॥
किञ्च—यदि साधन एकत्र सर्वं शास्त्रं शास्त्रार्थं निदर्शने दृष्टान्ते
वादी दर्शयेत्, तदा तत् साधनं स्यात्, न त्वेकस्य शास्त्रदर्शितधर्मस्यान्वये ।
एतच्च न क्वचित् साधने कर्तुं शक्यमिति लोकातिक्रान्ता स्थितिरैषा ॥५५॥
अपि च—असम्बद्धस्य साधयितुमप्रवृत्तस्य धर्मस्याकाशगुणत्वादेः कृत-
कत्वाद्धेतोर्विपर्यासादसिद्धौ सत्यां सिसाधयिषितं हेतुव्यापकमनित्यत्वं किं न
सिध्यति ! न हि व्यापकमन्तरेण व्याप्यं भवति । हेतुस्तस्य व्यापकस्य
साधनायोक्तः किं दुष्टः, तत्र स्वसाध्ये सिध्यति साध्यप्रतिपादनम् । साध्य-
व्यापारस्तच्चेदस्ति कथं दुष्टः ! ॥ ५६ ॥
शास्त्रार्थबाधनेऽभिमतस्यापि न सिद्धिरिति चेत् ? आह—धर्मिणो धर्मान्
शास्त्रदर्शितानखिलान् हेतुव्यापकत्वेनानुपनीयाप्रदर्श्य वाग्धूमादेर्हेतोश्चैतन्य-

विचारः ] परार्थानुमानपरिच्छेदः ३८३
स्वभावं कारणं चार्थोऽव्यभिचारेण साधयन् ।
कस्यचिद् वादबाधायां स्वभावान्न निवर्तते ॥ ५८ ॥
प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितैः ।
साध्यार्थैर्हेतुना तेन कथमप्रतिपादितः ॥ ५९ ॥
उक्तोऽनुक्तोऽपि वा हेतुर्विरोद्धा वादिनोऽत्र किम् ।
न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः ॥ ६० ॥
बाधकस्याभिधानाच्चेद् दोषो यदि वदेन्न सः ।
दहनादिकं यथाक्रमं स्वसन्तानवन्महानसवच्च जनोऽन्वेति प्रतिपद्यते ॥५७॥
किञ्च—स्वभावं व्यापकं वृक्षत्वादि, कारणं वह्न्यादि च, अर्थो व्याप्यः
शिंशपादिः, कार्यं धूमादि व्यभिचारेणाविनाभावित्वात् साधयन् कस्यचित्
शास्त्रपराधीनस्य वादिनो वादस्य बाधायां स्वभावात् व्यापककारणगमकान्न
निवर्

३८४ प्रमाणवार्त्तिके [ शब्दाप्रामाण्य-
किन्न बाधेत सोऽकुर्वन्नयुक्तं केन दुष्यति ! ॥ ६१ ॥
अन्येषु हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात् ।
दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात् ॥ ६२ ॥
यदि किञ्चित् क्वचिच्छास्त्रे न युक्तं प्रतिषिध्यते ।
ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः ॥ ६३ ॥
सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् ।
सर्वत्र तेनोत्सन्नेयं साध्यसाधनसंस्थितिः ॥ ६४ ॥
विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् ।
न वदेत् स वादी, तदा किमसो हेतुः शास्त्रार्थं न बाधेत ! वस्तुतस्त-
द्विरोधित्वादवश्यं बाधते । ततश्च स वाद्यकुर्वन्नयुक्तं केन कारणेन दुष्यति
पराजितः स्यात् ॥ ६१ ॥
ननु यदि दुष्टहेतुवचनेऽपि न वादिनो दुष्टता, तदाऽसिद्धादिवचनेऽपि न
दोषः स्याद् ? इत्याह — अन्येष्वसिद्धादिषु हेत्वाभासेषु वाद्युक्तेषु स्वेष्टस्य
वादीष्टस्यैवाप्रसाधनाद् वादी दुष्यति; व्यर्थस्य साध्यसाधनानुपयुक्तस्य साध-
नस्याभिधानात् । अत्र कृतकत्वे तु वाद्युक्ते वाञ्छितस्यानित्यत्वस्य प्रसाधनान्न
वादी दुष्यति। शास्त्रार्थे तु वाद्यनिष्टे बाध्यमाने शास्त्रमेव दुष्टं भविष्यति ॥६२॥
यद्यपि स्वेष्टस्य तेन साधनम्, तथापि शास्त्रार्थस्य बाधनमिति दुष्ट एव ?
इत्याह — क्वचिद् वैशेषिकादिशास्त्रे निर्दिष्टं यदि किञ्चिदाकाशगुणत्वादि
बाध्यमानत्वादयुक्तम् । तावताऽन्यदनित्यत्वाद्युक्तमपि कृतकत्वहेतुना ब्रुवाणः
प्रतिपादयन् प्रतिषिध्यते शास्त्रार्थबाधनात् विरोधोपन्यासेनेति व्यक्तमियं राज-
कुलस्थितिः, राजशासनस्यैव बलप्रवृत्तस्य युक्तायुक्तविचारणाबहिर्भावात् ॥६३॥
किञ्च — सर्वान् शास्त्रदृष्टानर्थान् साध्यत्वेन समीकृत्य किञ्चित् साधनं
वक्तुमशक्यम्; दृष्टान्ते शास्त्रदृष्टालिखधर्मव्याप्त्यनुपलम्भात् । तेन कारणेन
सर्वत्र धर्मिणि साध्यसाधनयोः संस्थितिर्व्यवस्थेयमुत्सन्ना स्यात् ॥ ६४ ॥
यदि तर्ह्याकाशगुणत्वाभावेऽप्यनित्यत्वं सिध्यदबाध्यं शब्दे, तदा श्रवणत्वादि-
हेतुना नित्यत्वमपि साधनमबाध्यं स्याद् ? इत्याह — विरुद्धयोर्नित्यत्वानित्यत्वयो-

विचारः ] परार्थानुमानपरिच्छेदः ३८५
विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता ॥ ६५ ॥
अबाध्यबाधकत्वेऽपि तयोः शास्त्रार्थविप्लवात् ।
असम्बन्धेऽपि बाधा चेत् स्यात् सर्वं सर्वबाधनम् ॥ ६६ ॥
सम्बन्धस्तेन तस्यैव बाधनादस्ति चेदसत् ।
हेतोः सर्वस्य चिन्त्यत्वात् स्वसाध्ये गुणदोषयोः ॥ ६७ ॥
नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते ।
रेकत्र शब्दे धर्मिण्ययोगाद् विरुद्धैकान्तिके विरुद्धाव्यभिचारिणि श्रावण-
त्वादौ नित्यत्वसाधके बाधनमस्तु । न ह्येकत्र धर्मिणि विरुद्धौ धर्मौ भवितु-
मर्हतः । तद्वन्नित्यत्वयोरिवात्रानयोः प्रकृताप्रकृतयोरनित्यत्वाकाशगुणत्वाभावयो-
र्विरोधिता नास्ति । ततः कृतकत्वाच्छब्देऽनित्यत्वसिद्धावाकाशगुणत्वाभावो
न बाध्यते ॥ ६५ ॥
स्यादेतत् । प्रकृताप्रकृतयोरनित्यत्वाकाशगुणत्वाभावयोः परस्परं बाध्यबाध-
कत्वाभावेऽप्येकस्मिन्ननित्यत्वे कृतकत्वात् सिध्यति शब्दे धर्मिणि शास्त्रार्थस्य
शास्त्राभ्युपगतस्याकाशगुणत्वस्य विप्लवात् कारणाद् असम्बद्धे अप्रकृताकाशगुण-
त्वसम्बन्धरहितेऽनित्यत्वेऽपि बाधा भवतीति चेत् ? एवं तर्हि प्रयत्नानन्तरी-
यकत्वाद् गन्धे पृथिवीगुणत्वबाधने सर्वं कृतकत्वादि सर्वस्यानित्यत्वादेः साध्यस्य
बाधनं स्यात् ; शब्दादौ धर्मिण्यप्रकृतशास्त्रार्थबाधनस्य तुल्यत्वात् ॥ ६६ ॥
अथ तत्र शब्द एव धर्मिणि आकाशगुणत्वस्य सत्त्वात् सम्बन्धोऽस्ति,
तेन कृतकत्वात् तस्यैव बाधनाद् विरोधः । पृथिवीगुणत्वं तु शब्दे धर्मिण्य-
सम्बद्धम् । ततस्तद्बाधनेऽपि शब्दे कृतकत्वमविरुद्धमिति चेत् ? असदेतत् ;
सर्वस्य हेतोः स्वसाध्ये प्रकृते गुणदोषयोश्चिन्त्यत्वात् । यत् पुनरप्रकृतं
धर्मिसम्बद्धमपि, न तत् साध्यम्, तद्बाधनेऽपि न काचित् क्षतिः ॥ ६७ ॥
किञ्च—धर्मिणि सत्तामात्रम्, न सम्बन्धः, किन्तु साध्ये नान्तरीय-
कता साध्याविनाभावित्वं सम्बन्ध उच्यते । सा साध्यनान्तरीयकता इह प्रकृता-
काशगुणत्वबाधने सति नेक्ष्यते । यद्यपि सत्त्वनान्तरीयकमाकाशगुणत्वं शब्दे
प्र० वा० : २५

३८६ प्रमाणवार्त्तिके [पक्षलक्षण-
केवलं शास्त्रपीडेति दोषः सान्यकृते समा ॥ ६८ ॥
शास्त्राभ्युपगमात् साध्यः शास्त्रदृष्टोऽखिलो यदि ।
प्रतिज्ञाऽसिद्धदृष्टान्तहेतुवादः प्रसज्यते ॥ ६९ ॥
उक्तयोः साधनत्वेन नो चेदीप्सितवादतः ।
न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते ॥ ७० ॥
अनीप्सितमसाध्यं चेद् वादिनान्योऽप्यनीप्सितः ।
धर्मोऽसाध्यस्तदाऽसाध्यं बाधमानं विरोधि किम् ॥ ७१ ॥
पक्षलक्षणबाह्यार्थः स्वयं-शब्दोऽप्यनर्थकः ।
स्यात् न बाध्येत, केवलं शास्त्राभ्युपगतधर्मबाधनाच्छास्त्रपीडेति दोषः । सा
च कृतकत्वादनित्यत्वसिद्धौ दृश्यते शास्त्रपीडा अन्येन प्रयत्नानन्तरीयकत्वादिना
गन्धे पृथिवीगुणत्वबाधनेऽपि समेति कृतकत्वं शब्दे विरुद्धं स्यात् ॥ ६८ ॥
यदप्याहुराचार्यायाः—"शास्त्रमभ्युपगम्य यदा वादः क्रियते, तदा शास्त्र-
दृष्टस्य सकलस्य धर्मस्य साध्यता" इति, अत्राह—शास्त्राभ्युपगमाच्छास्त्रदृष्टो-
ऽखिलो धर्मो यदि साध्य इष्यते, तदाऽसिद्धयोः शास्त्रोद्दिष्टयोर्हेतुदृष्टान्तयो-
र्वादः प्रतिज्ञा साध्यं प्रसज्यते; शास्त्रे दृष्टस्यासिद्धस्य साध्यत्वात् ॥ ६९ ॥
स्यादेतत् । किन्तु वादिनेप्सितस्य साध्यत्वेन वादतः स्वयं "साध्यत्वे-
नेप्सितः पक्षो विरुद्धत्वान्निराकृतः" इत्यादिकात् साधनत्वेनोक्तयोरसिद्धहेतु-
दृष्टान्तयोः साध्यता नो चेत् ? नन्वसिद्धस्य शास्त्राभ्युपगतस्य साध्यत्वं न्याय-
प्राप्तं वचनमात्रादीप्सितसाध्यत्वं प्रतिपादकत्वान्न विनिवर्त्तते ॥ ७० ॥
शास्त्राभ्युपगमेऽपि वादिनाऽनीप्सितमसाध्यं चेत् ? एवं तर्ह्याकाशगुण-
त्वादिरपि धर्मो वादिना साध्यत्वेनानीप्सितोऽसाध्यः स्यात् । तदा तद-
साध्यमाकाशगुणत्वं बाधमानं कृतकत्वं किं कस्माद् विरोधि ॥ ७१ ॥
किञ्च—यदि शास्त्राभ्युपगतत्वं पक्षलक्षणम्, तदा स्वयं-शब्दोऽपि
पक्षलक्षणबाह्यार्थो भिन्नाभिधेयोऽनर्थकः स्यात् । शास्त्राभ्युपगमे शास्त्रेष्टस्य
साध्यताप्राप्तौ वादीष्टमात्रं साध्यम्, नान्यदिति हि स्वयं-शब्दस्य प्रयोजनम् ।

विचारः ] परार्थानुमानपरिच्छेदः ३८७
शास्त्रेष्विच्छाप्रवृत्त्यर्थो यदि शङ्का कुतो न्वियम् ॥ ७२ ॥
सोऽनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते ।
निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्त्यते ॥ ७३ ॥
पूर्वमप्येष सिद्धान्तं स्वेच्छयैव गृहीतवान् ।
किञ्चिदन्यं स तु पुनर्गृहीतुं लभते न किम् ॥ ७४ ॥
दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयं-श्रुतिम् ।
इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन् ॥ ७५ ॥
शास्त्रेष्टमात्रस्य तु साध्यत्वे निष्फलमेव तत् । शास्त्रेष्विच्छया प्रवृत्त्यर्थः
स्वयं-शब्दो यदि कथ्यते, स्वयं-शब्दमन्तरेण शास्त्रमिच्छया न ग्रहीतव्यमिति
शङ्केयं कुतो नु हेतोर्जाता, येन तन्निवृत्त्यर्था स्वयं-श्रुतिर्वर्ण्यते ॥ ७२ ॥
स वादी प्रमाणेन शास्त्रार्थबाधकेनानिषिद्धः शास्त्रं गृह्णन् केन
निवार्यते, न केनचित्; यतः स्वयं-ग्रहणं शास्त्रं ग्राहयत् सफलं स्यात् ।
प्रमाणेन चेच्छास्त्रार्थबाधकेन निषिद्धो वादी वाचा स्वयं-शब्देन शास्त्राभ्युपगमे
केन लक्षणकर्त्रा प्रवर्त्त्यते, न केनचित् ॥ ७३ ॥
किञ्च—एष वादी पूर्वमपि स्वेच्छयैव सिद्धान्तं कणादादिप्रणीतं
गृहीतवान्; न त्वन्यपुराणादिबलात् । स कथमिच्छया शास्त्रोद्दिष्टं किञ्चिद्
धर्मव्यभिचारदर्शनादिना शास्त्रेषु सफलधर्मकलापसाध्यत्वादन्यं सिद्धान्तमाकाश-
गुणत्वरहितानित्यतादिकं ग्रहीतुं किन्न लभते; इच्छाधीनत्वे नियमायोगात् ।
तस्मात् स्वयं-ग्रहणं शास्त्रेच्छाप्रवृत्त्यर्थमित्युक्तम् ॥ ७४ ॥
नन्विष्टस्यापि स्वेच्छयैव साध्यतापरिग्रहः सिद्ध इति व्यर्थं स्वयं-ग्रहणम् ?
इत्याह—शास्त्रकारस्येष्टं साध्यमिति विप्रतिपत्तीनां दृष्टेस्तन्निराकरणार्थमत्र
पक्षलक्षणे स्वयं-श्रुतिमाचार्योऽकार्षीत् । शास्त्रेष्वाकाशगुणत्वासिद्धावपि वादी-
ष्टस्याक्षतिं शास्त्रेष्टस्यासाध्यत्वं शास्त्रेष्टधर्मान्तरासिद्धौ हेतुबलप्रसिद्धसाध्य-
बाधने गन्धे भूगुणताबाधायां शब्दे कृतकत्वमनित्यत्वसाधनं विरुद्धं स्यादि-
त्यादिकामनवस्थां च परस्य दर्शयन्नाचार्यः स्वयं-श्रुतिमकार्षीदिति पूर्वेण
सम्बन्धः ॥ ७५ ॥

३८८ प्रमाणवार्त्तिके [ पक्षलक्षण-
समयाहितभेदस्य परिहारेण धर्मिणः ।
प्रसिद्धस्य गृहीत्यर्थां जगादान्यः स्वयं-श्रुतिम् ॥ ७६ ॥
विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः ।
स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः ॥ ७७ ॥
असाध्यतामथ प्राह सिद्धादेशेन धर्मिणः ।
स्वरूपेणैव निर्देश्य इत्यनेनैव तद् गतम् ॥ ७८ ॥
सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे ।
साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत् ॥ ७९ ॥
समयेन सिद्धान्तेनाहित आरोपितो भेदो विशेष आकाशगुणत्वादिर्यस्य
तस्य धर्मिणः परिहारेणागमनिरपेक्षप्रमाणबलात् प्रसिद्धस्य धर्मिणः शब्द-
मात्रादेर्गृहीतित्यर्थः प्रयोजनं यस्यास्तां स्वयं-श्रुतिमन्यो जगाद । स्वं
प्रसिद्धो धर्मी कार्यः, नागमसिद्ध इत्यर्थः ॥ ७६ ॥
अत्राह—धर्मिणि साध्यधर्मस्य भावाभावविचारप्रस्तुतेरेवागमनपेक्ष्य
प्रसिद्ध आश्रयो धर्मी सिद्धः; स्वेच्छया कल्पितो भेदो विशेषो येषां
तेषु पदार्थेष्वविवादतो विवादाभावात् । न हि कल्पितभेदे धर्मिणि कश्चित्
प्रेक्षावान् कस्यचिद् धर्मस्य साधनं बाधनं वेहते; किन्तु प्रमाणप्रतीते वस्तुनि ।
अतस्तदर्थमपि स्वयं-ग्रहणमनुपयुक्तम् ॥ ७७ ॥
अथ सिद्धादेशेन प्रसिद्धार्थवाचकेन स्वयं-शब्देन धर्मिणोऽसाध्यतां
प्राह, यथा—अस्ति प्रधानं भेदानामनुपदर्शनादिति ? इदमप्ययुक्तम्; यस्मात्
स्वरूपेण साध्यत्वेनैव निर्देश्य इत्यनेन पक्षलक्षणावयवेनैव च तद् धर्मिणः
सिद्धस्यासाध्यत्वं गतं प्रतीतम् ॥ ७८ ॥
तथा हि—'अयमिष्टोऽनिराकृतः पक्षः' इत्यनेन सिद्धस्य सिद्धरूपेण
निर्देशस्य धर्मवचनस्यासिद्धस्यापि साधनरूपेण निर्देशस्यासिद्धवचनस्य पक्षत्व-
सम्भवे हि तत्प्रतिषेधं विदधत् साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत् ।
साध्यस्यैव निर्देशः पक्ष इति सिद्धस्य धर्मिणोऽसिद्धस्य च साधनत्वेनोक्तस्य
निरासः ॥ ७९ ॥

विचारः ] परार्थानुमानपरिच्छेदः ३८९
अनुमानस्य सामान्यविषयत्वं च वर्णितम् ।
इहैवं न ह्यनुक्तेऽपि किञ्चित् पक्षे विरुध्यते ॥ ८० ॥
कुर्याच्चेद् धर्मिणं साध्यं ततः किं तन्न शक्यते ।
कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥ ८१ ॥
उत्तरावयवापेक्षो न दोषः पक्ष इष्यते ।
तथा हेत्वादिदोषोऽपि पक्षदोषः प्रसज्यते ॥ ८२ ॥
सर्वैः पक्षस्य बाधात्तस्तस्मात् तन्मात्रसङ्गिनः ।
पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥ ८३ ॥
हेत्वादिलक्षणैर्बाध्यं मुक्त्वा पक्षस्य लक्षणम् ।
किञ्च—अनुमानस्य सामान्यविषयत्वं स्वयमाचार्येण वर्णितम् ।
यदि च धर्मी पक्षः, तदा तस्य स्वलक्षणत्वात् सामान्यविषयता व्याहन्येत ।
किञ्च—इह पक्षलक्षण एवमुक्तक्रमेणानुक्तेऽपि स्वयं-शब्दे सिद्धधर्म्यसिद्ध-
साधनव्यवच्छेदार्थे किञ्चित् पक्षे प्रतिपाद्ये न विरुध्यते ॥ ८० ॥
नन्वनुक्ते स्वयं-शब्दे पक्षलक्षणं धर्मिणं साध्यं कुर्यादिति दोषः, ततो
धर्मिणः पक्षत्वप्रसङ्गात् किं दूषणम् ? तद्धर्मिपक्षत्वं कर्तुं न शक्यत इति
अशक्यतादूषणम् । कस्मात् कारणाद् धर्मी पक्षो भवितुं नार्हति ? धर्मिणः
साध्यत्वेनासिद्धतायां हेतोरभावात्, विशेषस्य धर्मिणो दृष्टान्तेऽसम्भवात् ।
अन्वयाभावाच्च धर्मी पक्षः कर्तुं न शक्यते ।
नन्वयं दोषस्तयोर्हेतुदृष्टान्तयोः, न तु पक्षस्य । तथा हि—साधनवाक्यस्य
पक्षादुत्तरेऽवयवे 'हेतुदृष्टान्तादिकेऽपेक्षा यस्यासौ दोषः पक्षे नेष्यते; हेतु-
दृष्टान्तसम्बन्धित्वात् तस्य । यदि तूत्तरावयवापेक्षोऽपि पक्षस्य बाधनात् पक्षदोष
उच्यते, तथा सति हेत्वादिदोषोऽपि पक्षदोषः प्रसज्यते ॥ ८१–८२ ॥
सर्वैर्हेत्वादिदोषैः पक्षस्य बाधात् तस्मात् तन्मात्रसङ्गिनः पक्षमात्र-
सम्बद्धा दोषाः पक्षदोषा मताः। नान्येऽवयवान्तरापेक्षाः प्रत्यक्षादिविरोधवत् ।
यथा प्रत्यक्षादिबाधितत्वमवयवान्तरानपेक्षं पक्षदोषः ॥ ८३ ॥
तस्माद् हेत्वादीनां लक्षणैर्बाध्यं परिहर्त्तव्यं दोषमन्वयविरोधादिकं

चतुर्थ परिच्छेद: परार्थानुमान परिच्छेद एवं ग्रन्थ उपसंहार

३९० प्रमाणवार्त्तिके [ पक्षलक्षण-
उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः ॥ ८४ ॥
स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिकाः ।
सहानिराकृतेनेष्टश्रुतिर्व्याप्तिबाधनी ॥ ८५ ॥
साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता ।
निराकृते बाधनतः शेषेऽलक्षणवृत्तितः ॥ ८६ ॥
स्वयमिष्टाभिधानेन गतार्थेऽप्यवधारणे ।
मुक्त्वा पक्षमात्रानुषङ्गिणोर्व्याप्तिव्यतिरेकयोः परिहारार्थं पक्षलक्षणमुच्यते
व्यतिरेक आधिक्यमभिव्याप्तिरित्यर्थः ॥ ८४ ॥
तत्र येन पदेन यद् दूषणं परिह्रियते, तदाह—स्वयं च निपातं च
एवं रूपं स्वरूपं चाख्या श्रुतयः सहानिराकृतेन पदेन व्यतिरेकस्यातिव्याप्ते-
र्बाधिकाः । स्वयं-शब्देन शास्त्रेष्टस्य निपातेनासिद्धस्यापि साधनत्वेनोक्तस्य
स्वरूपशब्देन सिद्धस्य । निराकृतशब्देन प्रत्यक्षादिनिराकृतस्य पक्षत्वं सक्तं
निषिध्यते । इष्टश्रुतिर्व्याप्तेर्बाधनी । इष्टशब्दे ह्यक्रियमाणे निर्दिष्टमेव साध्यं
साध्यं स्यात्, न प्रकरणापन्नमिष्टम् ॥ ८५ ॥
यदि “स्वयंनिपातरूपाख्या व्यतिरेकस्य बाधिकाः” प्रमाणसमुच्चयलक्षणे
निर्दिष्टाः, तदा न्यायमुखे—“साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृतः” इति
पक्षलक्षणे ता न सन्तीति कथं तेनाव्याप्तिव्यतिरेकयोः परिहारः ? इत्याह१—
साध्याभ्युपगमः पक्ष इति पक्षलक्षणमवतिष्ठते । तथा च तेषु शास्त्रेच्छा-
दिषु पञ्चसु व्यावत्र्त्येषु मध्ये निराकृते प्रत्यक्षादिबाधिते बाधनतोऽपक्षता
विरुद्धार्था; निराकृतस्य पक्षविधानात् । शेषे शास्त्रेष्टे वादिनाऽनिष्टे साधने च
सिद्धे साधयितुमिष्ट एषिष्यमाणे सिद्धे च साध्यविपरीतेऽप्रस्तुते चोक्तमात्रे
लक्षणस्य साध्यत्वेनेप्सितत्वस्यावृत्तितोऽपक्षता सिद्धेति परिपूर्णमिदमपि
लक्षणम् ॥ ८६ ॥
ननु यथा सत्यर्थेभ्यो वर्त्तमाने कुविधानादीप्सितशब्दो वर्त्तमानमिच्छामाह,
तथेष्टशब्दोऽपि तत्र एषिष्यमाणे पक्षत्वमप्रसक्तमेव, तत् किं प्रमाणसमुच्चय-


१. साध्यत्वेनेप्सितः पक्ष इति—रा० संस्करणेऽधिकः पाठः ।

विचारः ] परार्थानुमानपरिच्छेदः ३९१
कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥ ८७ ॥
इहानङ्गमिषेन्निष्ठा तेनेप्सितपदे पुनः ।
अङ्गमेव तयाऽसिद्धहेत्वादि प्रतिषिध्यते ॥ ८८ ॥
अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना ।
अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥ ८९ ॥
तेनानभीष्टसंसृष्टस्येष्टस्यापि हि बाधने ।
यथा साध्यमबाधातः पक्षहेतू न दुष्यतः ॥ ९० ॥
लक्षणेऽवधारणं कृतम् ? इत्याह — स्वयमिष्ट इत्यनयोः पदयोरभिधानेनावधारणे
निपातार्थे गते प्रतीतेऽपि कृत्यान्तेन निर्देश्य-शब्देन सर्वकालसम्बन्धयोग्याभिधा-
यिनाऽभिसम्बन्धादिष्टशब्दस्यावर्त्तमानकालेच्छाविषयस्यापि पक्षत्वं स्यात् ।
यथा — आगतो देवदत्तो द्रष्टव्य इति । यदा आगमिष्यति तदा द्रक्ष्यत इत्यर्थः ।
अतो वर्त्तमानकालात् कालान्तरस्य भविष्यदादेः साध्ये साध्येच्छाविषयस्य
च्छिदे प्रतिषेधार्थमुक्तम् — अवधारणं स्वरूपेणैवेति ॥ ८७ ॥
यस्मात् कृत्यान्तेनाभिसम्बन्धात् कालसामान्यवृत्तिरिह प्रमाणसमुच्चय-
लक्षणे निष्ठा वर्त्तमानसाध्यत्वेष्टिप्रतिपादनमत्यनङ्गमहेतुः । न्यायमुखे तेन
कृत्यान्तेन सम्बन्धाभावेनेप्सितपदे पुनरङ्गमेव निष्ठा वर्त्तमानसाध्येच्छाबोधने
तया वर्त्तमानसाध्येच्छाबोधकयाऽसिद्धहेत्वाद्यपीष्यमाणं साध्यत्वेन प्रतिषिध्यते;
तस्मान्न धर्मिणः साध्यताप्रतिषेधार्थं स्वयं-ग्रहणम् ; सिद्धत्वेनैव तत्परिहारस्य लब्ध-
त्वात् । नापि शास्त्रेष्विच्छाप्रवृत्त्यर्थम्; इच्छामात्रेणैव तद्ग्रहणस्य सिद्धत्वा-
दित्युक्तम् ॥ ८८ ॥
अवाचकत्वाच्चायुक्तं तदर्थं स्वयं-ग्रहणम् । न हि स्वयं-शब्दः ‘स्वेच्छया
शास्त्रं ग्राह्यम्’ इत्येतदर्थवाचकः, किन्तु वादिन एव वाचकः । तेन तद्वाचकत्वेन
स्वयं-वादिनाऽऽत्मना शास्त्रमखिलमनपेक्ष्य यदिष्टं तस्य वादीष्टस्य
साध्यतेष्यते, न शास्त्रेष्टस्येत्युपसंहारः ॥ ८९ ॥
तेन कारणेन वादिनोऽनभीष्टेनाकाशगुणत्वेन संसृष्टस्येष्टस्यानित्यत्व-
स्यापि हि बाधनेऽभिधीयमाने पक्षहेतू न दुष्यतः । किं कारणम् ? इत्याह —

३९२ प्रमाणवार्त्तिके [ पक्षलक्षण-
सहानिराकृतग्रहणप्रयोजनम्
अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते ।
सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ॥ ९१ ॥
बाधायाश्चातुर्विध्यम्
अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा ।
तत्राभ्युपातः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः ॥ ९२ ॥
आगमस्ववचनयोस्तुल्यबलत्वम्
आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् ।
आप्तः स्ववचनं शास्त्रं चैकमुक्तं समत्वतः ॥ ९३ ॥
यथा साध्यमबाधातः । न हि वादिनाऽऽकाशगुणत्वैकार्थसमवाय्यनित्यत्वं
साधयितुमिष्टम्, येनास्य बाधः स्यात् ; किन्त्वनित्यत्वमात्रम् । न चास्य प्रत्यक्षादि-
बाधास्ति । हेतोर्वा तदपेक्षया विरुद्धतादिकम् । तदेवम्—“स्वयं निपातरूपारूया
व्यतिरेकस्य बाधिकाः सहानिराकृतेन” इति व्याख्यातम् ॥ ९० ॥
अनिराकृतपदं व्याख्यातुमाह—स चोक्तलक्षणः साध्यस्योपगमः पक्षः ।
प्रमाणाभ्यां प्रत्यक्षानुमानाभ्यामनिषिद्ध इष्यते । कस्माद् ? इत्याह—सन्दि-
ग्धेऽर्थे साधकबाधकप्रमाणविषये हेतोर्वचनाद् व्यस्तः प्रमाणप्रतिक्षिप्तो हेतोर-
नाशयोऽविषयः ॥ ९१ ॥
यदि द्विविधौ पक्षबाधौ, तदा प्रत्यक्षानुमानाप्तैः प्रसिद्धेनेति कथमाचार्येण
चतुर्विधा सा दर्शिता ? इत्याह—अनुमानस्य भेदेन त्रैविध्येन, प्रत्यक्षेण चैकेन
सह सा बाधा चतुर्विधोक्ता । तत्र तेषु बाधकेष्वभ्युपाय आप्तस्ववचने
कार्यमङ्गं जगतः स्थितिर्व्यवहृतिः प्रसिद्धिः स्वभावोऽङ्गं हेतुः ॥ ९२ ॥
कस्मात् पुनराप्तवचनं स्ववचनं चाभ्युपाय उच्यते ? इत्याह—आत्मापरो-
धाभिमतो भूतस्यार्थस्य निश्चयेन युक्ता प्रयुक्ता वाग् यस्य स आप्त उच्यते ।
एवं परम्परयाऽर्थकार्यत्वेन स्ववचनं शास्त्रञ्च समत्वतोऽभ्युपाय इति समस्य
कार्यलिङ्गमेकमुक्तम् ॥ ९३ ॥

विचारः ] परार्थानुमानपरिच्छेदः ३९३
यथात्मनोऽप्रमाणत्वे वचनं न प्रवर्त्तते ।
शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये ॥ ९४ ॥
तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् ।
वक्तुमर्थं स्ववाचास्य सहोक्तिः साम्यदृष्टये ॥ ९५ ॥
उदाहरणमप्यत्र सदृशं तेन वर्णितम्¹ ।
प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ॥ ९६ ॥
किञ्च—वक्तुरात्मनोऽप्रमाणत्वे प्रामाण्यनिमित्ताभावात् वचनप्रामाण्यं
न प्रवर्त्तते । न ह्यसत्यार्थेन वचनेन परः प्रतिपादयितुं शक्यते; विसंवादना-
श्रयस्य वचनादर्थापत्तेः । ततो यथा प्रतिपादयितुः प्रामाण्य एव सति वचनं
प्रवर्त्तते, तथा शास्त्रसिद्धेऽर्थे तस्य शास्त्रप्रामाण्यस्यानाश्रयेण न विचारः
प्रवर्त्तते । प्रमाणविषयो लब्धः साक्षादस्यैव प्रमाणस्य शास्त्रस्यात्यन्तपरोक्षार्थे
विचारः प्रस्तूयते प्रेक्षैः, नान्यस्य । ततः शास्त्रस्ववचनयोः प्रामाण्येऽभ्युपगतेऽपि
साम्यमुक्तम् ॥ ९४ ॥
साम्यमेव पुनः किमर्थमुपदर्शितम् ? इत्याह—हि यस्मात् तत्प्रस्तावस्य विचार-
प्रक्रमस्याश्रयत्वेऽधिकरणत्वे सति शास्त्रं सिद्धे धर्मिणि शास्त्रं प्रतिज्ञार्थविरुद्ध-
बाधकम्, न वस्तुबलप्रवृत्तानुमानमित्यमुमर्थं वक्तुमस्य शास्त्रस्य स्ववाचा
साम्यस्य दृष्टये दर्शनार्थं सहोक्तिरनयोरभ्युपायतानिर्देशे । स्ववचनमपि
ह्युच्चारणसामर्थ्यादुपगतप्रामाण्यं सिद्धे धर्मिणि विचारप्रक्रमे प्रतिज्ञार्थविषयबाधकं
बाधकं दृष्टम्, न वस्तुबलप्रवृत्तानुमानेन—इदमनयोः साम्यदर्शनप्रयोजनम् ॥९५॥
अत्र शास्त्रवचनयोः व्याघातेनाचार्येणोदाहरणमपि सदृशमभिन्नं वर्णि-
तम्, यथा—'न सन्ति प्रमाणानि प्रमेयार्थानि' इति । कथं पुनरत्र शास्त्रार्थस्व-
वचनाभ्यां व्याघातः ? इत्याह—प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ।
अनुपपत्तेः प्रमाणसम्भवे हि शास्त्रवचनयोः परप्रतिपादनार्थमुक्तिर्युक्ता । तस्मा-
दुच्चारणसामर्थ्यादभ्युपगतप्रामाण्यात् प्रयोगवचनादेव प्रमाणाभावप्रतिज्ञा बाध्यते
॥ ९६ ॥
१. दर्शितम् — पाठ० ।

३९४ प्रमाणवार्त्तिके [ पक्षलक्षण-
स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे ।
दिङ्मात्रदर्शनम्, तत्र प्रेत्यधर्मोऽसुखप्रदः ॥ ९७ ॥
शास्त्रिणोऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि ।
न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥ ९८ ॥
यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् ।
तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥ ९९ ॥
एतच्चोदाहरणम् स्ववाग्विरोधे स्ववचनव्याहतौ विस्पष्टम् । तथा हि—
प्रमाणाभावप्रतिज्ञावचनोच्चारणसामर्थ्याभ्युपगतप्रामाण्येन वचनेनैव बाध्यते ।
आगमे शास्त्रे पुनरुदाहरणस्य दिङ्मात्रदर्शनमुपलक्षणमात्रमेतत्, न तु मुख्य-
मुदाहरणम्; प्रमाणस्य धर्मिण आगमसिद्धत्वाभावात् । इदं पुनर्मुख्यमुदाहरणम्—
आगमे प्रेत्य परलोके धर्मोऽसुखप्रदः; आगमसिद्धे धर्मिणि धर्मे सामान्येऽ-
सुखप्रदत्वस्य विशेषस्य सुखप्रदत्वेन विरुद्धेनागमसिद्धेन बाधनात् ॥ ९७ ॥
किन्तु शास्त्रिणोऽभ्युपगतशास्त्रस्यातदालम्बे शास्त्रासिद्धे प्रमाणसिद्धे
वस्तुनि धर्मिणि शास्त्रप्रतिज्ञाविरुद्धस्य धर्मस्योक्तौ न सा बाधा । यथा
मीमांसकस्य गृहीतशास्त्रस्य प्रत्यक्षसिद्धे शब्दे धर्मिणि कृतकत्पादनित्यत्वो-
क्तावपि शास्त्रप्रतिज्ञातेन नित्यत्वेन न बाधा । यदि बाधा, किं तर्हि भवति ?
इत्याह—प्रतिबन्धः स्यात् । कस्माद् ? इत्याह—तयोः तुल्यकक्षत्वात् ।
समबलत्वात् । यथा 'माता मे बन्ध्या च' इति स्ववाचि तुल्यकक्षत्वात्
पदयोः परस्परं प्रतिबन्धः ॥ ९८ ॥
ननु स्ववचनयोस्तुल्यकक्षत्वाद् युक्तः प्रतिबन्धः, आगमस्ववचनयोस्तुल्य-
बलतैव कथम् ? इत्याह—तच्च शास्त्रं नित्यत्वप्रतिज्ञातस्य वादिनः तदा प्रसिद्धे
धर्मिणि शास्त्रविरुद्धप्रतिज्ञासमये स्वोपगमस्वीकृतप्रमाणत्वात् स्ववचनात्मकं
जातं वचनं.शास्त्रं च स्वयमभ्युपगतप्रामाण्ययुक्तं तुल्यकक्षम्, यथा स्ववाचि
'माता मे बन्ध्या' इति वचनमात्रयोः प्रतिबन्धोऽन्योन्यं तयोः शास्त्रवचनयो-
र्विरुद्धार्थाभिधायिनोर्मध्ये यस्य प्रमाणमनुवर्त्तकमस्ति तत् प्रमाणवत
अन्यस्याप्रमाणकस्य बाधकं भवति, यथा—अनित्यत्वं नित्यस्य शब्दे ॥९९॥

विचारः ] परार्थानुमानपरिच्छेदः ३९५
प्रतिज्ञामनुमानं वा प्रतिज्ञाऽपेतयुक्तिका ।
तुल्यकक्षा यथार्थं वा बाधेत कथमन्यथा ॥ १०० ॥
प्रामाण्यमागमानां च प्रागेव विनिवारितम् ।
अभ्युपायविचारेषु तस्माद् दोषोऽयमिष्यते १ ॥ १०१ ॥
तस्माद् विषयभेदस्य दर्शनार्थं पृथक् कृतः ।
अनुमानाबहिर्भूतोऽप्यभ्युपायः प्रबाधनात् ॥ १०२ ॥
अन्यथाऽतिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः ।
अन्यथा यदि प्रमाणसिद्धे धर्मिणि प्रमाणाननुगृहीतयोः परस्परं बाधा ।
प्रमाणाभावे केनेतरस्य नाबाधेतीष्यते, तदा प्रतिज्ञाविपरीता शास्त्रवचनाख्याऽ-
पेतयुक्तिका प्रतिज्ञा प्रामाण्याभ्युपगमात् तुल्यकक्षा सती कथं बाधेत !
यथा शब्दे नित्यत्वप्रतिज्ञा शास्त्रोक्ता अनित्यत्वप्रतिज्ञां विद्यमानमनुमानं वा
यथार्थं वस्तुभूतकृतकत्वलिङ्गसमुत्थं नित्यत्वप्रतिज्ञया कथं बाधितं स्याद्;
अनित्यत्वात् ॥ १०० ॥
तस्मात् कार्यलिङ्गत्वादनुमानादबहिर्भूतोऽप्यभ्युपायो विषयस्य भेदो
नानात्वं तद्दर्शनार्थमनुमानात् पृथक् कृतः । अनुमानं सर्वत्र बाधकम्, शास्त्रं तु
शास्त्राश्रये धर्मिणीति बाधकत्वविषयभेदोपदर्शनं पृथक्करणफलम् । कथं ज्ञायते-
अनुमानाबहिर्भूतं शास्त्रम् ? इत्याह — स्वसिद्धे धर्मिणि स्वोपगमविरुद्धस्य
धर्मस्य प्रबाधनात् न ह्यप्रमाणं बाधकम् । प्रमाणं चाप्रत्यक्षत्वात् अनुमानमेव ॥
१०१-१०२ ॥
अन्यथा यदि विषयभेदोपदर्शनफलं पृथक्करणं नेष्यते, तदा प्रभेद-
दर्शनार्थं वक्तव्यम् । तथा च कार्यस्वभावानुपलम्भानां प्रभेदो यावत्सम्भवं वाच्य
इत्यतिप्रसङ्गः स्यात् ।
अथ सदपि भेदान्तरं नोच्यते, तदाऽनुमानाच्छास्त्रस्य पृथक्कृतेर्व्यर्थता
वा स्यात्; प्रभेदवचनस्याविवक्षितत्वात् सामान्यवचनस्यानुमानेनैव सिद्धत्वात् ।
यदि विषयभेदोपदर्शनार्थमनुमानात् पृथग्वचनं शास्त्रस्य, तदाभ्युपगमात् स्ववचन-
१. अस्याः कारिकाया वृत्तिर्नोपलब्धा ।