प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 321, कुल 532 में से
संदर्भ में पढ़ेंविचारः ] स्वार्थानुमानपरिच्छेदः २६५
एकत्र हि स्थितः ॥ ११९ ॥
प्रपत्ता¹ तदतद्धेतूनर्थान् विभजते स्वयम् ।
तद्बुद्धिवर्तिनो भावान् भातो² हेतुतया धियः ॥ १२० ॥
अहेतुरूपविकलानेकरूपानिव स्वयम् ।
भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते ॥ १२१ ॥
तं तस्याः प्रतियती³ धीः³ भ्रान्त्यैकं वस्त्ववेक्षते ।
क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन ॥ १२२ ॥
बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् ।
व्यर्थोऽन्यथा प्रयोगः स्यात्;
भेदाविशेषेऽपि केचिदेव भावा एकाकाराध्यवसायहेतवः, नेतरे ।
तत्रैकस्मिन्नेकाकारज्ञानाध्यवसाये स्थितः प्रतिपत्ता पुरुषस्तदतद्धेतून-
र्थान् विभजते स्वयं यानेकाकारपरामर्शविषयबुद्ध्यादिहेतूनध्यवस्यति, याँश्चा-
न्यथा तान् यथाक्रमं तद्धेतूनतद्धेतूंश्च भेदेन व्यवस्थापयति । संकेतात् प्रागेव
तद्बुद्धिवर्त्तिन एकाकारपरामर्शविषयान् भावान् शाखादिमतो धिय एका-
काराया हेतुतया भातः प्रतिभासमानो न हेतोरेकाकारबुद्ध्यकारणस्य शाखा-
दिमत्त्वरहितस्य रूपेण विकलान् परमार्थभिन्नानप्येकरूपानिव स्वयमात्मना
संकेतयिता मन्यमानः प्रतिपाद्योऽपि तानतत्कारिभ्यः शाखादिमत्त्वरहितेभ्यो
भेदेनासङ्करेण प्रतिपद्येतेति उक्तिः शब्दो भेदेऽन्यापोहे नियुज्यते ॥
११९-१२१ ॥
तं भेदं तस्या उक्तेरुच्चारिताया वाच्यतया प्रतियती धीर्विकल्पिका
प्रकृतिभ्रान्त्या एकमिव वस्त्वीक्षते । तस्मात् कुतश्चनाकार्यकारिणोऽर्थाद्
विनिवर्त्य क्वचिदेकार्थक्रियाकारिण्यर्थे बुद्धेर्निवेशनाय शब्दः प्रयुज्यते;
तदर्थस्य शब्दार्थस्यावधारणात् । 'घटेनोदकमानय' इत्यादौ प्रतिपदमवधारण-
मिष्टम् । व्यर्थोऽन्यथा प्रयोगः स्यात् यदि येन केनचिदानयनमिष्टम्, 'उदकमा-
१. प्रतिपत्ता—पाठ० । २. भावो—पाठ० ।
३-३. धीर्विकल्पिका—रा० ।