सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रमाणवार्तिकम् (आचार्य धर्मकीर्ति - मनोरथनन्दि वृत्ति सहित बौद्ध न्याय महाग्रन्थ)

Pramanavarttika of Acharya Dharmakirti with Manorathanandin Commentary

आचार्य धर्मकीर्ति (वृत्ति: मनोरथनन्दी, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished532 पृष्ठ

प्रत्यक्षपरिच्छेदः १६५
न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् ।
अतो लक्षणशून्यत्वान्निःस्वभावाः प्रकाशिताः ॥ २१५ ॥
व्यापारोपाधिकं सर्वं स्कन्धादीनां विशेषतः ।
लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणाः ॥ २१६ ॥
यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् ।
विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥ २१७ ॥
न केवलं रूपादीनां भेदाभेदावुपप्लवः, लक्षणशून्यत्वान्निःस्वभावत्वम-
पीत्याह—रूपादीनां ग्राह्यग्राहकाकाराभ्यां बाह्यं भिन्नं लक्षणं न चास्ति ।
तथा हि—विषयतया किञ्चिन्निर्द्दिश्यते, यथा रूप्यत इति कृत्वा रूपम् । किञ्चिद्
विषयितया, विजानातीत्यादि व्युत्पत्त्या, यथा रूपिणः स्कन्धाः । न त्वेतद्वय-
तिरिक्तं किञ्चिल्लक्षणमस्ति । अतो लक्षणेन ग्राह्यग्राहकत्वेन शून्यत्वान्निः-
स्वभावाः सर्वधर्माः प्रकाशिता भगवद्भिर्बुद्धैः ॥ २१५ ॥
किञ्च बहिरर्थवादेऽपि लक्षणशून्यत्वात् निःस्वभावतां धर्माणामारख्यातुमाह—
स्कन्ध आदिर्येषां धात्वायतनानां तेषां यल्लक्षणम्— राशीभवन्तीति राश्यर्थः
स्कन्धानाम् , कार्योत्पादकत्वेनाकारार्थो धातूनाम् आयं तन्वन्तीत्यायद्वारार्थ आय-
तनानाम् , तत्सर्वं लक्षणं व्यापारोपाधिकं व्यापारविशेषणम् । स च व्यापारो-
ऽप्रतीतेर्भेदपक्षे न तत्त्वम् । अभेदेऽपि प्रागभावो भाव एव स्यात् । स च
तत्त्वं न भवति; “अशक्तं सर्वमिति चेत्” ( प्र० वा० २.४ ) इत्यत्रोक्त-
क्रमात् । तेन व्यापारोपाधिकलक्षणायोगेनापि विलक्षणा निःस्वभावा एते
स्कन्धादयः ॥ २१६ ॥
कथं तर्हि बाह्यस्कन्धादिदेशना भगवताम् ? इत्याह—अनाद्यविद्योपप्लु-
तात्मनामप्रहीणाक्लिष्टज्ञानानां पुंसां यथास्वं यस्य भ्रमस्य य आत्मीयः प्रत्ययो
यथास्वम्प्रत्ययस्तस्यापेक्षणमपेक्षः, तस्माद् वितथौ ग्राह्यग्राहकाकारौ यस्याः
सा तादृशी विज्ञप्तिर्जायते । तिमिरादिवत् तिमिरादाविव, वितथाकारचन्द्र-
द्वयादिविज्ञप्तिः ॥ २१७ ॥

१६६ प्रमाणवार्त्तिके
असंविदिततत्त्वा च सा सर्वापरदर्शनैः ।
असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवैः ॥ २१८ ॥
तदुपेक्षिततत्त्वार्थैः कृत्वा गजनिमीलनम् ।
केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते ॥ २१९ ॥
नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनः;
तं हि पतत्यर्थे विवेचयन् ॥ २२० ॥
सा च विज्ञप्तिः सर्वैरपरदर्शनैरनुत्कृष्टदर्शनैरसंविदिता द्वयशून्यता तत्त्वं
यस्याः साऽसंविदिततत्त्वा ।
कस्माद् ? इत्याह—ग्राह्यग्राहकविप्लवैर्विना तेषामपरदर्शनानां विज्ञप्तेर-
सम्भवात् । ग्राह्यग्राहकोपप्लुतदर्शनत्वमेव चानुत्कृष्टदर्शनत्वम् ॥ २१८ ॥
तद् आन्तदर्शनानुरोधादुपेक्षिततत्त्वार्थैरवधारिततद्द्वयविवेकैर्भगवद्भिर्बुद्धै-
र्गजनिमीलनं कृत्वा गजस्येव पार्श्वद्वयं पश्यतोऽपि नयननिमीलनकलया
तत्त्वमपश्यन्तमिवात्मानं दर्शयद्भिर्लोकस्याविद्योपहतस्य बुद्ध्या द्वयग्राहिण्या
बाह्यस्य चिन्ता स्कन्धायतनादित्वेन प्रतन्यते । स्कन्धादिदेशनया हि लोक-
बुद्ध्यनुरोधप्रवर्त्तितपाषण्डग्राहनिवृत्तौ मुख्याया यत्र १ मुमुक्षवोऽवतार्यन्त इति
देशनाक्रमः ॥ २१९ ॥
अथ वा—चित्रत्वेऽपि बाह्यमेकं न युक्तम्, बुद्धिरस्तु चित्राप्येकैवेति दर्श-
यितुमाह—नीलादिश्चित्रे ज्ञाने ज्ञानोपाधिरनुभवस्यात्मभूतः अनन्यभाक्
आकारान्तरासहचरः केवल इत्यर्थः । तादृशोऽशक्यदर्शनः सहैवाकारान्तरवेदन-
नियमात् । न हि चित्रे विज्ञाने समुत्पन्ने नीलं निरस्य पीतं शक्यदर्शनम् ।
तस्मादशक्यविवेचनत्वं तुल्ययोगक्षेमत्वं सहप्रतिभासनियतत्वं ज्ञानात्मनां नीलादीना-
मेकत्वम् । बाह्यात्मनां तु नैतत् सम्भवति; एकं पिधायापि द्रष्टुमन्यस्य शक्यत्वात् ।
ननु ज्ञानाकारोऽपि नीलः पीतानुभवकाले यदा नानुभूयते, तदा शक्य-
विवेचन एव ? इत्याह—तमनुभूयमानात् पीतात् विवेचयन् भेदेन व्यवस्थापयन्
१. येषु—रा० ।

प्रत्यक्षपरिच्छेदः १६७
यद् यथा भासते ज्ञानं तत् तथैव प्रकाशते ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसि¹ ॥ २२१ ॥
पटादिरूपस्यैकत्वे तथा स्यादविवेकिता ।
विवेकीनि निरस्यान्यदा विवेकि च नेक्षते² ॥ २२२ ॥
को वा विरोधो बहवः सञ्जातातिशयाः पृथक्³ ।
भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत् ॥ २२३ ॥
प्रमाता अर्थ एव नीले पतति विवेचकत्वेन । परोक्षं तदा नीलमर्थ एव ।
अपरोक्षतैव तु ज्ञानस्वभावः । अतो यद् विविच्यते तद्ज्ञानम् । यज्ज्ञानं तन्न
विवेच्यत एव ॥ २२० ॥
तस्माद् यज्ज्ञानं यथा नीलाद्यात्मतया जातं सत् यथा भासते प्रका-
शते, भासमानस्वभावत्वात् ज्ञानं तथा तेनैव स्वरूपेणानुभूयते सर्वैः प्रति-
पत्तृभिः । न चोत्पन्नस्यापि ज्ञानस्य स्वप्रकाशकस्याविदितः कश्चिदाकारोऽस्ति
इत्यशक्यविवेचनत्वात् तुल्ययोगक्षेमत्वात् सहप्रतिभासनियमात् चित्रस्य
नीलपीताद्याकारस्य चेतसि बुद्धावेकभावो नाम भवेत् तदा को
दोषः ! ॥ २२१ ॥
ज्ञानवत पटादिरूपस्य एकत्वेऽभ्युपगम्यमाने तथा ज्ञानस्येवाविवेकिता-
ऽशक्यविवेचनत्वं स्यात् , न चास्ति; नीलादीनां ग्रहणाग्रहणभेदस्य दर्शनात् ।
स्यादेतद् । अवयवा नीलाद्याः परस्परतोऽवयविनश्च भिन्नाः, तेषां
भेदाद् विवेकेन ग्रहणम्; यस्त्वभिन्नोऽवयवी न तस्य विवेकेन ग्रहणम् ?
इत्याह—विवेकीनि नीलाद्यवयवरूपाणि निरस्य पृथक् कृत्वा अन्यदा
विवेकिरूपं च नेक्षते । दृश्यसम्मतमनुपलभ्यमानं कथमभ्युपगमार्हम् ॥२२२॥
यच्चोच्यते—"परमाणवः प्रत्येकमतीन्द्रियत्वात् सञ्चिता अपि न ज्ञान-
गोचराः” ( न्या० सू० वा० भा० ४.२.१४ ) इति, तत्राह—यदि बहवः
परमाणव उपसर्पणप्रत्ययात् सञ्जातातिशया विज्ञानजननयोग्याः संहता उत्पन्नाः
स्वग्राहि कार्यञ्च बुद्धेः कारणं भवेयुः, तदा को विरोधः, इन्द्रियादिवत् ।
१. चेतसः—पाठा० । २ नेक्ष्यते—पाठा० । ३. सकृद्—पाठा० ।

१६८ प्रमाणवार्त्तिके
हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन ।
तत्र बुद्धैर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते ॥ २२४ ॥
कथं वाऽवयवी ग्राह्यः सकृत् स्वावयवैः सह ।
न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने ॥ २२५ ॥
गुणप्रधानाधिगमः सहाप्यभिमतो यदि ।
सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥ २२६ ॥
इन्द्रियादयः प्रत्येकं न बुद्धेर्हेतुः, मिलितास्तु भवन्ति, तद्वदणवोऽपि स्युः । न
हि परेषामिवास्माकञ्च नित्यैकस्वभावा अणवः, ते हि यथाप्रत्ययमतीन्द्रियाः
सन्त ऐन्द्रिया अपि स्युः ॥ २२३ ॥
ननु हेतुत्वेऽपि कथमणवो ग्राह्याः ? इत्याह—हेतुभावाद् ऋते विना
ग्राह्यता नाम या प्रसिद्धा सा नान्या काचित्, अपि तु हेतुतैव ग्राह्यता ।
एवं तर्हीन्द्रियादिकमपि हेतुत्वाद् ग्राह्यं स्याद् ? इत्याह—तत्र तेषु हेतुषु
बुद्धैर्यदाकारा भवति तस्या बुद्धेस्तद्ग्राह्यमुच्यते अणुसञ्चयः । सैव च
बुद्धिराकारमनुकरोति, नेन्द्रियादेः, तत् कथं तद्ग्राह्यम् ! ॥ २२४ ॥
योऽप्याह—‘नानेकं सकृद् गृह्यते’ इति, तन्मतेऽवयवी स्वावयवैः
सास्नाककुदलाङ्गूलादिभिः सह कथं वा ग्राह्यो युक्तः । न गृह्यत एवेति चेत् ?
न हि गोरवयविनः प्रत्ययः सास्नादीनामवयवानामदर्शने क्वापि दृष्टः
॥ २२५ ॥
यदि सहाप्यभिमतो गुणप्रधानयोर्विशेषणविशेष्ययोरधिगमः, नोपा-
धीनामन्योऽन्यं विशेषणविशेष्यभूतानां द्रव्याणां वा तादृशानाम् ? एवं तर्हि
विषाणी सास्नादिमानिति वा यदा गृह्यते, तदा तेनैवावयवेन सम्बन्धव्यवसायादि-
तरावयवसम्बन्धानवसायात् सम्पूर्णाङ्गोऽवयवी न गृह्येत । सकृद् गृह्यते च ।
नापि गुणादिमान् गृह्येत । ‘विषाणी गौः’ इति बुद्ध्या विषाणविशिष्टो गौर्विषयी-
कृतः, न त्वन्ये गुणकर्मसामान्यादयः । ततश्च नीलादिरूपं गुणः, परिस्पन्दादि च
कर्म, वस्तुत्वादि च सामान्यं न गृह्येत । दृष्टविरुद्धं चैतत् ॥ २२६ ॥

प्रत्यक्षपरिच्छेदः १६९
विवक्षापरतन्त्रत्वाद् विशेषणविशेष्ययोः ।
यदङ्गभावेनोपात्तं तत् तेनैव हि गृह्यते ॥ २२७ ॥
स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च ।
अग्रहादेकबुद्धिः स्यात् पश्यतोऽपि परापरम् ॥ २२८ ॥
गुणादिभेदग्रहणान्नानात्वप्रतिपद् यदि ।
अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसङ्करः ॥ २२९ ॥
सर्वेषां गुणकर्मसामान्यावयवादीनां वस्तुतो विशेषणत्वात् सर्वग्रहणमिति
चेत् ? आह—विशेषणविशेष्ययोर्विवक्षापरतन्त्रत्वात् पुरुषेच्छानुरोधात् न
पारमार्थिकत्वम्, तथा 'विषाणी गौः' इति गोर्विषाणमित्यादौ विपर्ययो विशेषण-
विशेष्ययोः प्रयोक्तुरिच्छावशेन दृश्यते । तस्माद् यदेव ह्यङ्गभावेन विशेषण-
भावेन स्वमनीषिकया प्रतिपादयित्रोपात्तम्, तेनैव विशेषणेन विशिष्टं तद्विवक्षितं
गृह्यते, न तदितरैः; तेषामविवक्षितत्वेनाविशेषितत्वात् । ततश्च न सम्पूर्णाङ्गः,
नापि गुणादिमान् गृह्येत ॥ २२७ ॥
किञ्च—वस्तुनः स्वतो वस्त्वन्तराद् भेदाभावात् वदन्ति हि । स्वतो
हि गौर्नगौः, गोत्वयोगात् गौः । तथा स्वतो हि शुक्लो नशुक्लः, शुक्लत्वयोगात् शुक्ल
इत्यादि । भेदकस्य च गुणादेरग्रहात् पदार्थैः सह । ततश्च परापरमर्थजातं
पश्यतोऽप्येकपदार्थत्वबुद्धिः स्यात् । न हि द्रव्याणामन्योऽन्यस्य भेदका गुण-
जात्यादयस्तैः सह गृह्यन्ते येन भेदबुद्धिः स्यात् । द्रव्ये गृहीते पश्चाद् गुणादीनां
भेदानां विशेषाणां नानात्वग्रहणं द्रव्याणां यदीष्यते; अस्तु नाम पश्चाद् गुणा-
दिग्रहणम्, तथाप्येषां गुणकर्मसामान्यादीनां सम्बन्धिनः साङ्कर्यं स्यात् ।
स्वतो हि द्रव्यं भेदान्नोपलभ्यते, पश्चादुपलभ्यमानैस्तु गुणादिभिः
सम्बन्धितयावगतैर्भेदेन तद् व्यवस्थापनीयम्, ततश्चैकत्रैकद्रव्ये गुणादयः सम्ब-
न्धितया प्रतीयेरन्, भिन्नदेशानां गुणानां भिन्नदेशेषु योजनान्न सम्बन्धिसाङ्कर्य-
मिति चेत् ? न; देशभेदस्यापि विशेषणत्वात् सोऽप्येकस्येति स्यात् । एकस्य
विरुद्धधर्मयोगात् प्रतीयमानार्थाः पश्चात् प्रतीयमानैरुपाधिभिर्भिन्ना व्यवस्थाप्यन्त
इति चेत् ? नन्वेवमपि स्वतोऽर्थानां भेदाभावात्, भेदनिबन्धनैश्चोपाधिभिः सह

१७० प्रमाणवार्त्तिके
शब्दादीनामनेकत्वात् सिद्धोऽनेकग्रहः सकृत् ।
सन्निवेशग्रहायोगदग्रहे सन्निवेशिनाम् ॥ २३० ॥
सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः ।
तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता१ ॥ २३१ ॥
वेदनाभावान्नाध्यक्षसिद्धा भेदव्यवस्थितिः स्यात्; किन्तु विरुद्धोपाधिसम्बन्धान्य-
थानुपपत्त्या कल्पनीया । तथा च प्रत्यक्षविरोधः ।
अथ दृष्टेऽर्थे पश्चात्तनमध्यक्षमुपाधिग्राहकं तान् योजयेद् भेदग्राहकम्, कथ-
मदृश्यमाने योजनोपाधीनां प्रत्यक्षकृता, विकल्पकृतैव तु स्यात् । तथा च व्यक्तं
न भेददर्शनं स्यात्; विकल्पविषयस्यास्फुटत्वात् । दृष्टेऽर्थे, पश्चादुपाधिः प्रतीय-
मानस्तस्यैव दृष्ट इति चेत् ? तस्येति किमुच्यते ? न तावदनेकासु, उपाधि-
ग्रहणात् पूर्वमनेकत्वस्याप्रतीतेः । एकं चेत् ? कथमुपाधिभिर्भेदनीयम् । अनवधृतै-
कानेकभावं वस्तुमात्रं तदिति चेत् ? तत्र तर्हि देशभेदादयो ऽप्युपाधयः पश्चा-
दुपलभ्यमाना योज्यन्ते, तदनन्तरं दृष्टत्वात् । ततश्चानिवार्यः सम्बन्धसङ्कर-
प्रसङ्गः ॥ २२८–२२९ ॥
सांख्यमतेऽपि—शब्दादीनां सुखदुःखमोहात्मकतया अनेकत्वात्
शब्दादिग्रहे सकृदनेकग्रहः सिद्धः; सन्निवेशिनामग्रहे सन्निवेशस्य
ग्रहायोगात् । न ह्यङ्गुल्यग्रहणे मुष्टिग्रहणम् ॥ २३० ॥
यदि प्रत्यक्षमविकल्पम्, तदा कथं धर्मधर्म्यादिग्रहणम् ? इत्याह—सर्वतः
परस्माद् विनिवृत्तस्यार्थस्य यतो यतः परस्माद् विनिवृत्तिस्तैर्भेदैर्व्यावृत्ति-
भिरुन्नीता साऽनेकरूपता धर्मिधर्मात्मकतया धर्मिणोऽर्थस्य । सर्वतो
व्यावृत्ते प्रत्यक्षेण गृहीते वस्तुनि तद्व्यावृत्त्यनुकारिणो विकल्पाः प्रत्यक्षदृष्टत्वेन
धर्मिधर्मभावं व्यवस्थापयन्तीति प्रत्यक्षकृतः स उच्यते, न तु प्रत्यक्षप्रतिभासमान-
त्वात् ॥ २३१ ॥
१. “धर्मिणोऽनेकरूपस्येन्द्रियाद् बोधो न सम्भवेत् ।
स्वसंवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः ॥” ( प्र० समु० १. ५ )
इति प्रमाणसमुच्चयकारिकामाचार्यो व्याचष्टे ।

प्रत्यक्षपरिच्छेदः १७१
ते कल्पिता रूपभेदाद् निर्विकल्पस्य चेतसः ।
न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः ॥ २३२ ॥
यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचरः ।
न सोऽभिधीयते शब्दैर्ज्ञानयो रूपभेदतः ॥ २३३ ॥
एकार्थत्वेऽपि बुद्धीनां नानाश्रयतया स चेत् ।
श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत् कुतः ॥ २३४ ॥
जातो नामाश्रयोऽन्योऽन्यः चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥ २३५ ॥
तथा हि—ते धर्मिधर्मादयो रूपभेदाद् बुद्ध्याकारविशेषा विजातीयव्यावृत्त्या-
श्रयेण कल्पिता विचित्राभा वस्तुबलभावित्वात् कादाचित्कस्य विचित्रस्य
धर्मिधर्मभेदप्रतिभासरहितस्य निर्विकल्पस्य चेतसः प्रत्यक्षस्य न गोचरः ।
प्रत्यक्षं हि वस्तुसामर्थ्योत्पन्नं तदाकारमनुकुर्यात्, न विकल्पितम् ॥ २३२ ॥
भवतु वा वस्त्वेव सामान्यम्, तथापि नासौ शब्दविकल्पविषयः ? इत्याह—
यद्यपि सितत्वादि सामान्यमस्ति, पटादौ धर्मिणि यादृक् सितत्वादिविशदा-
कार इन्द्रियस्य गोचरः, स इन्द्रियज्ञानगोचरोऽर्थोऽभिधीयते न शब्दैः;
ज्ञानयोरिन्द्रियशब्दजनितयो रूपस्याकारस्य स्फुटास्फुटत्वेन भेदतः ॥ २३३ ॥
बुद्धीनामिन्द्रियशब्दजनितानामेकार्थत्वे एकविषयत्वेऽपि नानाश्रयतया
कारणभेदात्मकस्य आकारभेदश्चेत् ? इदानीमेवं स्थितौ श्रोत्रादीन्द्रियचित्तानि
भिन्नार्थानि शब्दरूपगन्धादिभिन्नविषयाणीति व्यपदिश्यते, तत् कुतः प्रमाणाद-
वधारितम् । तान्यपि चित्तान्यभिन्नविषयत्वेऽपीन्द्रियाणामाश्रयभूतानां भेदात्
भिन्नाकाराणीति किं न कल्प्यते ! ॥ २३४ ॥
किञ्च—सामान्यादिचेतसामाश्रयः कारणमिन्द्रियं शब्दश्चेति अन्योऽन्यो
नाम जातः, तथापि सामान्यादेर्वस्तुन एकस्यैव रूपं तत् कुतो भिन्नाका-
रावभासि स्फुटास्फुटावभासि स्फुटास्फुटप्रतिभासम् । न हि स्वरूपेण भासमान-
मेकं भिन्नप्रतिभासं युक्तम् ॥ २३५ ॥

१७० प्रमाणवार्त्तिके
वृत्तेर्दृश्यपरामर्शेनाभिधानविकल्पयोः ।
दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम् ॥ २३६ ॥
अन्वयाच्चानुमानं यदभिधानविकल्पयोः ।
दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम् ॥ २३७ ॥
दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् ।
प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम् ॥ २३८ ॥
२. मानसप्रत्यक्षम्
पूर्वानुभूतग्रहणे मानसस्याप्रमाणता ।
यदप्युच्यते परैः—“शाब्देन्द्रियज्ञानयोर्यदि नैकविषयत्वं तदा विषाणादि-
मन्तमर्थं गौरिति शब्दात् प्रतीत्य कालान्तरे व्यक्तिविशेषं दृष्टवतोऽयमसौ शब्दात्
प्राङ् मया प्रतीतो गौरिति प्रत्यभिज्ञानमेकताध्यवसायि यदुत्पद्यते तन्न स्यात्”
इति, तत्राह—अभिधानविकल्पयोर्दृश्यस्याध्यक्षविषस्यापरामर्शन विषयी-
करणेन वृत्तेः पश्चाद् दर्शनात् 'स एवायम्'शब्दनिर्दिष्टो गौरिति प्रत्यभिज्ञानं
गवादीनां यदिष्यते तन्निवारितं बोद्धव्यम् । इन्द्रियशब्दज्ञानयोर्भिन्नाकारत्वेनेव
विषयत्वाभावात् कथं तदेकताव्यवसायि वस्तुविषयं स्यात् ! ॥ २३६ ॥
यच्च दृश्ये गवादावनेकत्राभिन्नाकारयोरभिधानविकल्पयोरन्वयादनु-
वृत्तेर्जात्यादेरनुमानं परैरुच्यते, तदप्येतेनाभिधानविकल्पयोर्दृश्यत्वापरामर्शन
हेतुना दूषितं बोद्धव्यम् । न ह्यन्वयिनावपि शब्दविकल्पौ वस्तु स्पृशतः, तत् कथं
ताभ्यां वस्तुनः सामान्यस्य सिद्धिः ! ॥ २३७ ॥
यदि नास्ति सामान्यं तदा कथमस्तु प्रत्यभिज्ञानम् ? इत्याह—दर्शनानी-
न्द्रियज्ञानान्येव भिन्नानि नानाक्षणविषयाण्यनेकान्यपि स्वभावेन प्रत्यभिज्ञान-
कारणस्वरूपेण स्वकारणप्रसूतेन कल्पनात्मकत्वाध्यवसायिनीं प्रत्यभिज्ञान-
संख्यातां प्रत्यभिज्ञाननाम्ना प्रसिद्धां कुर्वन्तीति वर्णितं प्राक् । तस्मात् स्थित-
मेतत्—प्रत्यक्षमनिर्देश्यत्वादविकल्पमिति ॥ २३८ ॥ उक्तमिन्द्रियप्रत्यक्षम् ॥
मानसमाख्यातुमाह (—पूर्वानुभूतेत्यादि ।) तच्चेन्द्रियज्ञानानन्तरमिष्टम्,
तेन सहैकविषयं भिन्नविषयं वा स्यात्, उभयथापि तु दोषः ? इत्याह—पूर्वा-

प्रत्यक्षपरिच्छेदः १७३
अदृष्टग्रहणेऽन्धादेरपि स्यादर्थदर्शनम् ॥ २३९ ॥
क्षणिकत्वादतीतस्य दर्शनस्य१ न सम्भवः ।
वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम् ॥ २४० ॥
निष्पादितक्रिये कश्चिद्२ विशेषमसमादधत् ।
कर्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते ॥ २४१ ॥
सकृद् भावश्च सर्वासां धियां तद्भावजन्मनाम् ।
अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ २४२ ॥
नुभूतस्येन्द्रियज्ञानगृहीतस्य ग्रहणे मानसस्य स्वीक्रियमाणेऽप्रमाणता स्यात् ;
अज्ञातार्थप्रकाशस्य प्रमाणत्वात् । इन्द्रियज्ञानादृष्टस्य ग्रहणे पुनरिष्यमाणेऽन्धा-
देरपि स्यादर्थस्य रूपादेर्दर्शनम् ॥ २३९ ॥
इन्द्रियज्ञानानुभूतविषयत्वेऽपि द्वौ विकल्पौ—सोऽर्थः क्षणिकः ? न वा ?
प्रथमपक्ष इन्द्रियज्ञानविषयस्यार्थस्य पूर्वकालस्य सहभुवो वा क्षणिकत्वादती-
तस्य नष्टस्य मानसेन दर्शने दर्शनस्य च न सम्भवोऽस्ति । अक्षणिकत्वे वा
अधिगतार्थाधिगन्तृत्वादप्रमाणं स्यात् । अथ मानसमधिगतार्थाधिगन्तृप्रमाणमिष्यते,
तदापि मानसस्य सविशेषणं लक्षणं वाच्यं स्यात् । यथाधिगतविषयत्वेऽपि
कल्पनापोढमभ्रान्तं मानसं प्रत्यक्षमिति ॥ २४० ॥
किञ्च—निष्पादिता क्रिया यस्मिन् तत्र कर्मणि विशेषं कश्चिदस-
मादधत् ऐन्द्रियमिन्द्रियज्ञानमन्यद्वा परश्वादि साधनं किमितीष्यते ।
क्रियानिर्वर्तनं हि साधनव्यापारः, तच्चेन्निष्पन्नं किमन्यत् कुर्वन् तत् साधनं
स्यात् ! ॥ २४१ ॥
अपि च—तस्मात् स्थिराद् भावाज्जन्म यासां तासां सर्वासां धियां
सकृद् भावश्च स्यात् , न क्रमभावः । क्रमिसहकार्यपेक्षया क्रमेण स्थिरोऽप्यर्थः
करोति बुद्धिरिति चेत् ? अतोऽन्यैः सहकारिभिरकार्यो भेदो विशेषो यस्य
स्थिरैकरूपस्य तस्य तदपेक्षाया विरोधतः ॥ २४२ ॥
१. दर्शने च—रा० । २. किञ्चिद्—रा० ।

१७४ प्रमाणवार्त्तिके
तस्मादिन्द्रियज्ञानानन्तरप्रत्ययोद्भवम् ।
मनोऽन्यमेव गृह्णाति विषयं नान्यदृक् ततः ॥ २४३ ॥
स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः ।
ततोऽन्यग्रहणेऽप्यस्य नियतग्राह्यता मता ॥ २४४ ॥
तत्तुल्यक्रियाकालः कथं स्वज्ञानकालिकः ।
सहकारी भवेदर्थ इति चेदक्षचेतसः ? ॥ २४५ ॥
असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः ।
प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सह ॥ २४६ ॥
यत एवम्, तस्मादिन्द्रियविज्ञानमेवानन्तरप्रत्ययस्तस्मादुद्भवो यस्य
तन्मनो मानसं प्रत्यक्षं इन्द्रियप्रत्यक्षग्राह्याद् विषयादन्यमेव विषयं गृह्णाति ।
तत इन्द्रियज्ञानजन्यत्वात् मानसस्यान्धानां चक्षुर्विज्ञानविकलानां दृग् दर्शनं
रूपस्य न भवति । गृहीतग्राहित्वं च विषयान्तरग्रहणादपास्तम् ॥ २४३ ॥
यद्यन्यविषयग्राहकं मानसम्, तदा भूतभविष्यद्ग्राहकमपि स्यात् ? इत्याह—
स्वार्थः स्वकीयो विषयस्तस्मादन्वय उत्पादो यस्यार्थस्य तदपेक्षैव इन्द्रियजा
मतिर्मनोविज्ञानस्य हेतुरिष्यते । ततोऽन्यस्य विषयस्य ग्रहणेऽपि मनोविज्ञान-
स्येष्यमाणे नियत इन्द्रियज्ञानग्राह्योपादेयक्षण एव ग्राह्यो यस्य तद्भावो नियत-
ग्राह्यता सा मता ॥ २४४ ॥
ननु स्वज्ञानेन स्वालम्बनज्ञानेन एककालिकस्तुल्यकालिकोऽर्थः, तेन
सहकारिसम्मतेन्द्रियज्ञानेनातुल्यः क्रियाकालो यस्य भिन्नकालत्वात् सोऽर्थः
सहकारी कथमक्षचेतसो भवेदिति चेत् ? ॥ २४५ ॥
अत्राह--- कार्योत्पत्तेः प्रागसतस्तत्रासामर्थ्यात् । सदधिष्ठानं हि सामर्थ्य-
मसततः कथं स्यात् ! कार्योत्पत्तेः पश्चात् सतः कारणव्यापाराद्वा पश्चात् कार्य-
समकालस्य सतो वा तत्रानुपयोगतो व्यापाराभावात् । कार्यात् प्राग्भावः सर्व-
हेतूनामिति स्थितम् । विषयश्च ज्ञानानां नाकारणम्; अतिप्रसङ्गात् । अतो
विषयः कारणात्मकः स्वधिया स्वालम्बनधिया सह न भवति । पूर्वभावित्वे
च विषयस्य तत्कालेन्द्रियज्ञानसहकारिता युक्तिमती ॥ २४६ ॥

प्रत्यक्षपरिच्छेदः १७५
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ २४७ ॥
कार्यं ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् ।
तत् तेनाप्यत्र¹ तद्रूपं¹ गृहीतमिति चोच्यते ॥ २४८ ॥
३. स्वसंवेदनप्रत्यक्षम्
अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक् ।
तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥ २४९ ॥
अवेदकाः परस्यापि ते स्वरूपं कथं विदुः ।
ननु प्राग्भावित्वाद् भिन्नकालं वस्तु कथं ग्राह्यमिति चेत् ?
हेतुत्वमेव ज्ञाने आकारस्य स्वानुरूपस्यार्पणक्षमं ग्राह्यतां युक्तिज्ञा विदुः ।
न हि सन्दंशायोगोलयोरिव ज्ञानपदार्थयोर्ग्राह्यग्राहकभावः, कथं तर्हि ? यदाकार-
मनुकरोति तद् ग्राह्यस्य ग्राहकमित्युच्यते ॥ २४७ ॥
ननु यदि कारणं ग्राह्यम्, तदा समनन्तरप्रत्ययादिकं च तथा स्यात् ?
इत्याह—कार्यं हि ज्ञानमनेकहेतुत्वेऽपि यत् कारणमाकारद्वारेणानुकुर्वदुदेति
तत् कारणमपि तद्रूपमुपरोपितस्वाकारं तेन कारणाकारेण गृहीतमिति चोच्यते ।
यथा पितृरूपं पुत्रेण गृहीतमिति कथ्यते ॥ २४८ ॥ उक्तं मानसम् ॥
स्वसंवेदनमाख्यातुमाह ( —अशक्यसमय इत्यादि । ) रागद्वेषसुखदुःखा-
दीनां सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षम् ; अविकल्पत्वात् । तथा हि—
रागादीनामात्मा स्वरूपमनन्यभाक् नान्यं भजते; स्वरूपमात्रावस्थितेः ।
तस्मादशक्यः समयः संकेतोऽस्मिन् अतः संकेताविषयत्वात् तेषां रागादीनां
स्वस्यात्मनः संवित्तिः प्रकाशोऽभिजल्पो वाचकशब्दोल्लेखस्तदनुषङ्गो
यस्यास्ति सा तथा न भवति । वाच्यं हि वाचकेन संयोज्येत, न च रागाद्यात्मा
वाच्यः, ततस्तत्प्रकाशो न शब्दसङ्गतः ॥ २४९ ॥
ननु रागसुखादय आत्मगुणाः, परस्य बाह्यस्याप्यवेदनादज्ञातत्वात् ते
स्वरूपं कथं विदुः । वेदकस्य कदाचित् स्ववेदनं सम्भाव्येत, अवेदकं च न
१-१. तेनार्पिततद्रूपं—पाठ०।

१७६ प्रमाणवार्त्तिके
एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन ॥ २५० ॥
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ २५१ ॥
सार्थे सतीन्द्रिये योग्‍ये यथास्वमपि चेतसि ।
दृष्टं जन्म सुखादीनां तत् तुल्यं मनसामपि ॥ २५२ ॥
असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् ।
दृष्टं सुखादेर्बुद्धेर्वा तत् ततो नान्यतश्च ते ॥ २५३ ॥
क्वचिदुपयोगि ।
यदि न स्ववेदना रागादयः, तदा कथं वेद्यन्ते ? इत्याह—एकोऽर्थ
आत्मा आश्रयो रागादिभिः सह यस्यास्ति तेनैकार्थाश्रयिणा ज्ञानेन वेद्या
रागादय इति केचन नैयायिकादयः ॥ २५० ॥
अत्राह—तद्रूपिणो विवक्षितैकरूपवन्तोऽतद्रूपिण इतररूपवन्तो भावा
यथाक्रमं तद्रूपाद् दृष्टैकरूपाद्धेतोः सामग्रीलक्षणाज्जाता अतद्रूपहेतुजाता विल-
क्षणसामग्रीजाता भवन्तीति तावत् स्थितम् । तत् तस्मादिमं न्यायमुलङ्घ्य
विज्ञानेन सहाभिन्न एको हेतुरिन्द्रियविषयमनस्कारादिसामग्रीलक्षणः, तस्मात्
जातं सुखादि¹ किं¹ कस्मादज्ञानं समानसामग्रीप्रसूतत्वात् द्वयमपि ज्ञानं स्यान्न
वा किञ्चित् ॥ २५१ ॥
अभिन्नहेतुकतामेव समर्थयितुमाह—यस्य यदात्मीयं जनकं तस्मिन्निन्द्रिये
सार्थे सविषये योग्ये कार्योत्पादनं प्रति चेतसि समनन्तरप्रत्यये सति सुखा-
दीनामपि जन्म दृष्टम् । तद् यथास्वमिन्द्रियादिषु योग्येषु सत्सु जन्मदर्शनं
मनसां ज्ञानानामपि तुल्यम् । अतस्तुल्यहेतुकत्वात् तुल्यजातीयतैव युक्ता,
नान्यथा क्वचिदेकता स्यात् ॥ २५२ ॥
तुल्यहेतुकत्वेऽपि संस्कारादेर्नियामकत्वात् सुखादिकमज्ञानं स्यात् ? इत्याह—
असत्स्विन्द्रियादिषु दुःखादेर्बुद्धेर्वा जन्म न क्वचिदिष्टम् । सत्सु च एते-
ष्विन्द्रियादिषु अजन्म वा सुखादेर्बुद्धेर्वा न क्वचिद् दृष्टम् । तत् तस्मात्
१-१. सुखादिकं—रा० ।

प्रत्यक्षपरिच्छेदः १७७
सुखदुःखादिभेदश्च तेषामेव विशेषतः ।
तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रयाः ॥ २५४ ॥
यस्यार्थस्य निपातेन ते जाता धीसुखादयः ।
मुक्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम् ! ॥ २५५ ॥
अविच्छिन्ना¹ न भासेत तत्संवित्तिः क्रमग्रहे ।
तल्लाघवाच्चेत् तत्तुल्यमित्यसंवेदनं न किम् ! ॥ २५६ ॥
न चैकया द्वयज्ञानं नियमादक्षचेतसः ।
तत इन्द्रियादेर्दृष्टसामर्थ्यात् कारणात् ते सुखबुद्धी जायेते । अन्यतः संस्कारा-
देर्न ते; तस्य सामर्थ्यादर्शनात् ॥ २५३ ॥
नन्वभिन्नहेतुकत्वे सुखदुःखादिभेदश्च न स्याद् ? इत्याह—सुख-
दुःखादिभेदश्चावान्तरः, तेषामिन्द्रियादीनामेव हेतूनां विशेषतोऽवान्तरात् ।
यथा तस्या बुद्धेरेवान्तरहेतुविशेषात् मान्द्यपाटवसंश्रयाः परस्परसम्भविनो
भवन्ति । तस्मात् सुखादयो विज्ञानेनाभिन्नहेतुकत्वाद् विज्ञानस्वभावा एवेति
स्थितम् ॥ २५४ ॥
इदानीं परवेद्यतामेषां निषेद्धुमाह—यस्यार्थस्य स्त्र्यादेर्निपातेन सन्निधा-
नेन ते धीसुखादयो जाताः, तं कारणभूतमाकारार्पणक्षमं मुक्त्वा सुखादी-
नेव सहभाविनो विषयलक्षणरहितान् सा बुद्धिः कथं प्रतिपद्येत; अकारणस्य
विषयत्वेऽतिप्रसङ्गात् ॥ २५५ ॥
अथेन्द्रियज्ञानेन विषयग्रहः, तदनन्तरं मानसाध्यक्षेण सुखादिग्रह इति
क्रमग्रहे स्वीक्रियमाणे तयोर्विषयसुखयोः संवित्तिरविच्छिन्ना यौगपद्येन न
भासेत, अस्ति च युगपत्प्रतिभासः परिस्फुटः । तयोर्बाह्यसुखग्राहिमनसो-
र्लाघवात् यौगपद्यप्रतिभासश्चेत् ? तल्लाघवं प्रतिक्षणमेकैकत्वसंवेदनाभावस्यापि
तुल्यमित्यसंवेदनमेव साहित्यस्य किं न भवति ! ॥ २५६ ॥
इन्द्रियबुद्धयैवैकया बाह्यसुखयोः सकृद् ग्रहणमिति चेत् ? आह — न
चैकया द्वयस्य ज्ञानं सम्भवति; अक्षचेतसोर्बाह्यरूपादिग्रहण एव नियमात्
१-१. अविच्छिन्नाथ—रा० ।
प्र० वा० : १२

१७८ प्रमाणवार्त्तिके
सुखाद्यभावेऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धितः ॥ २५७ ॥
पृथक् पृथक् च सामर्थ्ये द्वयोर्नीलादिवत् सुखम् ।
गृह्येत केवलम्;
तस्य तद्धेत्वर्थमगृह्णतः ॥ २५८ ॥
न हि संवेदनं युक्तम्, अर्थेनैव सह ग्रहे ।
किं सामर्थ्यं सुखादीनां नेष्टा धीर्यत् तदुद्भवा ॥ २५९ ॥
विनार्थेन सुखादीनां वेदने चक्षुरादिभिः ।
रूपादिः स्त्र्यादिभेदोऽक्ष्णा न गृह्येत कदाचन ॥ २६० ॥
न हि सत्यन्तरङ्गेऽर्थे शक्ते धीर्बाह्यदर्शिनी ।
नियतत्वात् सुखाद्यात्मगुणग्रहणाभावात् ।
किञ्च—नाकारणं विषयः; सुखाद्यभावेऽपि केवलादर्थादिन्द्रियबुद्धेर्जाते-
रुत्पादात् । तस्य सुखादेरिन्द्रियबुद्धिजननं प्रति शक्त्यसिद्धेरविषयत्वम् ॥२५७॥
द्वयो रूपसुखयोः पृथक् पृथग् ज्ञानोपपत्तौ सामर्थ्ये वाभ्युपगम्यमाने
नीलादिवत् केवलं सुखं गृह्येत ।
अयुक्तं चैतत् । न हि तस्य सुखादेर्हेतुमर्थं स्त्र्यादिमगृह्णतः सुखस्य
संवेदनं युक्तम् ।
अर्थेनैव सह सुखस्येन्द्रियधिया ग्रहे नास्ति दोष इति चेत् ? न;
सुखादेरिन्द्रियबुद्धिजनने किमस्ति सामर्थ्यम्, येन तस्याः स विषयः सन्
सह गृह्येत ! यद् यस्मात् तदुद्भवा सुखादुद्भवा नेन्द्रियधीरिष्टा, तस्मान्न
तद्ग्राहिका ॥ २५८–२५९ ॥
ततश्च कथमर्थसुखयोः सहवेदनम् ? अर्थेन विनैव चक्षुरादिभिश्चक्षुरादि-
ज्ञानैः सुखादीनां वेदने चाभ्युपगम्यमाने स्त्र्यादेर्भेदो विशेषो रूपादिः
सुखहेतुरक्ष्णा चक्षुर्ज्ञानेन न कदाचन गृह्येत ॥ २६० ॥
कस्मादेवम् ? इत्याह—अन्तरङ्गे सन्निहिते अर्थे क्षेत्रज्ञसमवेते सुखादौ
शक्ते स्वग्राहिज्ञानोत्पादनक्षमे सति न हि बाह्यदर्शिनी धीरर्थग्राहिणी युक्ता ।

प्रत्यक्षपरिच्छेदः १७९
अर्थग्रहे सुखादीनां तज्ज्ञानां स्यादवेदनम् ॥ २६१ ॥
धियोर्युगपदुत्पत्तौ तत्तद्विषयसम्भवात् ।
सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे ॥ २६२ ॥
सत्यान्तरेऽप्युपादाने ज्ञाने दुःखादिसम्भवः ।
नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम् ॥ २६३ ॥
तदज्ञानस्य विज्ञानं केनोपादानकारणम् ।
आधिपत्यं तु कुर्वीत तद्विरुद्धेऽपि दृश्यते ॥ २६४ ॥
अक्ष्णोर्यथैक आलोको नक्तञ्चरतदन्ययोः ।
रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत् ॥ २६५ ॥
बहिरङ्गो बाह्योऽर्थः; इन्द्रियलोकादिसहकार्यापेक्षणात् । सुखादिस्तु न तत्सापेक्ष
इति तस्माज्जाता धीस्तमेव गृह्णीयात् । इन्द्रियधियाऽर्थग्रहे स्वीक्रियमाणे
सुखादीनां तज्ज्ञानामर्थदर्शनप्रसूतानामर्थमवेदनं स्यात् । इन्द्रियबुद्धिरर्थग्रह
एवोपयुक्ता, तत्कालमन्या च धीर्नास्ति पश्चात् ज्ञानान्तरकाले विषयबलभाविनः
सुखादेरभाव इति कथं वेदनं विषयसुखग्राहिण्योर्द्वयोरिन्द्रियबुद्धिमनोबुद्ध्या-
त्मिकयोः । तस्य सुखहेतोर्दुःखहेतोश्च विषयस्य सम्भवात् युगपदुत्पत्ता-
वभिमतायां सकृदर्थस्य सुखदुःखहेतोः सम्भवे सति सुखदुःखविदौ
स्याताम् ॥ २६१-२६२ ॥
स्यादेतत् । न केवलमर्थे सति, किं तर्हि ? आन्तरे समनन्तरप्रत्यये ज्ञान
उपादाने सति दुःखादिसम्भवः । तच्चोपादानापेक्षं ज्ञानं विरुद्धस्य
सुखादेर्न ( उपादानं ) कारणं भवितुमर्हतीति मतं चेत् ? ॥ २६३ ॥
अत्राह—तद् विज्ञानमज्ञानस्य सुखदुःखादेरुपादानकारणं केन
हेतुना सम्मतम् । समानजातीयं कारणमुपादानम्, नान्यत् । न च सुखादिज्ञान-
मिष्टं ज्ञानमज्ञानकार्ये आधिपत्यं सहकारित्वं कुर्वीत; तदाधिपत्यं विरुद्धेऽपि
कार्ये दृश्यते ॥ २६४ ॥
यथा एक आलोको नक्तञ्चरस्य, मनुष्यादेरक्ष्णो रूपदर्शनस्य
वैगुण्यावैगुण्ये यथाक्रमं सकृत् कुरुते ॥ २६५ ॥

१८० प्रमाणवार्त्तिके
तस्मात् सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम् ।
वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् ॥ २६६ ॥
अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते ।
तेनार्थानुभवख्यातिरालम्बस्तु तदाभता ॥ २६७ ॥
तत्र साङ्ख्यमतनिराकरणम्
कश्चिद् बहिःस्थितानेव सुखादीनप्रचेतनान् ।
ग्राह्यानाह,
न तस्यापि सकृद् युक्तो द्वयग्रहः ॥ २६८ ॥
यस्मादन्येन सुखादीनां वेदनं न घटते, तस्मात् सुखादयो ज्ञानात्मानः
स्वस्मिन् स्वरूपे प्रतिबन्धद्वारेण संक्रान्तावभासनशीलाश्च ये१ तेषामर्थानां१
वेदकाः । आत्मनश्चापरोक्षत्वाद् वेदकाः । अर्थरूपस्यात्मनोऽपरोक्षतैव अर्थ-
वेदनं स्ववेदनञ्च, न त्वन्यः कश्चिद् ग्रहणप्रकारः । ततश्चैषां सुखादीनामर्थस-
रूपाणामर्थेभ्यो जन्मैव केवलं गृहीतृत्वम्, नापरः कश्चिद् व्यापारः ॥२६६॥
अत एव "अर्थानुभवः कथं स्ववेदनम्; अर्थज्ञानयोर्भेदात् । तद्वेदनयोश्च
भेदस्य न्यायप्राप्तत्वाद्" इति ब्रुवाणः प्रतिक्षिप्तः । तथा हि—तेषां सुखादीनाम-
र्थात्मा अर्थाकारः प्रतिबिम्बसंक्रान्त्या स्वात्मभूतः स्वभावभूतस्तैः सुखादिभिर-
नुभूयते; अपरोक्षत्वात् । तेनोपचारेणार्थस्य परभूतस्य प्रतिबिम्बहेतोरनुभवस्य
ख्यातिः प्रसिद्धिः । ततश्च ज्ञानस्यालम्बोऽर्थालम्बनं तदाभता अर्थाकारत्वं
विचार्यमाणमवशिष्यते, न तु पारमार्थिकमालम्बकत्वं नाम ॥ २६७ ॥
इदानीं सांख्यमतमुत्थापयन्नाह—कश्चिद् बहिःस्थितानेव न त्वात्मसम-
वायिनः, प्रधानपरिणामजत्वेन सुखदुःखमोहस्वभावत्वात् अर्थानप्रचेतनान्
आत्मन एव चेतनत्वाद् बुद्धिदर्पणे जडात्मनि स्वच्छेऽर्थचेतनयोः प्रतिबिम्ब-
संक्रान्तिद्वारेण छायापत्त्या चेतनस्य ग्राह्यानाह । तस्यापि मते द्वयस्य
सुखस्य नीलादेश्च सकृद् ग्रहो नियमेन न युक्तः, कदाचिद् रूपनिरपेक्षमपि
रूपसुखमनुभूयते२ ॥ २६८ ॥
१-१. येऽर्थानां तेषां—रा० । २. ०सुखमनुभूयेत—रा० ।

प्रत्यक्षपरिच्छेदः १८१
सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत् सकृद् ग्रहः ।
भिन्नावभासिनोग्राह्यं चेतसोस्तदभेदि किम् ॥ २६९ ॥
तस्याविशेषे बाह्यस्य भावनातारतम्यतः ।
तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः ॥ २७० ॥
सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता ।
स इदानीं कथं बाह्यः सुखाद्यात्मेति गम्यते ? ॥ २७१ ॥
अग्राह्यग्राहकत्वाच्चेद् भिन्नजातीययोः पुमान् ।
अग्राहकः स्यात् सर्वस्य ततो हीयेत भोक्तृता ॥ २७२ ॥
सुखादेरभिन्नरूपत्वान्नीलादेः सकृन्नियमेन ग्रहश्चेत् ? भिन्नाव-
भासिनोर्भिन्नाकारयोः सुखनीलचेतसोग्राह्यं तत् किमभेदि इष्यते; सुख-
दुःखादीनां नीलपीतादीनाञ्च भिन्नमनोग्राह्याणामेकत्वमेवं स्यात् ॥ २६९ ॥
किञ्च—यदि नीलाद्येव सुखाद्यात्मकम्, तदा तस्य बाह्यस्य सुखदुःखाद्या-
त्मतयाऽविशेषे विशेषाभावे रुच्यरुचिविषयतया भावनायास्तारतम्यतः ।
तारतम्यञ्च बुद्धौ प्रीतिपरितापयोर्न स्यात् । न हि ग्राह्याविशेषे तज्ज्ञानं
विशिष्यते ॥ २७० ॥
बुद्धेरपि प्रधानपरिणामरूपाया भावनातारतम्यात् सुखाद्यात्मताविशेषाद्
बाह्याविशेषेऽपि प्रीतिपरितापतारतम्यस्याविरोधितेष्यते । यदि इदानीमन्याभ्युप-
गमे बाह्योऽर्थः, स सुखाद्यात्मेति कथं गम्यते ! अनुभूयमानं सुखमन्यत्रासम्भवाद्
बाह्ये व्यवस्थापनीयम् ॥ २७१ ॥
यदा तु बुद्धिरपि सुखात्मिका, तदा किं बाह्यसुखकल्पनया ! बाह्यमहतोर-
सुखरूपत्वाच्च भिन्नजातीययोर्ग्राह्यग्राहकत्वाभावात् सुखाद्यात्मता बाह्यस्य
गम्यत इति चेत् ? पुमान् चेतनो निर्गुणत्वादसुखादिरूपो ग्राह्यस्याचेतनस्य
सुखाद्यात्मकस्य सर्वस्य भिन्नजातीयत्वात् अग्राहकः स्यात् । ततोऽग्राहकत्वात्
भोक्तृतास्य हीयेत¹ । अनुभविता हि भोक्तोच्यते; अनुभवाभावे कथं भोक्ता;
बुद्धिसुखयोर्ग्राह्यग्राहकाभावात् ॥ २७२ ॥
१. हीयते—रा० ।

१८२ प्रमाणवार्त्तिके
कार्यकारणतानेन प्रत्युक्ताऽकार्यकारणे ।
ग्राह्यग्राहकताभावाद् भावेऽन्यत्रापि सा भवेत् ॥ २७३ ॥
तस्मात् त आन्तरा एव,
संवेद्यत्वाच्च चेतनाः ।
संवेदनं न यद् रूपं न हि तत् तस्य वेदनम् ॥ २७४ ॥
अतत्स्वभावोऽनुभवो बौद्धांस्तान् सन्नवैति चेत् ।
मुक्त्वाध्यक्षस्मृताकारां संवित्तिं बुद्धिरत्र का ! ॥ २७५ ॥
नाकारणं विषय इति कार्यकारणता; ततो ग्राह्यस्य सुखाद्यात्मकत्वात्
तत्कार्याया बुद्ध्यापि सुखाद्यात्मिकया भवितव्यमिति परैरुक्ता कार्यकारणता,
सानेनातिप्रसङ्गेन प्रयुक्ता । तथा हि—भोक्तापि ग्राहक इति स च कार्य-
सुखाद्यात्मकः कथं स्यात् ! अपि च—अकार्यकारणे बुद्धिसुखे ग्राह्यग्राहकतायाः
कार्यकारणतानिबन्धनाया अभावात् ग्राह्यग्राहकत्वाभावात् । कार्यकारणभावस्य
च भावेऽभ्युपगम्यमानेऽन्यत्रात्मविषययोरपि सा कार्यकारणता स्यात्,
ग्राह्यग्राहकताया भावात् ॥ २७३ ॥
यस्मात् सुखादेर्वाह्यस्य भावनात्तस्तारतम्यानुयोगयोगः, तस्मात्सुखादय
आन्तरा ज्ञानस्वभावा अबाया अभ्युपगन्तव्याः ।
किञ्च—संवेद्यत्वाच्च हेतोस्ते चेतनाः । तथा हि—संवेदनं यद्रूपं१
यद्विषयस्वरूपं न भवति तत् संवेदनं तस्य विषयस्य वेदनं तस्मान्न२ भवति ।
न ह्यविषयस्वरूपं प्रतिविषयं भेदव्यवस्थां कर्तुमर्हतीति साकारं ग्राहकम् । तथा
च साकारं ज्ञानमेव सुखमस्तु, तदुपधायकं तु बाह्यमयुक्तम् ; भावनाविशेषेण
सुखादिवेदनस्याविशेषदर्शनात्, बाह्याधीनत्वे च तदयोगात् ॥ २७४ ॥
स्यादेतद् । भावनात्तस्तारतम्ययोगिनस्तान् बुद्ध्यात्मकसुखादीन् अतत्स्व-
भावोऽसुखाद्याकारोऽनुभवः सन्नवैति प्रत्येतीति चेत् ? संवित्तिमध्य-
क्षाकारां हर्षविषादाकारां स्मृताकारामतीतसुखादिकल्पनारूपां सौमनस्यलक्षणां
मुक्त्वा अत्र संवेदनावसरे का परा बुद्धिरनुभूयते, यस्याः सुखाद्यात्मकत्वमध्य-
वसायात्मकत्वं चेष्यते ! ॥ २७५ ॥
१. तद्रूपं—रा० । २. यस्मान्न—रा० ।

प्रत्यक्षपरिच्छेदः १८३
ताँस्तानर्थानुपादाय सुखदुःखादिवेदनम् ।
एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा ॥ २७६ ॥
संसर्गादविभागश्चेदयोगोलकवह्निवत् ।
भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ २७७ ॥
अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत् ।
सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम् ॥ २७८ ॥
भिन्नाभः सितदुःखादिरभिन्नो बुद्धिवेदने ।
अभिन्नाभे विभिन्ने चेत् भेदाभेदौ किमाश्रयौ ! ॥ २७९ ॥
तिरस्कृतानां पटुनाप्येकदाऽभेददर्शनात् ।
प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः ॥ २८० ॥
ताँस्तानर्थानिष्टाननिष्टाननुपादायाश्रित्यैकं सुखदुःखादिवेदनमाविर्भ-
वद् दृष्टम्, अन्यद् बुद्धिरूपमन्तरा विषयसंवेदनयोरन्तराले न दृष्टम् ॥२७६॥
बुद्धिचेतनयोः संसर्गादयोगोलकवह्न्योरिवाविभागो भेदानुपलब्धि-
रिति चेत् ? एवं भिन्नाकारानुभवेऽप्यभेदकल्पनायां सर्ववस्तुषु भेदाभेदव्य-
वस्थोच्छिन्ना स्यात् ॥ २७७ ॥
तथा हि—अभिन्नमेकाकारं वेदनं यस्य तस्यैक्यं यन्नैवं भिन्नवेदनं
तद् विभेदवत् सिध्येत् । अस्यैकाकारज्ञानस्याभेदं प्रत्यसाधनत्वे तद्विपरीत-
भिन्नाकारवेदनं भेदसाधनमसिद्धम् ॥ २७८ ॥
सांख्यस्य तु सितदुःखादिर्भिन्नाकारोऽभिन्न इष्टः । बुद्धिवेदने त्व-
भिन्नाभे विभिन्ने इष्टे चेत् ? भेदाभेदौ किमाश्रयौ किन्निमित्तौ ते व्यव-
स्थापनीयौ ! ॥ २७९ ॥
ननु वेदनाचेतनासंज्ञादीनां चैत्तानां महाभूमिकादीनां सकृदुत्पन्नानां भेदः
परस्परं प्रतीयते, अथ चास्ति, तद्वद् बुद्धिसुखयोरपि स्याद् ? इत्याह—पटुना
सुखदुःखादीनां वेदनास्कन्धसंगृहीतेन चैत्तेन तिरस्कृतानामभिभूतानां संज्ञादीना-
मेकदाऽभेददर्शनात् प्रवाहे चित्तसन्ताने सुखाद्यभावकाले स्वरूपेणोपलक्षितानां
भेदव्यवस्थितिः सिद्धा । रवेरुदये तारका अनुपलक्षिता अपि निशायामुप-

१८४ प्रमाणवार्त्तिके
४. योगिज्ञानप्रत्यक्षम्
प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम् ।
विधूतकल्पनाजालं स्पष्टमेवावभासते ॥ २८१ ॥
कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥ २८२ ॥
न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता ।
स्वप्नेऽपि स्मर्यते स्मार्त्तं न च तत् तादृगर्थवत् ॥ २८३ ॥
अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते ।
लक्ष्यमाणा भेदेन व्यवस्थाप्यन्त एव । तस्माज्ज्ञानात्मानः स्ववेदनाश्च सुखादय
इति ॥ २८० ॥ आख्यातं स्ववेदनम् ॥
योगिज्ञानमाख्यातुमाह—प्राक् प्रथमपरिच्छेदे योगिनां ज्ञानं सत्यविषय-
मुक्तम् । तेषां योगिनां भावनामयं भावनाहेतुनिष्पत्तिकं तत् ज्ञानं सत्यस्वरूप-
विषयत्वेन विधूतकल्पनाजालम्, अविकल्पत्वाच्च स्पष्टं विशदज्ञेयाकार-
मेवावभासते ॥ २८१ ॥
भावनाभवं कथं स्पष्टम् ? इत्याह—कामश्च शोकश्च भयं च तैरून्मादाश्चौरस्व-
प्नादयश्चेति कामशोकभयोन्मादचौरस्वप्नादिभिरुपप्लुता आन्तास्तेऽभूता-
नप्यर्थान् भावनावशात् पुरतोऽवस्थितानिव पश्यन्ति; यस्मात् तदनुरूपां
प्रवृत्तिं चेष्टन्ते ॥ २८२ ॥
भवतु भावनाजं स्पष्टम्, अविकल्पं तु कथम् ? इत्याह—न विकल्पे-
नानुबद्धस्य संस्तुतस्य ज्ञानस्य स्फुटार्थावभासितास्ति ।
ननु विप्लववशात् विकल्पकमपि स्वप्ने स्पष्टाभं ज्ञानं भवति ? इत्याह—
स्वप्नेऽपि स्मार्त्तं स्मरणं किञ्चिदुत्पद्यते । न च तत्प्रबोधावस्थायां तादृग-
र्थवद् यादृशो निर्विकल्पेनानुभूतोऽर्थस्तादृशार्थेन युक्तं स्मर्यते, किं तर्हि ?
अस्पष्टार्थमेव स्वप्नस्मरणं स्मर्यते ॥ २८३ ॥
नन्वभूतार्थभावनाबलजं भवतापि स्पष्टाभमविकल्पं च सिद्धान्ते नेष्यते