प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 402, कुल 532 में से
संदर्भ में पढ़ें३७६ प्रमाणवार्त्तिके [ पक्षलक्षण-
वाच्यशून्यं प्रलपतां तदेतज्जाड्यवर्णितम् ॥ ३५ ॥
तुल्यं नाशेऽपि चेच्छब्दघटभेदेन कल्पने ।
न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः ॥ ३६ ॥
तथार्थान्तरभावे स्यात् तद्वान् कुम्भोऽप्य-
नित्यता ।
विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात् ॥ ३७ ॥
स्वरूपेणैवान्यतरसद्वितीयः, देहं तु नाभिव्यक्तचैतन्यलक्षणपुरुषमिच्छति प्रति-
वादीति भेदाभावात् तेनापि नान्यतरसद्वितीयत्वसिद्धिः ।
यतश्च न घटस्य स्वरूपेणैव सद्वितीयत्वसम्भवः, भेदाधिष्ठानत्वात् तस्य,
नापि देहेनान्वयाभावात् ; ततो वाच्यशून्यत्वमर्थशून्यत्वमन्यतरसद्वितीयत्वं
प्रलपतां परलोकापवादिनां तदेतदन्यतरसद्वितीयत्वसाध्यवचनं जाड्यस्य
वर्णितं चेष्टितम् ॥ ३४-३५ ॥
नाशेऽपि साध्ये शब्दघटयोः साध्यदृष्टान्तधर्मिणोः सम्बन्धितया भेदेन
कल्पने शब्दसम्बन्धिनो नाशस्य घटेऽन्वयाभावादसाध्यत्वम्, घटसम्बन्धिनश्च
शब्देऽसम्भवादसाध्यतेति तुल्यमिदमिति चेत् ? न तुल्यम् ; विनाशेन प्रध्वंस-
लक्षणेन सिद्धेन निश्चितेन ध्वनेस्तद्वतो विनाशवतः साधनाद् विनाशसामान्यं
साध्यं सिद्धं केवलम्, तद्वत्ता शब्दस्य न सिद्धेति साध्यते ॥ ३६ ॥
यथा विनाशे सामान्येन सिद्धे सत्यसिद्धस्तद्वान् शब्दः साध्यते, तथा
अर्थान्तरभावेऽभिव्यक्तचैतन्यस्वभावतया देहस्य घटाद् वैजात्ये सिद्धे सति
तद्वान् कुम्भोऽपि सिध्येत् । न चैतत् प्रतिवादी बोधयितुं शक्यते; तेना-
चैतन्यस्य भूतव्यतिरिक्तस्यैव स्वीकारात् । यदि पुनरचेतनस्वभावतया घटजाती-
येनैव देहेन सद्वितीयत्वं घटस्य साध्यते, तदा सिध्यत्येव; तथाविधस्य सद्विती-
यत्वस्य सिद्धत्वाद् विनाशवत् । किन्तु वादिनो नेष्टसिद्धिः; देहस्य चेतनस्वभाव-
तयाऽसिद्धेः ।
अथ ध्वनिना स्वसम्बन्धितया विशिष्टाऽनित्यता दृष्टान्तं नान्वेतीति
चेत् ? नानन्वयदोषः; विशेषणेनायोगस्यासम्बन्धस्य वारणात् ॥ ३७ ॥