पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 134, कुल 166 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः । १२५
इत्यत ओङ्कार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ।
अभिरभ्यासे । ओङ्कारसन्निकृष्टचित्तेन भवितव्यम् । ध्यै चिन्ता-
याम् । ध्यानं चिन्तनमित्यर्थः । उक्तं हि—
“ ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चोङ्कारलक्षणम् ।
धीयते लीयते वापि तस्माद् ध्यानमिति स्मृतम् ॥ ”
मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ।
ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ ”
ईत इत्याज्ञायां नियोगे च । ओङ्कार१ एव ध्येयो नान्य इत्यर्थः
॥ २४ ॥
आह—ओङ्कारो ध्येयः । को वा ध्यानदेशः ? । कस्मिन्
वा देशे धारणा कर्तव्या ? । ध्यायमानेन वा किं कर्तव्यम् ? ।
तदुच्यते—
हृदि कुर्वीत धारणाम् ॥ २५ ॥
तत्र हृदि इत्यात्मपर्यायः । कस्मात् ? । पूर्वोत्तरसामर्थ्यात् ।
योऽर्थो यत्र मिलति स तत्र स्थापयितव्यः, स एवार्थो धारयितव्यः ।
किञ्च, वेदप्रामाण्यादुक्तम्—
“ २अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ ”
१. ‘दुःखान्तनिमित्तध्यानैकविषयत्वम् ओङ्कारत्वम्’ । गणकारिकाव्याख्या page 11.
२. एकाग्निकाण्डं प्र० २, ख० १२.