सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

विचारः ] स्वार्थानुमानपरिच्छेदः २८७
भेदस्ततोऽयं¹ बौद्धेऽर्थे सामान्यं भेद इत्यपि ।
तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥ ८८ ॥
साध्यसाधनसंकल्पे वस्तुदर्शनहानितः ।
भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥ ८९ ॥
समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथञ्चन ।
भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ॥ ९० ॥
तद्रूपं सर्वतो भिन्नं तथा तत्प्रतिपादिका ।
नोपहताया उपप्लवो मिथ्योपदर्शनम् ॥ ८७ ॥
ततोऽयं विशेषः 'इदं सामान्यम्' इति भेदः, 'इदं साध्यमिदं साधनम्'
इत्यपि भेदो बौद्धे बुद्धिपरिकल्पितेऽर्थे, न वस्तुनि । कथं तर्हि स्वलक्षणे
कृतकत्वादिभेदः ? इत्याह--तस्यैव स्वलक्षणस्यान्यस्मादकृतकादेर्व्यावृत्त्या
तदाश्रयेण धर्मभेदः प्रकल्प्यते ॥ ८८ ॥
कस्मात् कल्पितभेदद्वारेण साध्यसाधनभाव इष्टः, न वस्तुभेदेन ? इत्याह-
साध्यसाधनसङ्कल्पे 'इदं साध्यम्', 'इदं साधनम्' इति विकल्पे क्रियमाणे
वस्तुदर्शनस्य हानितः कल्पित एव भेदः । न खलु विकल्पे वस्तुदर्शनमस्ति;
कल्पितगोचरत्वात् तस्य । आलोचनाज्ञानं वस्तुविषयं न किञ्चित् तद्
विभजति ।
नन्वाचार्यदिङ्नागस्य भेदः सामान्यसंसृष्टो ग्राह्य इष्टः । अत्र "भेदः
सामान्यसंसृष्टः प्रतीयते" इत्यस्मिन् वचने न स्वलक्षणं ग्राह्यतया निर्दिष्टम्,
किन्त्वध्यवसेयतया ॥ ८९ ॥
कस्मादेवम् ? इत्याह-समानभिन्नाद्याकारैः सामान्याकारधर्मिधर्मभेदा-
कारसामानाधिकरण्याद्याकारैश्च तत् स्वलक्षणं कथञ्चन ग्राह्यं न भवति । किं
कारणम् ? इत्याह-भेदानां धर्माणां कृतकत्वादीनां बहुभेदानामनेकप्रकाराणां
तत्र स्वलक्षण एकस्मिन्नयोगतः ॥ ९० ॥
तस्मात् तस्य स्वलक्षणस्य रूपं सर्वतः सजातीयविजातीयाद् भिन्नम् ।
१. ०ततोऽपि-रा० ।

२८८ प्रमाणवार्त्तिके [ सामान्य-
न श्रुतिः कल्पना वास्ति सामान्येनेव वृत्तिः ॥ ९१ ॥
शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः ।
तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न ॥ ९२ ॥
अपि प्रवर्त्तत पुमान् विज्ञायार्थक्रियाक्षमान् ।
तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रियाः¹ ॥ ९३ ॥
तत्रानर्थक्रियायोग्या² जातिस्तद्वानलं² स च ।
साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥ ९४ ॥
तथा तेन सर्वतो भिन्नेन रूपेण तत्प्रतिपादिका श्रुतिः कल्पना वा नास्ति;
सामान्येनैव कल्पितेन रूपेण शब्दविकल्पयोर्वृत्तिः ॥ ९१ ॥
किं पुनः स्वलक्षणमेव शब्दैर्नोच्यते ? इत्याह—शब्दाः संकेतितमर्थ-
माहुः, न यं कञ्चित् । स संकेतो व्यवहाराय स्मृतः । 'संकेतितमर्थं शब्दा-
दुच्चरितात् प्रतिपद्येयम्' इति संकेतग्रहणम् । तदा व्यवहारकाले च स्वलक्षणं
संकेतविषयो नास्ति, तेन तत्र स्वलक्षणे संकेतो न युक्तः ॥ ९२ ॥
एवं तर्हि सामान्ये व्यवहारकालानुयायिनि संकेत: स्याद् ? इत्याह—अपि
प्रवर्त्तत पुमान् शब्दाद् विज्ञायार्थक्रियाक्षमान् तस्या अर्थक्रियायाः
साधनायेति एतदर्थमर्थेषु संयोज्यन्ते संकेत्यन्ते शब्दाः, न व्यसनितया ॥९३॥
तत्रैवं सत्यनर्थक्रियायां योग्याऽर्थक्रियायां³ शक्ता जातिरिति न तत्र
संकेतो युक्तः । तद्वान् जातिमान् विशेषोऽलं शक्तोऽर्थक्रियायामिति तत्र
संकेत इति चेत् ? स विशेषश्च साक्षात् संकेते कस्मान्न योज्यते, किं
जातिव्यवधिस्वीकारेण; अनर्थक्रियाकारित्वादस्याः, स्वलक्षणस्य च विपर्ययात् !
व्यक्तीनामानन्त्यान्न तत्र शक्य इति चेत् ? इदमानन्त्यं समं जातिमद्-
व्यक्तिष्वपि ॥ ९४ ॥
१. ०भिधायकाः—पाठा० ।
२-२. अत्रानर्थक्रियायोग्यो नास्ति तद्वानलं—रा० ।
३. योग्योऽर्थक्रियायां—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २८९
तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः ।
तद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ॥ ९५ ॥
तदन्यपरिहारेण प्रवर्त्ततेति च ध्वनिः ।
उच्यते १ तेन तेभ्योऽस्याऽव्यवच्छेदे १ कथं च सः ॥ ९६ ॥
व्यवच्छेदोऽस्ति चेदस्य नन्वेतावत् प्रयोजनम् ।
शब्दानामिति किं तत्र सामान्येनापरेण वः ॥ ९७ ॥
ज्ञानाद्यर्थक्रियां तांस्तां दृष्ट्वा भेदेऽपि कुर्व्वतः ।
किञ्च—यामर्थक्रियामुद्दिश्य शब्दनियोगस्तत्कारिणामर्थानामतत्कारिभ्यो
यो भेदो व्यवच्छेदः, तदेव साम्यं सामान्यमन्यापोहः, साधारणत्वात् । तत्र किं
संकेतो न कृतः ! सामान्यवदपोहोऽपि साधारणोऽनर्थक्रियाकारी, स्वलक्षणसम्बन्धात्
तदुपलभ्यरूपश्च; तद्दोषस्य जातिमति संकेतविषये आनन्त्यात् संकेताकरणस्य
साम्याच्चेदस्तु दोषः; समानत्वात् । द्वयोरस्य जातिः पराऽलमनुपयुक्ता ।
जातिमभ्युपेत्यापि विजातीयव्यवच्छेदोऽवश्यमाश्रयणीयः । यदि गौरश्वादिभ्यो न
व्यवच्छिन्नः, तदाऽश्व एव स्यात् । यश्चैकस्य व्यवच्छेदः, स सर्वस्य । स एव
सङ्केतविषयोऽस्तु, किं प्रमाणबाधितजातिस्वीकारेण ! अत एव तद्दोषोऽपि न
सम्भवति । अभ्युपगम्य तु साम्प्रतमापादितम् ॥ ९५ ॥
किञ्च—तस्मादेकार्थक्रियाकारिणोऽन्यस्य परिहारेण शब्दात् प्रवर्त्ततेति
ध्वनिच्यते । तेन ध्वनिना तेभ्योऽतत्कारिभ्योऽस्य तत्कारिणोऽव्यवच्छेदे
व्यवच्छेदेऽक्रियमाणे कथं स श्रोता प्रतिनियतपदार्थार्थी प्रवर्त्तेत; विषयानभि-
धानात् ॥ ९६ ॥
अथ शब्दैरन्यव्यवच्छेदः क्रियत एव, प्रवृत्तिविषयस्तु जातिरुच्यते ? इत्याह—
अस्य जातिमतो व्यवच्छेदोऽस्ति चेत् ? नन्वेतावदन्यव्यवच्छेदेन प्रवर्त्तनं
शब्दानां प्रयोजनमिष्टमिति सामान्येनापरेण किं कार्यं वः; तदन्तरेण च
शब्दादन्यव्यवच्छेदाभिधानेऽपि प्रवृत्तिसम्भवात् ॥ ९७ ॥
यदि नास्ति जातिः, तदा भिन्नस्वभावेषु भावेषु 'स एवायं गौः' इत्यादि प्रत्य-
१-१. तेन तेभ्योऽव्यवच्छेदे प्रवर्त्तेत—रा० ।
प्र० वा० : १९

२९० प्रमाणवार्त्तिके [ सामान्य-
अर्थांस्तदन्यविश्लेषविषयैर्ध्वनिभिः सह ॥ ९८ ॥
संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने १।
परस्यापि न सा बुद्धिः सामान्यादेव केवलात् । ९९ ॥
नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः ।
तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वतः ॥ १०० ॥
तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम् ? ।
एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम् ॥ १०१ ॥
तदेकं वस्तु किं तासां नानात्वं समपोहति ।
नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥ १०२ ॥
भिज्ञानं न स्याद् ? इत्याह-ज्ञानमादिर्यस्या बाह्यार्थक्रियायास्तामेकाकारपरामर्श-
विषया भेदपि नानात्वेऽपि कुर्वतोऽर्थान् दृष्ट्वा तदन्यस्माद् यो विश्लेषः स
विषयो येषां तैर्ध्वनिभिः सह संयोज्य 'स एवायं गौः' इत्यादिप्रत्यभिज्ञानं
पूर्वदृष्टादर्थाद् विलक्षणस्य दर्शनेऽपि कुर्यात्, तदन्यविश्लेषस्य सर्वत्र साम्याद् ।
किञ्च-यदि नानात्वात् प्रत्यभिज्ञानमयुक्तम्, तदा परस्यापि न सा
प्रत्यभिज्ञा बुद्धिः सामान्यादेव केवलादिष्ट्टा, किन्तु सामान्यविशे-
षाभ्याम् ॥ ९८-९९ ॥
कस्माद् ? इत्याह-नित्यतया तस्य सामान्यमात्रस्य विज्ञाने व्यक्त्य-
ज्ञानप्रसङ्गतः ।
यदा सामान्यज्ञानस्य न विशेषो विषयः, तदा कदाचिदगृहीतस्य सम्ब-
द्धस्य सामान्येन तद्वतो विशेषस्य तद्वत्तानिश्चयः 'इदमस्य सामान्यम्' इति
ज्ञानं न स्यात् । ततस्तद्वत्ताव्यवहारः कथं तन्मते !
एकं वस्तु सामान्यं तत्सहायाश्चेद् व्यक्तयो ज्ञानस्य प्रत्यभिज्ञानस्य
कारणमिष्यन्ते ? तदेकं सामान्यं वस्तु किं तासां व्यक्तीनाममिश्रस्वभावानां
नानात्वं समपोहति, येन प्रत्यभिज्ञानहेतुत्वे नानात्वाच्चैकस्य प्रत्यभिज्ञा-
ज्ञानस्य हेतुता तासु त्वया नेष्यते ! तच्चेत्, तथैव न स्यात् प्रत्यभि-
१. पूर्वदृष्टान्यदर्शने-रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २९१
अनेकमपि यद्येकमपेक्ष्याभिन्नबुद्धिकृत् ।
ताभिर्विनापि प्रत्येकं क्रियमाणां धियं प्रति ॥ १०३ ॥
तेनैकेनापि सामर्थ्यं¹ तासां नेत्यग्रहो धिया ।
नीलादेर्नेत्रविज्ञाने पृथक् सामर्थ्यदर्शनात् ॥ १०४ ॥
शक्तिसिद्धिः समूहेऽपि नैवं व्यक्तेः कथञ्चन ।
तासामन्यतमापेक्ष्यं तच्चेच्छक्तं न केवलम् ॥ १०५ ॥
तदेकमुपकुर्युस्ताः कथमेकां धियं च न ।
कार्यञ्च² तासां प्राप्तोऽसौ जननं यदुपक्रिया ॥ १०६ ॥
ज्ञानम् ॥ १००-१०२ ॥
अनेकमपि व्यक्तिरूपं यद्येकं सामान्यमपेक्ष्याभिन्नबुद्धिकृत् प्रत्यभि-
ज्ञानकारीष्यते ? ताभिर्व्यक्तिभिः प्रत्येकं विनैकैकया प्रेरितेन सामान्येनैकेन क्रिय-
माणां धियं प्रत्यभिज्ञां प्रति तासां व्यक्तीनां सामर्थ्यं नेति तया धिया
तासामग्रहः । केवलं सामान्यग्रहणे च तद्वत्ता निश्चयो न स्यादिति
दुःपरिहरम् ॥ १०३ ॥
ननु यथा नीलादीनामेकैकापायेऽपि चक्षुर्विज्ञानं दृष्टं तत्समुदायेऽपि दृश्यते,
एवं यद्यपि प्रत्येकं व्यक्तीनां व्यभिचारः, तथापि यदा सत्त्वं तदा विषयत्वम् ?
इत्याह-नीलादेर्नेत्रविज्ञाने कार्ये; पृथक् प्रत्येकं सामर्थ्यदर्शनात् ॥१०४॥
शक्तिसिद्धिः समूहेऽपि युक्ता । एवं व्यक्तेर्न प्रत्यभिज्ञानजनने
सामर्थ्यं कथञ्चन दृष्टम्, येन समुदायेऽपि सामर्थ्यकल्पना स्यात् ।
तासां व्यक्तीनामन्यतमापेक्ष्यं तत् सामान्यं प्रत्यभिज्ञाने शक्तं न
केवलमिति चेत् ? ॥ १०५ ॥
तत् सामान्यमेकं कथं ता व्यक्तय उपकुर्युः । न त्वेकां धियमनुपक्रिय-
माणस्य समवेतत्वेऽतिप्रसङ्गाद् व्यक्तिभिः सामान्यमुपकर्त्तव्यम् । तथा धीरप्ये-
कोपकर्त्तव्या । यच्च सामान्यादिरुपक्रियते व्यक्तिभिः कार्यञ्च तासां प्राप्तोऽसौ
यद्यस्मादुपक्रिया जननमेव । न ह्युपक्रियमाणादन्यस्मिन्नुपकाराख्ये वस्तुनि
१. सामान्यात्—रा० । २. कार्यञ्च—सर्वत्र ।

२९२ प्रमाणवार्त्तिके [ सामान्य-
अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम् ।
प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात् ॥ १०७ ॥
कथं ता भिन्नधीग्राह्याः समाश्चेदेककार्यता ।
सादृश्यं ननु धीः कार्यं तासां सा च विभिद्यते ॥ १०८ ॥
एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी ।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥ १०९ ॥
सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिनः ।
अदृष्टेः प्रतिषेधाच्च संकेतस्तद्भिदर्थिकः ॥ ११० ॥
कृतेऽपि तस्य किञ्चित् ! तत्सम्बन्धाच्चेत् ? सम्बन्धो भिन्न एवेति किं तस्य
जातम् ! अभिन्ने तूपकारे स एव कृतः स्यात् । तथाजननमेवोपकारः ॥१०६॥
एकसामान्याभावेऽभिन्नप्रतिभासा एकाकारा धीर्न भिन्नेष्विति
चेन्मतम् ? ननु प्रतिभासो धिया भिन्नः, नैकाकारः, समाना इमा इति ता-
सां व्यक्तीनां ग्रहात् । न हि भूतकण्ठगुणवदेकं सामान्यं सर्वानुयायि व्यक्ति-
व्यतिरिक्तं प्रतिभाति, किन्तु 'गौर्गौः' इति सामान्यमवसीयते । तच्च भेदा-
धिष्ठानमेव ॥ १०७.॥
ननु समाश्चेद् व्यक्तयोऽव्यवसीयन्ते, कथं ता भिन्नधीग्राह्याः !
न खलु समत्वमेकत्वम्, किन्त्वेककार्यता सादृश्यम् । न हि 'स एवायं तदन्न
वा' इति निश्चयः, अपि तु 'अयम् अपि गौः' इत्यध्यवसायः । तथा चैकार्थक्रिया-
कारित्वमेव सादृश्यम् । ननु धीः कार्यं तासां व्यक्तीनाम्, सा च प्रतिव्यक्ति
भिद्यते, तत् कथमेकार्थक्रियाकारित्वं सादृश्यम् ? ॥१०८॥
अत आह—यद्यपि प्रतिव्यक्ति भिन्ना, तथाप्येकप्रत्यवमर्शस्य हेतुत्वाद्
धीरभेदिन्येकाऽभिधीयते । तथाविधायाश्चैकस्या धियो हेतुभावेन व्यक्ती-
नामभिन्नतोच्यते ॥ १०९ ॥
सा चाभिन्नताऽतत्कार्येभ्यः पदार्थेभ्यो विश्लेषो व्यवच्छेदस्तत्कारिणां
वस्तुभूतजातिरेव किं नेष्यते ? इत्याह—ततो व्यवच्छेदादन्यस्यानुवर्तिनः
सामान्यस्य वस्तुसतोऽदृष्टेः स्वभावानुपलब्ध्या प्रतिषेधाच्च । ततश्च संकेतस्त-

विचारः ] स्वार्थानुमानपरिच्छेदः २९३
अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः ।
अकार्यकृतितत्कारितुल्यरूपावभासिनीम् ॥ १११ ॥
धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम् ।
जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः ॥ ११२ ॥
वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता ।
ततोऽन्यापोहविषया तत्कर्त्राश्रितभावतः ॥ ११३ ॥
अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् ।
अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः ॥ ११४ ॥
द्विदर्थिकस्तस्य व्यवच्छेदस्य विदर्थो यस्यास्ति स तथा ॥ ११० ॥
संकेतश्चातत्कारिविवेकेन प्रवृत्त्यर्थतया प्रवृत्तिप्रयोजनत्वेन कृतः ।
ततश्च श्रुतिरपि धियं जनयन्त्यर्थेन विसंवादिकेति सम्बन्धनीयम् ॥ १११ ॥
कीदृशीं धियम् ? स्वाकारेऽकार्यकृति कार्यकारणासमर्थे तत्कारितुल्य-
रूपावभासिनीमेकार्थक्रियाकारिसर्ववस्तुसाधारणरूपाध्यवसायिनीम् । वस्तु-
नस्तत्कारिणोऽतत्कारिभ्यश्च पृथग्भाव एव केवलः स बीजं कारणं यस्यास्ता-
मनर्थिकामर्थशून्यां परमार्थतः ।
कथमविसंवादिका तर्हि सा ? इत्याह—अतत्कारिणां विजातीयानां
परिहारस्याङ्गभावतः कारणत्वात् तद्व्यवच्छेदस्य विषयत्वात् तत्र प्रवृत्तिः
॥ ११२ ॥
वस्तुभेदाश्रयाच्च वस्तुविषयस्य परम्परया हेतुत्वात् तत्र प्रवर्त्तयन्ती श्रुति-
रर्थे न विसंवादिका मता । ततोऽन्यापोहविषया; तत्कर्त्राश्रितभावतः
तत्कार्यकर्तृवस्त्वाश्रितत्वात् ॥ ११३ ॥
ननु संकेतकालेऽवृक्षव्यतिरेकेण वृक्षार्थस्य ग्रहणे द्वयमन्योन्याश्रयं
वृक्षोऽवृक्षश्वान्यापेक्ष इत्येकस्य वृक्षस्यावृक्षस्य चानवस्थितत्वाद् ग्रहाभावे
द्वयाग्रहः प्राप्तः । निश्चिते हि वृक्षे तदभावः शक्यो निश्चेतुम्, अवृक्षत्वे च
निश्चिते वृक्षो निश्चेय इत्येकानिश्चयाद् द्वयानिश्चयः ॥ ११४ ॥

३९४ प्रमाणवार्त्तिके [ सामान्य-
सङ्केतासम्भवस्तस्मादिति केचित् प्रचक्षते ।
तेषामवृक्षास्संकेते व्यवच्छिन्ना न वा;
यदि ॥ ११५ ॥
व्यवच्छिन्नाः, कथं ज्ञाताः प्राग्वृक्षग्रहणादृते ।
अनिराकरणे तेषां संकेते व्यवहारिणाम् ॥ ११६ ॥
न स्यात् तत्परिहारेण प्रवृत्तिर्वृक्षभेदवत् ।
अविधाय निषिध्यान्यत् प्रदर्श्यैकं पुरः स्थितम् ॥ ११७ ॥
वृक्षोऽयमिति संकेत: क्रियते तत् प्रपद्यते ।
व्यवहारेऽपि तेनायमदोष इति चेत्;
तरुः ॥ ११८ ॥
अयमप्ययमेवेति प्रसङ्गो न निवर्त्तते ।
एकप्रत्यवमर्शाख्ये ज्ञाने;
संकेतासम्भवस्तस्मादिति केचित् जैमिनीयाः प्रचक्षते । तेषामेवं-
वादिनां जातावपि संकेते क्रियमाणेऽवृक्षा व्यवच्छिन्नाः ? न वा ? यदि
व्यवच्छिन्ना इष्यन्ते, कथं संकेतात् प्राक् ज्ञाता वृक्षग्रहणादृते संकेताद्
वृक्षस्याज्ञातत्वात् अवृक्षाः कथं ज्ञाताः । अथ न व्यवच्छिन्नाः, तदाऽनिराकरणे
तेषां संकेते व्यवहारिणां व्यवहारकाले तेषामवृक्षाणां परिहारेण न स्यात्
प्रवृत्तिः, वृक्षभेदवद् । यथा वृक्षविशेषाणां वृक्षसंकेतेऽव्यवच्छिन्नत्वात् प्रवृत्ति-
विषयत्वम्, एवमवृक्षाणामपि स्यात् ।
नन्वेकं शाखादिमन्तं पुरःस्थितं प्रदर्श्य तस्मादन्यदविधाय निषिध्य
च, वृक्षोऽयमिति च संकेत: क्रियते वस्तुसामान्यादिभिः, तत् संकेत-
विषयं सामान्यं तत्सम्बन्धिबाह्यलक्षणं व्यवहारे प्रपद्यते, तेनायमनन्तरोक्त-
दोषो न भवतीति चेत् ?
अत्र चायमपि शाखादिमाँस्तरुरयमेव तरुरिति पूर्वकोऽवृक्षाव्यवच्छेद-
प्रसङ्गो न निवर्त्तते, अत्र चोक्त एव दोष इति द्वयोरप्येकाग्रहात् द्वयासम्भवात्
संकेतासम्भवः समानः । इदानीं परिहर्तुमाह—एकप्रत्यवमर्शाख्ये ज्ञाने

विचारः ] स्वार्थानुमानपरिच्छेदः २६५
एकत्र हि स्थितः ॥ ११९ ॥
प्रपत्ता¹ तदतद्धेतूनर्थान् विभजते स्वयम् ।
तद्बुद्धिवर्तिनो भावान् भातो² हेतुतया धियः ॥ १२० ॥
अहेतुरूपविकलानेकरूपानिव स्वयम् ।
भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते ॥ १२१ ॥
तं तस्याः प्रतियती³ धीः³ भ्रान्त्यैकं वस्त्ववेक्षते ।
क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन ॥ १२२ ॥
बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् ।
व्यर्थोऽन्यथा प्रयोगः स्यात्;
भेदाविशेषेऽपि केचिदेव भावा एकाकाराध्यवसायहेतवः, नेतरे ।
तत्रैकस्मिन्नेकाकारज्ञानाध्यवसाये स्थितः प्रतिपत्ता पुरुषस्तदतद्धेतून-
र्थान् विभजते स्वयं यानेकाकारपरामर्शविषयबुद्ध्यादिहेतूनध्यवस्यति, याँश्चा-
न्यथा तान् यथाक्रमं तद्धेतूनतद्धेतूंश्च भेदेन व्यवस्थापयति । संकेतात् प्रागेव
तद्बुद्धिवर्त्तिन एकाकारपरामर्शविषयान् भावान् शाखादिमतो धिय एका-
काराया हेतुतया भातः प्रतिभासमानो न हेतोरेकाकारबुद्ध्यकारणस्य शाखा-
दिमत्त्वरहितस्य रूपेण विकलान् परमार्थभिन्नानप्येकरूपानिव स्वयमात्मना
संकेतयिता मन्यमानः प्रतिपाद्योऽपि तानतत्कारिभ्यः शाखादिमत्त्वरहितेभ्यो
भेदेनासङ्करेण प्रतिपद्येतेति उक्तिः शब्दो भेदेऽन्यापोहे नियुज्यते ॥
११९-१२१ ॥
तं भेदं तस्या उक्तेरुच्चारिताया वाच्यतया प्रतियती धीर्विकल्पिका
प्रकृतिभ्रान्त्या एकमिव वस्त्वीक्षते । तस्मात् कुतश्चनाकार्यकारिणोऽर्थाद्
विनिवर्त्य क्वचिदेकार्थक्रियाकारिण्यर्थे बुद्धेर्निवेशनाय शब्दः प्रयुज्यते;
तदर्थस्य शब्दार्थस्यावधारणात् । 'घटेनोदकमानय' इत्यादौ प्रतिपदमवधारण-
मिष्टम् । व्यर्थोऽन्यथा प्रयोगः स्यात् यदि येन केनचिदानयनमिष्टम्, 'उदकमा-
१. प्रतिपत्ता—पाठ० । २. भावो—पाठ० ।
३-३. धीर्विकल्पिका—रा० ।

२९६ प्रमाणवार्त्तिके [ सामान्य-
तज्ज्ञेयादिपदेष्वपि ॥ १२३ ॥
व्यवहारोपनीतेषु व्यवच्छेद्योऽस्ति कश्चन ।
निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य¹ तम्¹ ॥ १२४ ॥
तद्भेदे भिद्यमानानां समानाकारभासिनि ।
स चायमन्यव्यावृत्त्या गम्यते तस्य वस्तुनः ॥ १२५ ॥
कश्चिद् भाग इति प्रोक्तो रूपं नास्यापि किञ्चन ।
तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्तनम् ॥ १२६ ॥
न तत्र गम्यते कश्चिद् विशिष्टः² केनचित्² परः ।
नय' इत्युच्येत; यदि शब्दानां व्यवच्छेदो वाच्यः, तदा ज्ञेयादिपदानां सर्वस्य
ज्ञेयत्वेन व्यवच्छेद्याभावादर्थो न स्याद् ? इत्याह—यस्माद् व्यवच्छेदमन्तरेण न
शब्दप्रयोगः, तत् तस्माज्ज्ञेयादिपदेष्वपि कुतश्चित् प्रकरणाद् व्यवहारोप-
नीतेषु विशेषविषयेषु कश्चन तदितरोऽस्ति, कल्पितो वा ?
यो यस्मादतत्कारिणो भिद्यते, तमतत्कारिणं विनिवर्त्य भिद्यमानानां
तद्भेदेऽतत्कारिभेदे समानाकारभासिनि निवेशनं च शब्दानाम् ।
स चायमन्यव्यवच्छेदः प्रोक्त आचार्येण अन्यव्यावृत्त्याऽन्यव्यावृत्तत्वेन
गम्यते तस्य वस्तुनः कश्चिद् भागो धर्म इत्यर्थवाचकेन "शब्दोऽर्थान्तर-
निवृत्तिविशिष्टानेव भावानाह" इत्यादिना ग्रन्थेन³ । न त्वन्यव्यावृत्तिर्नाम काचि-
दन्या, तद्विशिष्टं च वस्तु वाच्यमिति; किन्त्वाक्षिप्तव्यावृत्तिको धर्म एव
कश्चित् कल्पितभेदो बहिरध्यवसायविषयः शब्दवाच्यः । वस्तुतो रूपं नास्यापि
किञ्चनास्ति ।
शब्देभ्यस्तस्य धर्मस्य नीलादेर्गतावेव गम्यतेऽन्यस्य निवर्त्तनम्;
असङ्करप्रतीतिसामर्थ्यात् ॥ १२५-१२६ ॥
न तत्र शाब्द्यां बुद्धौ कश्चिन्नीलादिः केनचिद् व्यावृत्त्यादिना विशिष्टः
परो गम्यते । न चापि शब्दो द्वयस्य व्यावृत्तिवचनस्य तद्विशिष्टवचनस्य
१-१. तन्निवर्तनात्—रा० । २-२. केनचिद् भेदवान्—रा० ।
३. प्रोक्तो निर्दिष्टो गम्यते इति शेषः ।

विचारः ] स्वार्थानुमानपरिच्छेदः २९७
न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥ १२७ ॥
अरूपो रूपवत्त्वेन दर्शनं बुद्धिविप्लवः ।
तेनैवापरमार्थोऽसावन्यथा न हि वस्तुनः ॥ १२८ ॥
व्यावृत्तिर्वस्तु भवति भेदोऽस्यास्मादितीरणात् ।
एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः ॥ १२९ ॥
मुख्यतः कृत् कर्त्ताऽसङ्कीर्णधर्मं वदन् सामर्थ्यात् व्यावृत्तिं चाह । तदेवाह—
अन्योन्याभाव इति । यस्मात् परस्पराभावरूपः सर्वो धर्मस्तस्मात् तद्वचने
व्यावृत्तिरपि सामर्थ्यादुक्ता ।
यश्चायं भेदोऽसावरूपो रूपवत्त्वेन यत् तद्दर्शनमस्य स बुद्धिविप्लवः ।
तेनैव बुद्धिविप्लवेनापरमार्थोऽसत्योऽसौ भेदः । अन्यथा परमार्थत्वे व्यावृत्ति-
र्वस्तुनो न स्यात् ॥ १२७-१२८ ॥
तच्चायुक्तम् ; न हि वस्तुनो व्यावृत्तिर्वस्तु भवितुमर्हति । अस्मा-
देव वृक्षादस्य वृक्षस्य भेद इतीरणाद् विकल्पनाद् भेदस्य वस्तुत्वे भिद्यमाना
शिंशपैव वा भेदः स्याद् ? वस्त्वन्तरं वा ? न तावच्छिंशपा; धवादेरवृक्षाद् भेदा-
भावप्रसङ्गात् । न हि शिंशपास्वभावलक्षणो भेदो धवादेरस्ति, येन तेऽप्यवृक्षस्य
भेदाः स्युः । सर्वत्र एव हि भिद्यमानाभावास्तदात्मन इति चेत् ? न तर्ह्येको भेद-
स्तत्कारिणामतत्कारिभ्यो यः शब्दवाच्यः । व्यक्तिस्वभावस्य तु भेदस्य संकेता-
विषयत्वादवाच्यतैव ।
अथ वस्त्वन्तरं भेदः ? तदा तस्माद् भेदाख्यानाद् वस्त्वन्तराद् भिद्यमानस्य
शिंशपादेर्भेदो वक्तव्यः; अन्यथा वस्त्वन्तरत्वायोगात् । एवं चावृक्षव्यावृत्तेर्व्यावृत्त-
त्वात् शिंशपादिरवृक्षः कर्कादिवत् । भेदस्य च वृक्षाद् भिन्नत्वं भेदान्तरोपाधिक-
मेवेति द्रव्यान्तरवर्णभेदः स्यात् । न ह्यन्योन्यस्य भेदः; सम्बन्धाभावेनातिप्रसङ्गात् ।
सति सम्बन्धे कार्यकारणभाव एवासौ । ततः सर्वं कार्यं स्वकारणस्य भेदः =
व्यावृत्तिः स्यात् । तस्माद् योऽयं भेदः शब्दव्यवहारविषयोऽनुयायी, स
कल्पितोऽपरमार्थः । स्वस्वभावव्यवस्थितास्तु भावाः पारमार्थिको भेदः ।

२९८ प्रमाणवार्त्तिके [ सामान्य-
लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन ।
यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥ १३० ॥
भवेन्नानाफलः शब्द एकाधारो भवत्यतः ।
विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्त्तते ॥ १३१ ॥
यदान्यत्१; तेन स व्याप्त एकत्वेन च भासते ।
सामानाधिकरण्यं स्यात् तदा बुद्धयनुरोधतः ॥ १३२ ॥
वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः ।
स्यात् सत्यं स२ हि तत्रेति२ नैकवस्त्वभिधायिनि ॥ १३३ ॥
ननु यदि वस्त्वेकरूपम्, तदैकेन शब्देन लिङ्गेन वा वस्तुनि प्रतिपादिते
शब्दप्रमाणान्तरवृत्तिर्न स्यात् ?
एकस्य नित्यत्वादेरर्थस्य श्लेषः सम्बन्धस्तस्य विच्छेदे व्यावृत्तावेको
ध्वनिुर्लिङ्गं वा व्याप्रीयते । तत्र ध्वनौ लिङ्गे वा विच्छिन्नं सर्वतो व्यावृत्तं
न किञ्चन वाच्यमस्ति । एका व्यावृत्तिः शब्देन लिङ्गेन वा प्रतिपाद्यते, न
वस्त्वित्यर्थः ।
यस्य वस्तुनोऽभिधानतो वस्तुसामर्थ्यादखिले कृतकनित्यादिवस्तुरूपे
गतिर्भवेत्, येन शब्दप्रमाणान्तरवैयर्थ्यं स्यात् । अतः शब्दो भूयान्नानाफलो-
ऽनेकधर्मप्रतीतिफल एकाधार एकधर्मिनिष्ठो भवति ।
साध्यसाधनभावादिमाख्याय सामानाधिकरण्यं दर्शयितुमाह—विच्छेदम्-
नीलादिव्यवच्छेदमेकैकं नीलादिशब्दः सूचयन् यदाऽप्रतिक्षिप्यान्यदनुत्पल-
व्यवच्छेदादौ वर्त्तते, तद्वाचकशब्दप्रयोगे सति तेन व्याप्तः शिष्ट एकत्वेन
च भासते; तदा सामानाधिकरण्यं स्यात्, ‘नीलोत्पलम्’ इत्युभयव्यावृत्ति-
विशिष्टैकवस्तुव्यवसायिकाया बुद्धेरनुरोधतः ॥ १२९–१३२ ॥
किञ्च—ध्वनेर्विच्छेदकरणे व्यावृत्तिप्रतिपादकत्वेऽवस्थिते वस्तुधर्मस्य
नीलादेः संस्पर्शः प्रवृत्तिविषयत्वं स्यात् । स विच्छेदो हि यस्मात् तत्र
१. यदान्यं—पाठा० ।
२-२. सति तत्त्वे हि—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः २९९
बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् ।
तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः ॥ १३४ ॥
शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् ।
एकत्वाद् वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥ १३५ ॥
अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ ।
अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः ॥ १३६ ॥
सर्वत्र भावाद् व्यावृत्तेर्नैते दोषा प्रसङ्गिनः ।
एककार्येषु भावेषु¹ तत्कार्यपरिचोदने ॥ १३७ ॥
वस्तुनि सत्यं सन् तस्मात् सूचने तद्वती प्रवृत्तिर्युक्ता । एकं सामान्यं वस्तु
तदभिधायिनि तु ध्वनौ न वस्तुसंस्पर्शः ॥ १३३ ॥
हेतुमाह—बुद्धावभासमानस्य दृश्यस्य सम्मतस्य तस्य स्वभावानुप-
लब्धेरभावनिश्चयात् । न वस्तुनि सत्त्वमिति कथं तत्प्रतिपादिकायाः श्रुतेर्वस्तुनि
वृत्तिः ! तेन व्यवच्छेदस्य वस्तुनि सत्त्वेन सामान्यगोचराश्शब्दाः बुद्धयश्च
कल्पिका अन्यापोहविषया आचार्येण प्रोक्ताः—"अपोहः शब्दलिङ्गाभ्यां प्रति-
पाद्यते” इति ब्रुवता । न तु भूतसामान्यविषयाः; वस्तुन्येषां नीलत्वादीनामनुप-
लब्धिबाधितत्वेनासम्भवात् ।
यदि वाच्यम्, तदैकत्वाद् वस्तुरूपस्य तस्मिन् भिन्नरूपा अनित्यकृत-
कत्वाद्या मतिः कुतः ! एकत्वाद् विषयस्यैकरूपवद् बुद्धिर्युक्ता, विशेषश्च सर्वतो
व्यावृत्त इति तदात्मभूतं सामान्यमपि तथा स्यात् । ततश्चैकस्य सामान्यस्यान्व-
यव्यतिरेकानुवृत्त्यननुवृत्ती एकार्थगोचरौ व्यक्त्यन्तरविषयौ न सम्भवतः । तथा
हि—"सामान्यं व्यक्त्यन्तरानुयायि न व्यक्तिः” इति वदता व्यक्त्यभिन्नात्मनः
सामान्यस्यान्वयव्यतिरेकौ विरुद्धावभ्युपगतौ स्याताम्; तच्चायुक्तम् ।
अथ वा—व्यक्त्यात्मनो व्यक्तिरूपवद् भेदे च सामान्यस्याभेदव्यवहारा
अनिबन्धनाः स्युः; एकस्यानुयायिनोऽभावात् ।
अस्मन्मते तु सर्वत्र व्यक्तिषु भावाद् व्यावृत्तेः सजातीयाद् विजातीयाच्चैते
१. भेदेषु—पाठा० ।

३०० प्रमाणवार्त्तिके [ सामान्य-
गौरवाशक्तिवैफल्याद् भेदाख्यायाः समा श्रुतिः ।
कृता वृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥ १३८ ॥
न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः ।
यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत् ॥ १३९ ॥
अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते ।
अर्थभेदेन च विना शब्दाभेदो न युज्यते ॥ १४० ॥
तस्मात् तत्कार्यताप्येष्टाऽतत्कार्यादेव भिन्नता ।
चक्षुरादौ१ यथा रूपविज्ञानैकफले१ क्वचित् ॥ १४१ ॥
दोषा भिन्नाभासबुद्धिविषयत्वाभावान्वयव्यतिरेकादिविरुद्धधर्माध्यासा अप्रसङ्गिनो
भवन्ति । शब्दविकल्पानां भिन्नभिन्नव्यावृत्तिविषयत्वाद् विजातीयव्यावृत्त्याश्रयेणा-
न्वयबुद्धिविषयत्वात्, सजातीयव्यावृत्त्याश्रयेण व्यतिरेकबुद्धिविषयत्वाच्चेति ।
कस्मात् पुनरन्यव्यावृत्तौ शब्दसंकेतो न स्वलक्षणः ? इत्याह—एककार्ये-
ष्वेकत्वाध्यवसायविषयकार्यकारिषु भावेषु तत्कार्यपरिचोदननिमित्तं प्रति-
व्यक्ति भेदाख्याया भिन्नस्य शब्दस्य योजनेन संकेतक्रियाया व्यक्त्यानन्त्याद्
गौरवाद्, अशक्तेर्वैफल्याच्च समा एका श्रुतिरतत्कार्येभ्यो या वृत्तिस्तन्नि-
बन्धना तदाश्रया वृद्धैः कृता संकेतिता, न भावे स्वलक्षणे ॥१३४-१३८॥
कस्माद् ? इत्याह—सर्वभावानां स्वस्वभावव्यवस्थितेः कारणतः ।
यद्रूपं शाबलेयस्य, बाहुलेयस्य नास्ति तद् रूपम् ॥ १३९ ॥
अतत्कार्येभ्यः परावृत्तिश्च द्वयोः शाबलेयबाहुलेयोरपि विद्यते ।
ततस्तत्रैव संकेत:, न स्वलक्षणे ।
स्वलक्षणान्येव तर्हिभिन्नस्य शब्दस्य वाच्यानि स्युः ? इत्याह—अर्थस्या-
भेदेन च विना शब्दस्याभेदो न युज्यते; अतिप्रसङ्गात् ॥ १४० ॥
एवं तर्हि एककार्यतैव भिन्नशब्दवाच्या स्याद् ? इत्याह—तस्मादर्था-
भेदाच्छब्दाभेदः, कार्यं च प्रतिव्यक्ति भिन्नमिति तत्कार्यताप्येककार्योच्यते,
साऽप्यतत्कार्याद् भिन्नतैव, स चापोहः ।
१-१. चक्षुरादावनेकत्र रूपविज्ञानके—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३०१
अविशेषेण तत्कार्यचोदनासम्भवे सति ।
सकृत् सर्वप्रतीत्यर्थं कश्चित् सांकेतिकीं श्रुतिम् ॥ १४२ ॥
कुर्याद् ऋतेऽपि तद्रूपसामान्याद् व्यतिरेकिणः ।
एकवृत्तेरनेकोऽपि यद्येकश्रुतिमान् भवेत् ॥ १४३ ॥
वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते ।
नित्यस्यानुपकार्यत्वात् नाधारः;
प्रविसर्पतः ॥ १४४ ॥
शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु ।
न सम्भवति साध्यत्र तदभावेऽप्यवस्थितेः ॥ १४५ ॥
अतत्कार्यव्यावृत्तौ संकेतक्रियां द्रढयितुं दृष्टान्तमाह—यथा चक्षुरादा-
वनेकत्र क्वचिद् रूपविज्ञानफले विषयभूतेऽविशेषेण सामान्येन तस्य
चक्षुरादिकार्यस्य कारणवाचकैकशब्दद्वारेण चोदनायाः परेभ्यः प्रकाशनाया-
श्चक्षुरालोकादिष्वेकसामान्याभावेऽपि सम्भवे सति कश्चित् सन्धेयव्यवहाररुचिः
सकृत् सर्वस्य चक्षुरादेः प्रतीत्यर्थं सांकेतिकीं श्रुतिं कुर्यात्, कुतो रूपं
विज्ञानमिति ऋते विनापि तद्रूपाद् रूपविज्ञानजनकात् सामान्याच्चक्षुरादि-
व्यतिरेकिणः !
अथैकस्य सामान्यस्य वृत्तेरनेकोऽपि विषयो यद्येकश्रुतिमान् भवेत्,
तदा को दोषः ? ननु केयं वृत्तिरिष्टा, किमाधेयता ? उत व्यक्तिरभिव्यक्ति-
रिति ? एतद् द्वयमपि तस्मिन् सामान्ये न युज्यते । कथम् ? इत्याह—
नित्यस्यानाधेयातिशयस्याविशिष्टरूपस्य केनचिदनुपकार्यत्वात् नाधारः
कश्चित्, न ह्यनुपकारक आधारः; अतिप्रसङ्गात् ।
ननु बदरस्यानुपकारकमपि कुण्डमाधारः ? इत्याह—बदरादिषु गुरुतया
प्रविसर्पतो विसर्पणात् । प्रतिक्षणमसमानदेशोत्पत्तेः कुण्डादेः सहकारिणः
तद्देशजननं बदरोपादानदेशजननं शक्तिः कारणत्वमाधारता । सापि शक्ति-
लक्षणाधारतात्र सामान्ये न सम्भवति; जन्यत्वाभावात् । सामान्यस्य स्थितिर्

३०२ प्रमाणवार्त्तिके [ सामान्य-
न स्थितिः साप्युक्तैव भेदाभेदविवेचने ।
विज्ञानोत्पत्तियोग्यत्वादात्मन्यन्यानुरोधि यत् ॥ १४६ ॥
तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् ।
प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥ १४७ ॥
सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः ।
कुर्वन् विशेष आधारः स्याद् ? इत्याह--तस्य विशेषस्याभावेऽप्यवस्थितेः ॥
१४१-१४५ ॥
न स्थितिविशेषात् सामान्यस्य स्वरूपातिरिक्ताया स्थितेर्निष्क्रियत्वेना-
भावात् स्वरूपस्थितिः । तच्च प्रत्येकं व्यक्त्यपायेऽप्यस्तीति नासौ ततः । अस्तु वा
स्थितिः, साप्युक्तैव भेदाभेदविवेचने क्रियमाणे । तथा हि--आश्रयहेतुका
स्थितिः सामान्याद्भिन्ना ? अभिन्ना वा स्यात् ? भिन्ना चेत् ; तस्याः कारणत्वा-
दाश्रयः स्यात् । न तु सामान्यस्य स्थितिः; सम्बन्धात् । सामान्यस्यापि चेद्;
भेदे सति कोऽनयोः सम्बन्धः ! न कार्यकारणभावः; स्थितेराश्रयादुत्पत्तेः ।
सामान्यादुत्पत्तौ वा न व्यक्तिराधारः स्यात्; स्थितिहेतुत्वाभावात् । सामान्यं च
नित्यत्वादकार्यमेव । न चान्यः सम्बन्धोऽस्ति; निराकरणात् । एवं गमनप्रतिबन्धा-
दिष्वपि वाच्यम् ।
तदेवं न तावदाधेयता वृत्तिः । व्यक्तिरपि न युक्ता । यत् स्वरूपेण
स्थितमेव सामान्यं स्वविषयविज्ञानोत्पत्तियोग्यत्वादात्मन्यन्यानुरोधि परा-
पेक्षं तद् व्यङ्ग्यमुच्यते । यच्च योग्यतायाः स्वरूपभूतायाः कारकम्, तत्
कारणं मतम् । व्यतिरिक्तयोग्यताकरणे तु न स्यात् सामान्यस्योपलब्धिः;
उपलब्धायोग्यस्वभावत्वात् । योग्यतासम्बन्धेऽप्यनुपलभ्यस्वभावानपायात् तदवस्थो-
ऽनुपलम्भः ।
अथ व्यञ्जकाभिमतैर्विशेषैर्न योग्यता क्रियते, तदा सा प्रागेवास्तीति स्यात् ।
तथा च प्रागेवास्य योग्यत्वे तदपेक्षा व्यञ्जकापेक्षा न युज्यते ॥१४६-१४७॥
तत् तस्मात् सामान्यवतो विशेषस्य सकाशात् सामान्यस्याविकार्यस्य
व्यक्तिरपि कुतः सम्भवति !

विचारः ] स्वार्थानुमानपरिच्छेदः ३०३
अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य¹ च¹ ॥ १४८ ॥
प्रतिपत्तेरभिन्नत्वात्² तद्भावाभावकालयोः ।
व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते ॥ १४९ ॥
प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः ।
व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते ॥ १५० ॥
तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः ।
एकत्र तत्ततोऽन्यत्र³ दर्शनासम्भवात् सतः ॥ १५१ ॥
अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात् ।
अथ न सामान्यस्य संस्काराद् व्यक्तिर्व्यञ्जिका, किन्त्विन्द्रियस्य, अञ्जनवद् ?
इत्याह—अञ्जनादेरिवेन्द्रियस्य न संस्कारो व्यक्तेः सकाशात्; तत्प्रतिपत्ते-
स्तस्या व्यक्तेर्भावाभावकालयोरभिन्नत्वात् । न हि यथेन्द्रियस्याञ्जनसंस्कार-
भावाभावयोरर्थप्रतिपत्तेः स्पष्टास्पष्टलक्षणो विशेषः, तथा व्यक्तिभावाभावकालयोः
सामान्यप्रतीतेः; सर्वदा तुल्याकारत्वात् तस्याः ॥
किञ्च—व्यञ्जकस्य विशेषस्य जातीनां जातिमत्ता यदीष्यते, तदा
गोत्वादिना सामान्येन प्रदीपादिस्तस्य प्रकाशकः तद्वान् सामान्यवान्
प्राप्तः; व्यञ्जकलक्षणत्वात् तद्गतः । तस्मान्न वृत्तिरभिव्यक्तिरपि । तत् कथमेक-
वृत्तेरनेकोऽप्येकशब्दवान् स्यात् !
किञ्च—व्यक्तेरन्या, अथ वाऽनन्या अव्यतिरिक्ता येषां वैशेषिक-
सांख्यादीनां जातिर्विद्यते एवेति मतम्, तेषां मते व्यक्तिष्वपूर्वासु कथं
सामान्यबुद्धयः स्युः ।
तथा हि—अनन्यत्वे एकत्र व्यक्तौ तदात्मनः सतः सामान्यस्यान्यत्र
व्यक्त्यन्तरेऽन्वयाभावात् दर्शनासम्भवात् कथं सामान्यबुद्धिः ! अन्यत्वेऽपि
जातेरनपाश्रयादुक्तयुक्त्याऽश्रयत्वाभावात् न व्यक्तिष्वपूर्वासु तन्निबन्धना
धीः स्यात् ।
१-१. ऽक्षस्य न भवेत्—रा० । २. तत्प्रतिपत्ते०—रा० ।
३. दृष्टस्यान्यत्र—रा० ।

३०४ प्रमाणवार्त्तिके [ सामान्य-
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ॥ १५२ ॥
जहाति पूर्वं नाधारमहो व्यसनसन्ततिः ! ।
अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ॥ १५३ ॥
स्वस्मादचलतः¹ स्थानाद् वृत्तिरित्यतियुक्तिमत्¹ ।
यत्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि न ॥ १५४ ॥
तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ! ।
व्यक्त्यैवैकत्र² सा³ व्यक्ताऽभेदात् सर्वत्रगा यदि³ ॥ १५५ ॥
अपि च—सामान्यं स्वाश्रयगतं वा कल्प्यते ? सर्वगतं वा आकाशादिवत् ?
तत्र प्रथमपक्षं दूषयितुमाह—एकव्यक्तिस्थितं सामान्यं व्यक्त्यन्तरमुत्पद्यमानं
निष्क्रियत्वान्न याति । न तत्र व्यक्त्युत्पत्तिदेशे प्रागासीत्; व्यक्तिमात्र-
निष्ठत्वात् । अस्ति च पश्चादुत्पत्तेः सामान्यम्; सामान्यशून्याया व्यक्तेः स्थित्यनु-
पगमान्न चांशवत् । न हि सामान्यं सावयवम्, येन कचिदेकेनावयवेन समवेतं
सद् अवयवान्तरैरुत्पद्यमानव्यक्तिभिः सम्बध्यते । न च पूर्वोत्पन्नमाधारं
जहाति । उत्पित्सुव्यक्त्यन्तरेण सम्बन्धार्थमन्यत्र स्थितस्यापरसम्बन्धस्तद्देशागमनं
किल न युज्यत इत्यहो व्यसनसन्ततिः स्वाश्रयगतसामान्यवादिनाम् ।
किञ्च—अन्यत्र पूर्वस्थितायां व्यक्तौ वर्तमानस्य सामान्यस्य स्वस्मात्
स्थानादाश्रयादचलतः ततः पूर्वव्यक्तेरन्यत्र स्थाने जन्म यस्य तत्र द्रव्ये
वृत्तिरित्यतियुक्तिमत् । न हि व्यक्त्यन्तरस्थितस्य व्यक्त्यन्तरमनागच्छतस्तेन
सहानुत्पद्यमानस्य च तत्सम्बन्धो युक्तः ।
तथा—यत्र देशेऽसौ शाबलेयादिर्भावो वर्तते, तेन देशेन सामान्यं न
सम्बध्यते; स्वव्यक्तिनिष्ठत्वात् तस्य ॥ १४८–१५४ ॥
तद्देशिनं सामान्यसम्बन्धरहितो देशो यस्य तं विशेषं च व्याप्नोतीति
किमपि महाद्भुतमेतद् दुर्बुद्धिविलपितेषु ।
अथ सर्वत्रगा जातिरिष्यते, तदैकत्रैव देशे व्यक्त्या व्यक्ता सा
१-१. स्वस्थानादचलतोऽन्यत्र वृत्तिरयुक्तिमत्—रा० ।
२. व्यक्त्येवैकत्र—पाठा० । ३-३. व्यक्ताथ सर्वगा जातिरिष्यते—रा० ।

विचारः ] स्वार्थानुमानपरिच्छेदः ३०५
सर्वत्र १ दृश्येताभेदात् सापि न १ व्यक्त्यपेक्षिणी ।
व्यञ्जकस्याप्रतीतौ २ न व्यङ्ग्यं सम्यक् प्रतीयते २ ॥ १५६ ॥
विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः ।
पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः ॥ १५७ ॥
भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्रयात् ।
श्रुत्यन्तरनिमित्तत्वात् स्थित्यभावाच्च ३ कर्मणः ३ ॥ १५८ ॥
जातिः सर्वत्र देशे दृश्येत; अभेदात् । एकव्यक्तिव्यक्तं रूपं सर्वत्र विद्यमानम-
भिन्नमित्युपलब्धिप्रसङ्गः । व्यङ्ग्यव्यञ्जकभावश्चायुक्त इत्युक्तम् ।
भवतु वा, तथापि न सा जातिर्व्यक्त्यपेक्षिणी । तथा हि—
व्यञ्जकस्य प्रदीपादेरप्रतीतौ न व्यङ्ग्यं घटादिः सम्प्रतीयत इति
तावत् स्थितम् । सामान्यतद्वतोः पुनः कस्माद् विपर्यय इष्टः । यदि
व्यक्तिः सामान्यस्य व्यञ्जिका, तदा व्यक्तेर्ग्रहे सामान्यं न गृह्येत । इह तु सामा-
न्यस्य व्यङ्ग्यस्य प्राग्ग्रहणम्, ततस्तद्विशिष्टत्वेन व्यक्तिर्गृह्यत इति किमिष्यते;
व्यञ्जकाग्रहे व्यङ्ग्याग्रहणात् !
किञ्च—यदि सामान्यमेवाभिन्नाभिधानहेतुः, न व्यक्तयः, तदा पाचकादिष्व-
भिन्नेनार्थेन पाचकत्वादिसामान्येन विनैव त्वन्मतेऽपि पाचकादिशब्दः
कथं वाचकः ? ॥ १५७ ॥
प्रत्ययश्चानुयायी, कर्म पचनादि तद्धेतुरिति चेत् ? आह—भेदान्न हेतुः
कर्मादि । कर्मापि प्रतिव्यक्त्येकस्यामपि पौर्वापर्येण भिन्नमेव, तत् कथं व्यक्तिवदे-
कामिधानहेतुः । कर्मसामान्यं हेतुश्चेद् ? आह— अस्य कर्मणो जातिर्नाभिन्नाभि-
धानहेतुः; तस्याः कर्मसंश्रयात् । कर्मणि समवेतत्वात् तत्रैवाभिधानहेतुता
स्यात्, न द्रव्ये ।
अथ कर्मसामान्यं कर्मणि सम्बद्धम् , तच्च द्रव्य इति परम्परया तत्सम्बद्धम् ,
तन्निमित्तः शब्दो द्रव्ये वर्त्तते ? इत्याह—श्रुत्यन्तरस्य पाचकादिशब्दादन्यस्य पाक
१-१. जातिर्दृश्येत सर्वत्र न च सा – पाठा० ।
२-२. व्यञ्जकाप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते—पाठा० ।
३-३. कर्मणो न निमित्तता–रा० ।
प्र० वा० : २०

३०६ प्रमाणवार्त्तिके [ सामान्य-
असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात् १।
अतिप्रसङ्गात्;
कर्मापि नासत्, ज्ञानाभिधानयोः ॥ १५९ ॥
अनैमित्तिकतापत्तेः;
न च शक्तिरनन्वयात् ।
सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत् ॥ १६० ॥
इत्यादिशब्दस्य निमित्तत्वात् कर्मणो द्रव्ये पाचकशब्दवृत्तौ नास्ति निमित्तता
परम्परयापि । तथाऽनित्यत्वात् स्थित्यभावाच्च कर्मणस्तस्मिन्निवृत्ते पाचकादि-
प्रतिपत्तिर्न स्यात् । अपचत्यपि तद्व्यपदेशो दृश्यते ॥ १५८ ॥
नित्यत्वात् कर्मसामान्यस्य पाचकव्यपदेशे हेतुश्चेद् ? आह—असम्ब-
न्धात् । द्रव्येण कर्मसामान्यस्य न सम्बन्धः साक्षात्; तत्रासमवायात् । नापि
परम्परया; कर्मणा तत्समवेतस्य नष्टत्वात् समवायिना सामान्येन सम्बन्धाभावात् ।
न सामान्यं शब्दस्य पाचकादेः कारणान्नायुक्तम्, किन्त्वयुक्तमेव; अति-
प्रसङ्गात् । कर्मत्वस्य सम्बन्धव्यतिरेकेण व्यपदेशहेतुत्वे सर्वत्र तथात्वप्रसङ्गः ।
अपचत्यपि पुरुषेऽतीतानागतं कर्म तद्व्यपदेशनिमित्तमिति चेत् ? आह—
न कर्मासदपि ज्ञानाभिधानयोर्हेतुः; अनैमित्तिकताया आपत्तेः हेतुं विना
भावतोऽहेतुकत्वप्रसङ्गात् । अतीतानागतं च कर्माविद्यमानत्वादसदेव ।
पाकादिनिर्वर्त्तिका शक्तिः पाचकादिव्यपदेशहेतुरिति चेत् ? आह—
शक्तिर्हि द्रव्यादभिन्ना, भिन्ना वा प्रतिपन्ना ? अभिन्ना चेत्, तदा द्रव्यवदनन्वयान्न
चान्वयिनोऽन्वयिशब्दहेतुता । अथ भिन्ना ? तदाऽनुपकारकयोः सम्बन्धानुपपत्ते-
र्द्रव्येणोपक्रियमाणा शक्तिस्तत्सम्बन्धिनीति वक्तव्यम् । अत्रापि द्रव्यं शक्त्यन्तरेण
स्वयमेवासमर्थस्वभावतया शक्तिमुपकरोतीति वाच्यम् । आद्येऽनवस्था, द्वितीये तु
कार्यमेव किं न करोतीत्यलं शक्तिस्वीकारेण !
अभिन्नाभिधाने निमित्तं सामान्यमेव पाचकत्वादि यदीष्यते, तदा
पाकादिक्रियातः प्रागेव तत् पाचकत्वादि सामान्यं द्रव्योत्पत्तावेव व्यक्तं भवेत् ॥
१ शब्दकारणम्—पाठा० ।