प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)
Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary
आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 320, कुल 532 में से
संदर्भ में पढ़ें३९४ प्रमाणवार्त्तिके [ सामान्य-
सङ्केतासम्भवस्तस्मादिति केचित् प्रचक्षते ।
तेषामवृक्षास्संकेते व्यवच्छिन्ना न वा;
यदि ॥ ११५ ॥
व्यवच्छिन्नाः, कथं ज्ञाताः प्राग्वृक्षग्रहणादृते ।
अनिराकरणे तेषां संकेते व्यवहारिणाम् ॥ ११६ ॥
न स्यात् तत्परिहारेण प्रवृत्तिर्वृक्षभेदवत् ।
अविधाय निषिध्यान्यत् प्रदर्श्यैकं पुरः स्थितम् ॥ ११७ ॥
वृक्षोऽयमिति संकेत: क्रियते तत् प्रपद्यते ।
व्यवहारेऽपि तेनायमदोष इति चेत्;
तरुः ॥ ११८ ॥
अयमप्ययमेवेति प्रसङ्गो न निवर्त्तते ।
एकप्रत्यवमर्शाख्ये ज्ञाने;
संकेतासम्भवस्तस्मादिति केचित् जैमिनीयाः प्रचक्षते । तेषामेवं-
वादिनां जातावपि संकेते क्रियमाणेऽवृक्षा व्यवच्छिन्नाः ? न वा ? यदि
व्यवच्छिन्ना इष्यन्ते, कथं संकेतात् प्राक् ज्ञाता वृक्षग्रहणादृते संकेताद्
वृक्षस्याज्ञातत्वात् अवृक्षाः कथं ज्ञाताः । अथ न व्यवच्छिन्नाः, तदाऽनिराकरणे
तेषां संकेते व्यवहारिणां व्यवहारकाले तेषामवृक्षाणां परिहारेण न स्यात्
प्रवृत्तिः, वृक्षभेदवद् । यथा वृक्षविशेषाणां वृक्षसंकेतेऽव्यवच्छिन्नत्वात् प्रवृत्ति-
विषयत्वम्, एवमवृक्षाणामपि स्यात् ।
नन्वेकं शाखादिमन्तं पुरःस्थितं प्रदर्श्य तस्मादन्यदविधाय निषिध्य
च, वृक्षोऽयमिति च संकेत: क्रियते वस्तुसामान्यादिभिः, तत् संकेत-
विषयं सामान्यं तत्सम्बन्धिबाह्यलक्षणं व्यवहारे प्रपद्यते, तेनायमनन्तरोक्त-
दोषो न भवतीति चेत् ?
अत्र चायमपि शाखादिमाँस्तरुरयमेव तरुरिति पूर्वकोऽवृक्षाव्यवच्छेद-
प्रसङ्गो न निवर्त्तते, अत्र चोक्त एव दोष इति द्वयोरप्येकाग्रहात् द्वयासम्भवात्
संकेतासम्भवः समानः । इदानीं परिहर्तुमाह—एकप्रत्यवमर्शाख्ये ज्ञाने