सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पञ्चमोऽध्यायः। ११९
आह—आधारात्तु कृत्वा संदेहः, अथ कुत्र तद् भैक्ष्यं
ग्राह्यम् ? । तदुच्यते—पात्रे । यस्मादाह—
पात्रागतम् ॥ १५ ॥
अत्र भैक्ष्यवत् प्रसिद्धं पात्रम् । अलाबुदारुवस्त्रादीनामन्यतमं
यत् प्राप्यते, तत् खलु हिंसास्तेयादिरहितेन क्रमेणाहारयेत्पर्याप्तं
ग्राह्यम् । तस्मिन् तदफलके* पात्रे आगतं पात्रागतमित्यर्थः ॥ १५ ॥
आह—ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति । तत् किं
मधुमांसादीन्येकान्तेनैव दुष्टानीति ? । तदुच्यते—न । यस्मादाह—
मांसमदुष्यं लवणेन वा ॥ १६ ॥
तत्र भैक्ष्यवत् प्रसिद्धं मांसम् । यस्य माहिषवाराहादीनामन्यतमं
यत् प्राप्यते तत् खलु, हिंसास्तेयरहितत्वात् । लवणेन वा । अत्र
लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत् प्रसिद्धम् । तदेतन्मांस-
समसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् । अदुष्यम् अकुत्सितम् अगर्हित-
मित्यर्थः । वा विकल्पे । मांसेन वा लवणेन वा उभाभ्यामपि
साक्षाद्वा अदुष्यमित्यर्थः ॥ १६ ॥
आह—भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ? ।
तदुच्यते—अपः पीत्वा स्थेयम् । यस्मादाह—

  • दारु is mentioned in the previous line.
    १. मनुस्मृतिः २-१७७.

The text on this page is severely faded, overexposed, and largely washed out, making confident reading of the majority of the page impossible. Below is a transcription of the faint traces and fragments that remain partially discernible:

बृहदारण्यक[...]
॥ ७१ ॥ [...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...] ॥
[...]
[...]

(Note: The page is heavily degraded and overexposed/bleached. For an accurate, complete reading, a clearer photograph or scan under adjusted contrast/polarization or from a physical copy is required.)

१२० सभाष्ये पाशुपतसूत्रे
आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ १७ ॥
अत्र आङ् आपः आपः । आङ् इति । अत्र संवृतपरिपूतादि-
मर्यादामाधिकुरुते, कृतान्नोत्सृष्टवद् अपदान्तरितत्वात् । द्वितीयास्थाने
प्रथमा द्रष्टव्या । आपोऽत्र लोकादिप्रसिद्धाः । तृणादिव्यावृत्तमुदक-
मित्यर्थः । वा विभागे । अन्यद् भैक्ष्यम् अन्या आप इति ।
अपिशब्दः सम्भावने । अप्यपः पीत्वा स्थेयं, न तु शास्त्रव्यपेतेन
क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः । यथा इतिशब्दः समानार्थे । यथा
भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं, तथा
अपः पीत्वेति । कालोऽत्र द्विविधः । अलाभकालः अपर्याप्तिकालश्च ।
तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किञ्चिदासादयति, सः
अलाभकालः । अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा
आसादयति, तदा अपः पीत्वापि स्थेयम् । आह—एवं स्थितेन
किमनेन कर्तव्यम् ? । तदुच्यते—उपयोक्तव्यम् । यस्मादाह—
अश्नीयादनुपूर्वशः इति । अश्नीयादिति योगक्रियानुपरोधेनाहार-
लाघवमर्यादामाधिकुरुते । अश भोजने । अश्नीयादनुपूर्वशः । अनु
पृष्ठकर्मक्रियायाम् । अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ।
यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्ति-
काले वा तदनु पश्चादपः पीत्वा स्थेयमिति कृत्वा भगवता
एतदुक्तम् अश्नीयादनुपूर्वश इति । अत्र श्लोको निर्वचनः
॥ १७ ॥
आह—शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं
चिन्त्यते ?, किमकलुषत्वमेवं ? । तदुच्यते—न । यस्मादाह—

The provided image shows extremely faint, blurred show-through (bleed-through) from the reverse side of a page printed on thin paper. Because the text is inverted (mirrored), severely out of focus, and lacks sufficient contrast, it cannot be reliably transcribed line-by-line.

To obtain an accurate transcription, please provide a direct, properly focused photograph or high-resolution scan of the actual printed side of this page.

पञ्चमोऽध्यायः । १२१
गोधर्मा मृगधर्मा वा ॥ १८ ॥
अत्र गौर्लोकादिप्रसिद्धो मृगवत् खुरककुदविषाणसास्नादिमानिति ।
तथा मृगोऽपि गोद्रव्यवल्लोकादिप्रसिद्धः कृष्णमृगादीनामन्यतमः । तयोस्तु
सति धर्मबहुत्वे समानो धर्मो गृह्यते, आध्यात्मिकादिद्वन्द्वसहिष्णुत्वम् ।
तदुत्तरत्र वक्ष्यामः । गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् । वाशब्दो
विकल्पार्थः । क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवदेकधर्मेण चैकधर्मेण
वा स्थेयमित्यर्थः ॥ १८ ॥
आह—केन बलेनास्य कार्यनिष्पत्तिः ? । तदुच्यते—
अद्भिरेव शुचिर्भवेत् ॥ १९ ॥
अत्र अद्भिः आङ् इव अद्भिरेव । आपो जलमित्यादिप्रसिद्धाः
पूर्वोक्ताः । अद्भिरिति तृतीया । आङ् इति पूर्वप्रसिद्धमात्रादिमर्यादा-
मधिकुरुते । गोमृगवद् द्वन्द्वसहिष्णुत्वमर्यादायां च । इव इति
उपमायाम् । यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि
भवन्ति, तद्वत् ॥ १९ ॥
गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ? । उच्यते—न ।
यस्मादाह—गोमृगयोरकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं, सिद्ध-
शक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः । तदाह—
सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ २० ॥
असिद्धस्तु सर्वथापि वर्तमानो लिप्यंत इत्यर्थः । अतो योगी
सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थमुक्तं सिद्धयोगी इति । अत्र
16

[Page Header]
१२२ सभाष्ये पाशुपतसूत्रे

योगो नामात्मेश्वरयोर्योगः । तेनायं योगी । सिद्धो नाम दर्शनाद्यैश्वर्यं
प्राप्तः । स खलु वशीकरणावेशनपालनादिप्रवीणः । न लिप्यते न
संयुज्यत इत्यर्थः । आह—केन न लिप्यते ? । तदुच्यते—कर्मणा ।
अत्र कर्मणेत्युच्यते । कस्मात् ? । कृतकत्वात् । कर्मणेति तृतीया ।
इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत
इत्यर्थः । आह—अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते,
आहो अथकिमशुभेन कर्मणा लिप्यते नेति ? । तदुच्यते—न ।
यस्मादाह—पातकेन । अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रिय-
विषयगतोऽशुभं भुङ्क्ते, तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत
इत्यर्थः । वा विकल्पे । पातकेन वा अपातकेन वा समस्ताभ्यां वा
वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ।
कस्मात् ? । सिद्धिसामर्थ्यात् । असिद्धश्चायं योगी ब्राह्मणो गोमृग-
धर्मावस्थो यदि सर्वथापि गोमृगवत् प्रवर्तते, ततो लिप्यते । तस्माद्
गोमृगयोरकुशलधर्मो न ग्राह्यः । कुशलधर्मश्च स्वाध्यात्मिकादिद्वन्द्व-
सहिष्णुत्वं परिगृह्यते । तेनायं शुचिर्भवति । आह—किमस्या-
शौचम् ? । तदुच्यते—द्वन्द्वैर्योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः
शीतादिभिरन्यैर्वा । न लिप्यते न संयुज्यत इत्यर्थः । कस्मात् ? ।
प्राप्तबलत्वादित्यर्थः । अत्र श्लोको निर्वचनः ॥ २० ॥

आह—शून्यागारगुहावस्थ्यस्येन्द्रियजये वर्ततः काः क्रियाः
कर्तव्याः ? । किं स्नानहसिताद्याः ?, क्राथनस्पन्दनमण्डनाद्या वा ? ।
तदुच्यते—न । यस्मादाह--

पञ्चमोऽध्यायः । १२३
ऋचमिष्टामधीयीत
गायत्रीमात्मयन्वितः ॥ २१ ॥
अत्र ऋचम् ऋचामित्यप्यदुष्टः पाठः । अत्र ऋचा नामाघोरा ।
कथं गम्यते ? । ऋङ्ग्मध्यात् । सद्योजाततत्पुरुषेशानवदर्चिवर्चगीः (?) ।
इष्टा चेयं, तत्र तत्र जप्यन्यत्वेन गुणीकृतत्वात् । पूर्वोत्तरसूत्रेषु जप्यन्यत्वेन
गायत्र्या सहाध्यानादाशुभावसमाध्यासादनाच्च इष्टा । अध्ययनम् इति
जप्यपर्यायः । ईत इत्याज्ञायां नियोगे च । मानसमेवाऽधीयीतेत्यर्थः ।
आह—किं ऋचैवकाध्येतव्या ? । उच्यते—न । यस्मादाह—गायत्रीम्
इति । गायत्री नाम तत्पुरुषा । निरुक्तमस्याः पूर्वोक्तम् । मानस-
मेवाधीयीतेत्यर्थः । आह—कीदृशोऽधीयीतेति ? । तदुच्यते—आत्म-
यन्वितः । आत्मयन्त्रणमिति प्रत्याहारपर्यायः । आत्मेति क्षेत्रज्ञ
उच्यते । आत्मत्वमस्य चैतन्यम् । आप्तव्यं कार्यं करणं विषयाश्च ।
आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते । यन्त्रणं नाम—यथायमात्मभावो
ब्रह्मण्यक्षरपदपङ्क्त्यां युक्तो वर्तते, तदात्मा यन्वितो भवति । कथम् ? ।
नृत्यप्रसक्तचित्तदृष्टान्तात् । कस्मात् ? । आत्मात्मभावयोरव्युच्छेदात् ।
गुणगुणिनोरपि तथा युगपद्भावः । कथम् ? । यष्टुं प्रवृत्तो यन्तयितुं
च प्रवृत्त एव भवति । भिक्षुवत् । तस्माद् यन्त्रणमेवैष प्रत्याहार
इति ॥ २१ ॥
आह—अत्र गायत्रीबहुत्वात् सन्देहः । कथमवगम्यते ऋचा
अघोरेण वा तत्पुरुषेणेति ? । उच्यते—गम्यते । यस्मादाह—

१२४ सभाष्ये पाशुपतसूत्रे
रौद्रीं वा बहुरूपीं वा ॥ २२ ॥
अत्र रौद्री नाम तत्पुरुषा । निरुक्तमस्याः पूर्वोक्तम् । वा-
शब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः । बहुरूपी नामाघोरा ।
वा विकल्पे । तुल्यफलत्वात् । वेत्यत एका चैका वा । आत्मयन्त्रितो-
ऽधीयीत इत्यर्थः ॥ २२ ॥
आह—आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ? । तदुच्यते—
अतो योगः प्रवर्तते ॥ २३ ॥
अत्र अत इति कारणापदेशे । आत्मयन्त्रितोऽधीयीतेत्यर्थः ।
तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः । योग इति । आत्मेश्वर-
संयोगो योग इति मन्तव्यः । प्र इत्यादिकर्मणि । प्रवर्तते इत्यस्य
पूर्वोक्तोऽर्थः । अत्र श्लोको निर्वचनः ॥ २३ ॥
आह—ऋचमधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव
स्थेयम् ? । आहोस्वित् दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रिया-
ध्याननमःस्तव्यम् ? । उच्यते—दृष्टा । यस्मादाह—
ओङ्कारमभिध्यायीत ॥ २४ ॥
अत्र ओम् इत्येष जप्यपर्यायो वामदेवादिवत् । कारशब्दो-
ऽवधारणे द्रष्टव्यः । किंकारणम् ? । उक्तं हि—
“ प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ ”

पञ्चमोऽध्यायः । १२५
इत्यत ओङ्कार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ।
अभिरभ्यासे । ओङ्कारसन्निकृष्टचित्तेन भवितव्यम् । ध्यै चिन्ता-
याम् । ध्यानं चिन्तनमित्यर्थः । उक्तं हि—
“ ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चोङ्कारलक्षणम् ।
धीयते लीयते वापि तस्माद् ध्यानमिति स्मृतम् ॥ ”
मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ।
ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ ”
ईत इत्याज्ञायां नियोगे च । ओङ्कार१ एव ध्येयो नान्य इत्यर्थः
॥ २४ ॥
आह—ओङ्कारो ध्येयः । को वा ध्यानदेशः ? । कस्मिन्
वा देशे धारणा कर्तव्या ? । ध्यायमानेन वा किं कर्तव्यम् ? ।
तदुच्यते—
हृदि कुर्वीत धारणाम् ॥ २५ ॥
तत्र हृदि इत्यात्मपर्यायः । कस्मात् ? । पूर्वोत्तरसामर्थ्यात् ।
योऽर्थो यत्र मिलति स तत्र स्थापयितव्यः, स एवार्थो धारयितव्यः ।
किञ्च, वेदप्रामाण्यादुक्तम्—
“ २अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ ”
१. ‘दुःखान्तनिमित्तध्यानैकविषयत्वम् ओङ्कारत्वम्’ । गणकारिकाव्याख्या page 11.
२. एकाग्निकाण्डं प्र० २, ख० १२.

१२५ सभाष्ये पाशुपतसूत्रे
अन्यत्रापि—
“ आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता ।
आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ ”
अतो हृदयमात्मेत्युक्तम् ।
“ ++ प्रकुरुते भावं बुद्धिरध्यवसायिताम् ।
हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ ”
तथा लोकेऽपि सन्ति वक्तारो—हृदयं ते ज्ञास्यति । किमुक्तं भवति ।
आत्मा ते ज्ञास्यतीति । अतोऽवगम्यते हृदीत्यात्मपर्यायः । हृदीति
औपश्लेषिकं सन्निधानम् । अत्र तु ओङ्कारो धार्यो नात्मा, किन्तु य
एवात्मन्यात्मभावः । तस्योङ्कारात् प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण
गतस्य प्रत्यानयनं प्रत्याहारः । प्रत्याहृत्य हृदि धारणा कर्तव्या ।
धार्यं चोङ्कारानुचिन्तनम् । तत्रैव सुदीर्घकालमवस्थानमध्ययनम् ।
तद्धारणाहितं परं ध्यानम् । निष्ठायोगस्तु स्थापयित्वेति, (अ० ५,
सू० ३८) वक्ष्यामः । कुर्वीत इति । डुकृञ् करणे । तस्य सप्तम्यन्ते
कुर्वीतेति भवति । हृदि धारणा कर्तव्या । ईत इत्याज्ञायां नियोगे च ।
पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ।
हृदि धार्या, नान्यत्रेत्यर्थः ॥ २५ ॥
आह—ओङ्कारः किं परुष(?) विष्णुरुमा कुमारश्च, चतस्रोऽर्धमात्रा
वा ? । उत समानपुरुष इति ? । उच्यते—न । यस्मादाह—
ऋषिर्विप्रो महानेषः ॥ २६ ॥
अत्र ऋषिः इत्येतद् भगवतो नामधेयम् । ऋषिः कस्मात् ? ।
ऋषिः क्रियायाम् । ऋषित्वं नाम क्रियाशंसनादृषिः । तथा कृत्स्नं

पञ्चमोऽध्यायः । १२७
कार्यं विद्याद्यमीशत इत्यतः ऋषिः । तथा विप्र इत्येतदपि भगवतो
नाम । विप्रः कस्मात् ? । विद ज्ञाने । विप्रत्वं नाम ज्ञानशक्तिः ।
व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ।
तथा महान् इत्यभ्यधिकत्वे । यदेतद् दृक्क्रियालक्षणमस्ति अना-
गन्तुकमकृतकमैश्वर्यं तद्गुणसद्भावः, सतत्त्वं तत्त्वधर्मः, तदकृतकं
पुरुषचैतन्यवत् , तन्नान्यस्येत्यतोऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति
महान् । एष इति प्रत्यक्षे । एष यो मया पूर्वमोमिति श्रोत्र-
प्रत्यक्षीकृतोऽर्थः, असौ विष्णूमाकुमारादीनामन्यतमो न भवति ।
कस्मात् ? । ऋषित्वाद् विप्रत्वाद् महत्त्वाच्चेत्यर्थः ॥ २६ ॥
आह—ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ? ।
कीदृशो वा ओङ्कारो ध्येयः ? । तदुच्यते—
वाग्विशुद्धः ॥ २७ ॥
अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् । न अमी
इत्यन्यो भगवान् । स यथा ह्यथो हित्वा वाणीं मनसा सह
रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः । यस्मादुक्तम्—
१. ‘ सर्वदा सर्वत्राविचलितस्वभावेन वर्तमानो भगवान् एष इत्युच्यते ’,
२. “ गुणधर्मद्वारेण वाचः प्रवर्तन्ते यस्मादतस्तद्व्यतिरिक्तस्तदविशेषितश्च भगवान्
विशुद्ध इत्युच्यते ।
नित्यानागन्तुकैश्वर्ययुक्ते परमकारणे ।
यत्र वाचो निवर्तन्ते वाग्विशुद्धः स कीर्तितः ॥ ”
गणकारिकाव्याख्या page 11.

१२८ सभाष्ये पाशुपतसूत्रे
“ आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे ।
येन प्राप्तं योगे मुहूर्तमपि तत् परो योगः ॥ ”
परमयोग इत्यर्थः ॥ २७ ॥
आह—अथ यथायं वालवन्निष्कलस्तथा किं समानपुरुषः ? ।
तदुच्यते—न । यस्मादाह—तदाप्ययं,
महेश्वरः ॥ २८ ॥
अत्रानाद्यज्ञानद्यतिना (?) ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण
महेश्वर इति सिद्धम् । इह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं
समानपुरुषवदनीश्वर इत्यस्य संशयस्य संव्युदासार्थमुच्यते महेश्वर इति ।
यस्मादस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ।
तदकृतकत्वं पुरुषचैतन्यवत् । अतस्तदाप्ययं महानेवेश्वरो महेश्वरः ।
तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ।
एवमोङ्कारमिति ध्येयमुक्तम् । ध्येयगुणीकरणमुक्तम् ऋषिविप्रो
महानेष इति । ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति । ध्येय-
शक्तिप्रशंसा चोक्ता महेश्वर इति । एवं यस्मादिन्द्रियजये वर्तते, अतो
वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ २८ ॥
अतोऽत्र युक्तं वक्तुं—शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥

१. “ न खर्धुनी न फणिनो न कपालदाम
नेन्दोः कला न गिरिजा न जटा न भस्म ।
यत्रान्यदेव च न किञ्चिदुपास्महे तद्
रूपं पुराणमुनिशीलितमीश्वरस्य ॥ ”
आचार्यहरिभद्रकृतषड्दर्शनसमुच्चये ; गणकारिकाव्याख्या page 29.

पञ्चमोऽध्यायः । १२९
आह—शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च
प्राप्ता भवति, तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेना दुःखान्त-
प्राप्तेः स्थेयम् ? । आहोस्विद् दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रिया-
लाभाश्चेति ? । उच्यते—दृष्टः । यस्मादाह—
श्मशानवासी ॥ ३०* ॥
आह—शून्यागारगुहामुत्सृज्य प्रयोजनाभावात् श्मशाने
संक्रान्तिरयुक्तेति चेत् ? । तदुच्यते—न । योगन्यासङ्गपरिहारार्थत्वात् ।
इहावस्थानादवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रिया-
लाभादयोऽयुतसिद्धा वक्तव्याः । तत्रादिधर्मा अप्यस्य तावदायतने
वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः
स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ।
तथा असन्मान (अ० ४, सू० ९) परिभवोपदेशाद् (अ० ३, सू० ५)
आयतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वम् इन्द्रियद्वारपिधानं च
क्रिया इन्द्रियाणि पिधाय (अ० ४, सू० ४) उन्मत्तवदवस्थानं पापक्षया-
च्छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते । तथा वसत्यर्थः
शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययन-
ध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता
जितेन्द्रियत्वं चेति । तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा

  • 'ऋचम्-...' इत्येकविंशस्य सूत्रस्य सूत्रद्वयकल्पनया तत्र तत्र सूत्रसंख्यायाः सूचित्त्वात् तदनुसारेणेह सूत्रसंख्या निवेशिता ।
    १. 'अष्टाङ्गं—१. ग्रहण, २ धारण, ३. ऊह, ४. अपोह, ५ विज्ञान,
    ६. वचन, ७. क्रिया, ८. यथान्यायाभिनिवेशनम् ।' गणकारिकाव्याख्या page 17.
    17

१३० सभाष्ये पाशुपतसूत्रे
यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु
सायुज्यम् । तथोत्तरत्र ऋषिरिति वसत्यर्थः बलमप्रमादः प्रसाद
उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति । तथोक्तं च—
‘“ पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः ।
यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः ॥
प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् ।
योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥
अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च ।
अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥
वासो ध्यानमखिलकरणनिरोधस्तथा स्मृतिश्चैव ।
प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥
वासार्थो लोकश्च शून्यागारं तथा श्मशानं च ।
रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ ”
तस्माद्युक्तमुक्तम् । स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ।
अत्र श्मशानं नाम—यदेतल्लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि
परित्यजन्ति तत् । शवसम्बन्धात् श्मशानम् । तस्मिन्नाकाशे वृक्षमूले
यथानभिष्वङ्गमर्यादया जितद्वन्द्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम्। वसति-
संयोगात् श्मशानवासी भवति, पुलिनवासिवदित्यर्थः ॥ ३० ॥
आह—किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ? । तदुच्यते—
न । यस्मादाह—

धर्मात्मा ॥ ३१ ॥
अत्र धर्मो नाम—य एष यमनियमपूर्वकोऽभिव्यक्तो माहात्म्यादि-
धर्मः, स पूर्वोक्तः । सोऽस्यात्मनि प्रचितः । तेन धर्मेण धर्मात्मा
भवतीत्यर्थः ॥ ३१ ॥
आह—किमस्य भैक्ष्यमेव वृत्तिः ? । उच्यते—न । यस्मादाह—
यथालब्धोपजीवकः ॥ ३२ ॥
अत्र यथा इति समानार्थे । अम्लादिषु, जितेन्द्रियत्वात् । लब्धम्
आसादितमप्रार्थितमित्यर्थः । उप इति समीपधारणे । तद् यथालब्ध-
मन्नपानं श्मशानादनिर्गच्छता । दिवसे दिवसे जीवनाय स्थित्यर्थं
तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ ३२ ॥
आह—किं जीवनमेव परो लाभ इति ? । उच्यते—न ।
यस्मादाह—
लभते रुद्रसायुज्यम् ॥ ३३ ॥
अत्र लभते विन्दते आसादयतीत्यर्थः । रुद्र इति कारणा-
पदेशे । रुद्रस्य रुद्रत्वं पूर्वोक्तम् । साक्षाद् रुद्रेण सह संयोगः
सायुज्यम् । भावग्रहणमात्मेश्वराभ्यामन्यत्र प्रतिषेधार्थम् । योगस्य
सम्यक्त्वं सायुज्यमिति योगपर्यायोऽवगम्यते । धर्मात्म-(अ० ५,
सू० ३१)वचनादतिगत्यानन्त्यवदित्यर्थः ॥ ३३ ॥
आह—तत् केनोपायेन लभते ?। किमध्ययनध्या(प?)नाभ्यामेव ?।
तदुच्यते--न । यस्मादाह—

१३२ सभाष्ये पाशुपतसूत्रे
सदा रुद्रमनुस्मरेत् ॥ ३४ ॥
अत्र सदा नित्यं सततमप्युच्छिन्नमिति । रुद्रमिति कारणापदेशे ।
रुद्रस्य रुद्रत्वं पूर्वोक्तम् । रुद्रमिति द्वितीया कर्मणि । अनु पृष्ठकर्मक्रियायाम्।
पूर्वोक्तो ध्येयोऽर्थः सततंमनुस्मर्त्तव्यः । स्मृतिः चिन्तायाम् । ऊष्मवदव-
स्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततंमनुस्मर्त्तव्यः । स्मृतिस्तु
देवनित्यतेत्यर्थः । ततः क्षीणे कर्मणि तदोषहेतुजालमूलविशिष्टस्य
प्रत्यासैक(?)निमित्ताभावात् सायुज्यप्राप्तौ न पुनः संसारः । अत्र
श्लोको निर्वचनः ॥ ३४ ॥
आह—अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात् सन्देहः ।
(किं) सूक्ष्मवदवस्थिते कर्मणि क्षीणेऽत्यन्तविशुद्धः सायुज्यमासादयति ,
आहोस्विदविशुद्ध इति ? । उच्यते—विशुद्धः । यस्मादाह—
छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ ३५ ॥
अत्र व्युत्क्रमाभिधानाच्छेदः क्रमशॊ योजनीयः । यन्त्रणधारणा-
त्मकश्छेदो द्रष्टव्यः । किमर्थम् ? । सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं
वसत्यर्थादिनिर्देशार्थत्वात् । किञ्च अर्थानामनिर्वचनार्थत्वात् तत्र जप
एव केवलोऽभिहितः । इह तु यत इन्द्रियाणि जेतव्यानि, यो जेता,
यया जेतव्यानि, यथा जेतव्यानि, यत्प्रयोजनं जेतव्यानि, यस्मिंश्च
जिते जितानि भवन्ति, तद् वक्ष्यामः । तथा यस्यात्मवृत्तिरध्ययनध्यान-
स्मरणादि च वक्ष्यामः । तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं
छेदप्रयोजनं छेद्यं च्छित्तिं यस्मिन् छिन्ने छिन्नं भवति, तद् वक्ष्यामः ।
तदुच्यते—छित्त्वा । अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ।

पञ्चमोऽध्यायः । १३३
विच्छेदवचनाद् गम्यते । त्वा इति शून्यागारगुहावस्थितस्याध्ययन-
ध्यानधारणयन्त्रणादिकं गम्यते । आह—किं तत् ? । केभ्यो वा
छेत्तव्यम् ? । तदुच्यते—दोषाणां हेतुजालस्य मूलम् इति । अत्र
दोषाः शब्दस्पर्शरूपरसगन्धाः। कस्मात् ? । कामार्जनादिमूलत्वात् ।
यस्मादुक्तं—
“कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः ।
रागो द्वेषश्च मोहश्च”
तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः। अर्जनं नाम प्रतिग्रहजय-
क्रयविक्रयनिर्वेशादिषु वर्णिनां विषयार्जनोपायाः। एतेषु च विषयाणा-
मर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः । तत्र यद्यात्मानं
पीडयति, तेन इहैव लोके दुःखी भवति । स्यात् परं पीडयति, तत्रा-
प्यस्याधर्मो दुःखादिफलः संचीयते । तच्च दुःखं नान्योऽनुभवति, कर्तैवा-
नुभवति । अपिच किम्पाकफलोपमा विषयाः । तद्यथा श्रूयते—
“लवणसागरसन्निकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः।
तत्फलान्यास्वादेनामृतोपमानि च केचिदज्ञानाद् गुडवद् भक्षयन्ति ।
भक्षितानि च तानि मूर्च्छां छर्दिं च जनयन्ति । तत्तीव्रदुःखाभिभूताः
पञ्चत्वमापुः । ”
“श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्यवमन्यते ।
स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥”
एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति । परिणामे
संसारे जन्मनिमित्तत्वाद् दुःखानि प्रतिपद्यन्ते । इत्येवं विषयाणा-
मर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् । तथा-
ऽन्यः कथम् ? । अस्त्वेव विषयाणामर्जने दोषः । स भवतु तेषाम् ।

[Page Header]
१३४ सभाष्ये पाशुपतसूत्रे


न वयं तत् प्रतिषेधयामः । अयं त्वन्यः कष्टो विषयदोषः । कश्चासाविति ? ।
उच्यते—रक्षणदोषः । अर्जितानामप्येषांमवश्यमेवोग्रतायुधेन रक्षा-
विधातव्या । कस्मात् ? । नृपदहनतस्करदायादसाधारणफलत्वात् ।
तत्रात्मपीडा । परपीडायां च यथोक्तः । उक्तं हि—
“ ^१स्वद्रव्यं पुरुषं चोराः ^२स्वमांसं पिशिताशिनः ।
क्लेशयन्ति यथा घोरास्तथाहि विषया नरम् ॥
क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् ।
तेषामेव परित्यागात् सर्वक्लेशक्षयो भवेत् ॥
आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् ।
नापरित्यज्य विषयान् विषयी सुखमेधते ॥”
विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि
कश्चित् । तथा अन्यः कथम् ? । अस्त्वेषा विषयाणामर्जनरक्षणादौ
दोषौ भवतस्तेषाम् । न वयं तौ प्रतिषेधयामः । अयं त्वन्यः कष्टतरो
(दो ?) विषयाणां दोषः । कश्चासाविति ? । उच्यते—क्षयो दोषः ।
अर्जितानां सुरक्षितानामप्येषामवश्यमेवाभ्युपगन्तव्यः (क्षयः) । विषय-
क्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते । मत्स्यादिवद् यथो-
दकक्षये नदीनां, तद्वत् । तस्मादशोभनम् । उक्तं हि—
“ त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः ।
स्त्रियोऽन्नपानमैश्वर्यं तेषु जाग्रथ ब्राह्मणाः ! ॥
नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः ।
नास्ति लोभसमं दुःखं नास्ति त्यागात् परं सुखम् ॥”


१, २. 'सद्रव्यं, समांसम्' इति स्यान्

पञ्चमोऽध्यायः । १३५
इति । एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां
वा यदि कश्चित् । तथान्यः कथम् ? इति । सन्त्वेते विषयदोषाः ।
अयमन्यतरः कष्टतरो दोषः । कश्चासाविति ? । उच्यते—सङ्गदोषः ।
यदि तावदर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं
च । यदि सङ्गदोषो न स्यात् । कथम् ? । यावदयमिन्द्रिययुक्तो
विषयानाभिलषति, तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ।
भूय एव ‘विषयानन्वेष्टुमारभते । ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ।
तस्मादशोभनम् । उक्तं हि—
“ ‘ न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत् तृप्त्यै तस्माद् विद्वान् शमं व्रजेत् ॥ ”
इति । एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि
कश्चित् । तथान्यः कथम् ? इति । सन्त्वेते विषयाणामर्जनादयो दोषाः ।
ते भवन्तु तेषाम् । न वयं तान् प्रतिषेधयामः । अयं त्वन्यः कष्टतमो
विषयाणां दोषः । कश्चासाविति ? । उच्यते—हिंसादोषः । शक्यमेतेषां
विषयाणामर्जनादि कर्तुम्, इन्द्रियलौल्यदोषोऽपि भवतु । यदि
हिंसादोषो न स्यात् । कथम् ? । एतेषामेव विषयाणामुपभोगे
वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः । कस्मात् ? । नानुपहृत्य
भूतानि विषयोपभोगः शक्यते कर्तुम् । तत्र शब्दानिमित्तं
१. विष्णुपुराणे अंश ४, अ० १०,

[Page Header] १३६ सभाष्य पाशुपतसूत्रे

तावदयं क्रियते । तद्यथा—वीणानिमित्तं खदिरादीन् छिद्यमानान्
दृष्ट्वा तन्तीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद्
ब्रूयाद् अशोभनोऽयं भूतवधः क्रियते, कदनं कर्म क्रियते*
[स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा भिक्षाप्रदगृहेषु रम्यान्
शब्दान् श्रोष्यसि, तत्र परः परितोषो भविष्यति । तथा] सूत्रादि-
निमित्तं तावद् भूतवधः क्रियते । तद्यथा—कोशकारादीन् वध्यमानान्
दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं कर्म क्रियते ।
स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा भिक्षद्गृहेषु मृदुतरस्पर्शानि
वासांसि प्राप्स्यसि, तत्र ते परः परितोषो भविष्यति । तथा रूपनिमित्तं
तावद् भूतवधः क्रियते । तद्यथा—अशोकादीन् वृक्षान् छिद्यमानान् दृष्ट्वा
हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो-
ऽयं भूतवधः कदनं कर्म क्रियते । स वक्तव्योऽत्र ते न शोभनोऽयम् ।
यदा भिक्षद्गृहमलङ्कृतकवाटगोपुरं द्रक्ष्यसि, तत्र ते परः परितोषो
भविष्यति । तथा रसनिमित्तं तावद् भूतवधः क्रियते । तद्यथा—
तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनो-
ऽयं भूतवधः क्रियते । स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा
भिक्षद्गृहेषु षड्रसमांसप्रकारैर्भोंक्ष्यसे, तत्र ते परः परितोषो भविष्यति ।
तथा गन्धनिमित्तं तावद् भूतवधः क्रियते । तद्यथा—(पञ्च)नखादीन्
वध्यमानान् दृष्ट्वा यदि कश्चिद् ब्रूयाद् अशोभनोऽयं भूतवधः कदनं
कर्म क्रियते । स वक्तव्योऽत्र ते न शोभनोऽयम् । यदा भिक्षद्-
गृहेषु सुगन्धान् गन्धान् प्राप्स्यसि, तत्र ते परितोषो भविष्यति ।
एवं—


  • Seems few lines are missing.