प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 408, कुल 532 में से
संदर्भ में पढ़ें३८२ प्रमाणवार्त्तिके [ शब्दाप्रामाण्य-
रिक्तस्य जन्तोर्जातस्य गुणदोषमपश्यतः ।
विलब्धा बत केनामी सिद्धान्तविषमग्रहाः ॥ ५४ ॥
यदि साधन एकत्र सर्वं शास्त्रं निदर्शने ।
दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥ ५५ ॥
असम्बद्धस्य धर्मस्य किमसिद्धौ न सिध्यति ।
हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥ ५६ ॥
धर्माननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान् ।
वाग्धूमादेर्जनोऽन्वेति चैतन्यदहनादिकम् ॥ ५७ ॥
न च कस्यचित् सिद्धान्तसम्बन्धो युक्तः । तथा हि—सम्बन्धो भवन्
सहजो वा भवेद्, औपाधिको वा, द्वयमपि निषेद्धुमाह—रिक्तस्य तुच्छस्य
सिद्धान्तरहितस्य जन्तोर्जातस्यानेन सहजसम्बन्धाभावनिमित्तमुक्तम् । गुणदोषं
प्रामाण्याप्रामाण्यनिबन्धनमपश्यतः । अनेनौपाधिकसम्बन्धनिमित्ताभावः उक्तः ।
केनानर्थपटीयसा सिद्धान्ता एव विषमग्रहा दुष्परिहारत्वादिमे विलब्धा
बत, येषु स्वामित्वेन जन्तवो व्यवहरन्ति ! न हि कर्णनासमिव सिद्धान्तः
प्राणिसहजः । नापि दोषोजितगुणोपपन्नः प्रमाणमिव विचारात् प्राक् सिद्धान्तः
सिद्धः, येन समर्थविषयः स्यात् ॥ ५४ ॥
किञ्च—यदि साधन एकत्र सर्वं शास्त्रं शास्त्रार्थं निदर्शने दृष्टान्ते
वादी दर्शयेत्, तदा तत् साधनं स्यात्, न त्वेकस्य शास्त्रदर्शितधर्मस्यान्वये ।
एतच्च न क्वचित् साधने कर्तुं शक्यमिति लोकातिक्रान्ता स्थितिरैषा ॥५५॥
अपि च—असम्बद्धस्य साधयितुमप्रवृत्तस्य धर्मस्याकाशगुणत्वादेः कृत-
कत्वाद्धेतोर्विपर्यासादसिद्धौ सत्यां सिसाधयिषितं हेतुव्यापकमनित्यत्वं किं न
सिध्यति ! न हि व्यापकमन्तरेण व्याप्यं भवति । हेतुस्तस्य व्यापकस्य
साधनायोक्तः किं दुष्टः, तत्र स्वसाध्ये सिध्यति साध्यप्रतिपादनम् । साध्य-
व्यापारस्तच्चेदस्ति कथं दुष्टः ! ॥ ५६ ॥
शास्त्रार्थबाधनेऽभिमतस्यापि न सिद्धिरिति चेत् ? आह—धर्मिणो धर्मान्
शास्त्रदर्शितानखिलान् हेतुव्यापकत्वेनानुपनीयाप्रदर्श्य वाग्धूमादेर्हेतोश्चैतन्य-