प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 324, कुल 532 में से
संदर्भ में पढ़ें२९८ प्रमाणवार्त्तिके [ सामान्य-
लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन ।
यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥ १३० ॥
भवेन्नानाफलः शब्द एकाधारो भवत्यतः ।
विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्त्तते ॥ १३१ ॥
यदान्यत्१; तेन स व्याप्त एकत्वेन च भासते ।
सामानाधिकरण्यं स्यात् तदा बुद्धयनुरोधतः ॥ १३२ ॥
वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः ।
स्यात् सत्यं स२ हि तत्रेति२ नैकवस्त्वभिधायिनि ॥ १३३ ॥
ननु यदि वस्त्वेकरूपम्, तदैकेन शब्देन लिङ्गेन वा वस्तुनि प्रतिपादिते
शब्दप्रमाणान्तरवृत्तिर्न स्यात् ?
एकस्य नित्यत्वादेरर्थस्य श्लेषः सम्बन्धस्तस्य विच्छेदे व्यावृत्तावेको
ध्वनिुर्लिङ्गं वा व्याप्रीयते । तत्र ध्वनौ लिङ्गे वा विच्छिन्नं सर्वतो व्यावृत्तं
न किञ्चन वाच्यमस्ति । एका व्यावृत्तिः शब्देन लिङ्गेन वा प्रतिपाद्यते, न
वस्त्वित्यर्थः ।
यस्य वस्तुनोऽभिधानतो वस्तुसामर्थ्यादखिले कृतकनित्यादिवस्तुरूपे
गतिर्भवेत्, येन शब्दप्रमाणान्तरवैयर्थ्यं स्यात् । अतः शब्दो भूयान्नानाफलो-
ऽनेकधर्मप्रतीतिफल एकाधार एकधर्मिनिष्ठो भवति ।
साध्यसाधनभावादिमाख्याय सामानाधिकरण्यं दर्शयितुमाह—विच्छेदम्-
नीलादिव्यवच्छेदमेकैकं नीलादिशब्दः सूचयन् यदाऽप्रतिक्षिप्यान्यदनुत्पल-
व्यवच्छेदादौ वर्त्तते, तद्वाचकशब्दप्रयोगे सति तेन व्याप्तः शिष्ट एकत्वेन
च भासते; तदा सामानाधिकरण्यं स्यात्, ‘नीलोत्पलम्’ इत्युभयव्यावृत्ति-
विशिष्टैकवस्तुव्यवसायिकाया बुद्धेरनुरोधतः ॥ १२९–१३२ ॥
किञ्च—ध्वनेर्विच्छेदकरणे व्यावृत्तिप्रतिपादकत्वेऽवस्थिते वस्तुधर्मस्य
नीलादेः संस्पर्शः प्रवृत्तिविषयत्वं स्यात् । स विच्छेदो हि यस्मात् तत्र
१. यदान्यं—पाठा० ।
२-२. सति तत्त्वे हि—रा० ।