सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 136, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 136

पञ्चमोऽध्यायः । १२७
कार्यं विद्याद्यमीशत इत्यतः ऋषिः । तथा विप्र इत्येतदपि भगवतो
नाम । विप्रः कस्मात् ? । विद ज्ञाने । विप्रत्वं नाम ज्ञानशक्तिः ।
व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ।
तथा महान् इत्यभ्यधिकत्वे । यदेतद् दृक्क्रियालक्षणमस्ति अना-
गन्तुकमकृतकमैश्वर्यं तद्गुणसद्भावः, सतत्त्वं तत्त्वधर्मः, तदकृतकं
पुरुषचैतन्यवत् , तन्नान्यस्येत्यतोऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति
महान् । एष इति प्रत्यक्षे । एष यो मया पूर्वमोमिति श्रोत्र-
प्रत्यक्षीकृतोऽर्थः, असौ विष्णूमाकुमारादीनामन्यतमो न भवति ।
कस्मात् ? । ऋषित्वाद् विप्रत्वाद् महत्त्वाच्चेत्यर्थः ॥ २६ ॥
आह—ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ? ।
कीदृशो वा ओङ्कारो ध्येयः ? । तदुच्यते—
वाग्विशुद्धः ॥ २७ ॥
अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् । न अमी
इत्यन्यो भगवान् । स यथा ह्यथो हित्वा वाणीं मनसा सह
रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः । यस्मादुक्तम्—
१. ‘ सर्वदा सर्वत्राविचलितस्वभावेन वर्तमानो भगवान् एष इत्युच्यते ’,
२. “ गुणधर्मद्वारेण वाचः प्रवर्तन्ते यस्मादतस्तद्व्यतिरिक्तस्तदविशेषितश्च भगवान्
विशुद्ध इत्युच्यते ।
नित्यानागन्तुकैश्वर्ययुक्ते परमकारणे ।
यत्र वाचो निवर्तन्ते वाग्विशुद्धः स कीर्तितः ॥ ”
गणकारिकाव्याख्या page 11.