सामग्री पर जाएँ
सर्वकोश
प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

पृष्ठ 405, कुल 532 में से

संदर्भ में पढ़ें
पृष्ठ 405

विचारः ] परार्थानुमानपरिच्छेदः ३७९
हेतुर्विरुद्धोऽप्रकृतेर्नो चेदन्यत्र सा समा ॥ ४४ ॥
अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् ।
अथ वादीष्टतां ब्रूयाद् धर्मिधर्मादिसाधनैः ॥ ४५ ॥
कैश्चित् प्रकरणैरिच्छा भवेत् सा गम्यते च तैः ।
बलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ ४६ ॥
वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते ।
हेतुः प्रयत्नानन्तरीयकत्वादिर्विरुद्धः स्यात् । प्रतिज्ञा विरुद्धा स्यात् । उपात्तो हेतुः
वादिनानिष्टं शास्त्रेष्टं बाधत इत्येव यदि विरुद्धः, तदा गन्धभूगुणतां बाधमानस्य
कृतकत्वस्य शब्दे विरुद्धता स्यात् ; शास्त्रेष्टबाधकताया अविशेषात् ।
अथ गन्धभूगुणताया साध्यत्वेनाप्रकृतेरप्रस्तुते तद्बाधनेऽपि शब्दे कृतकत्वं
विरुद्धं नो चेत् ? सा प्रकृतिरन्यत्राकाशगुणत्वेऽपि समा । न हि वादिना
आकाशगुणत्वं साधयितुमिष्टम्, किन्त्वनित्यत्वम् । अतोऽप्रकृतस्यास्य बाधने न
विरुद्धः स्याद्धेतुः ॥ ४४ ॥
अथात्राकाशगुणत्वादौ धर्मी शब्द प्रकृतः । तत्र शास्त्रार्थस्याकाश-
गुणत्वादेः साधनम्, तद्बाधने च विरुद्धता हेतोः । भूगुणत्वे तु गन्धो धर्म्यप्रकृत
इति तद्बाधनेऽपि न विरोधः ? नैष परिहारः; तथा हि—न वादीष्टविपर्य्यासेन
दोष उक्तः; किन्तु शास्त्रार्थविरोधेन । तथा च प्रकृतत्वमनुपयुक्तम् ।
अथ वाद्यनिष्टतयाऽप्रकृतत्वं तच्चाकाशगुणत्वयोः समानम् । अथाकाशगुण-
त्वस्य वादीष्टतां परो ब्रूयात् धर्मिधर्मादिसाधनैः । साध्यधर्मिधर्मत्वात्
तदेकदेशत्वाद् वाऽकाशगुणत्वमिष्टं वादिनोऽनित्यत्ववदिति ॥ ४५ ॥
ननु कैश्चित् प्रकरणैर्विवादादिभिरिच्छा वादिनः कस्मिंश्चिद् धर्मे भवेत् ।
तैरेव च प्रकरणैः सा इच्छा गम्यते परेणापि ! न तु तस्य धर्मिणो धर्म इत्येव
वादिनेष्यते । ततो धर्मिधर्मत्वादिसन्दिग्धविपक्षव्यतिरेकित्वात् शेषवत्, स्वय-
मनिच्छतश्च वादिनः साधनस्य बलात् तवेच्छेयमिति यदुच्यते, व्यक्तमिद-
मीश्वरचेष्टितमित्युपहसति ॥ ४६ ॥
किञ्च—तामिच्छामकार्यलिङ्गां कार्येतरलिङ्गामनुमेयत्वेन वदन् परो