सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 133, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 133

१२४ सभाष्ये पाशुपतसूत्रे
रौद्रीं वा बहुरूपीं वा ॥ २२ ॥
अत्र रौद्री नाम तत्पुरुषा । निरुक्तमस्याः पूर्वोक्तम् । वा-
शब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः । बहुरूपी नामाघोरा ।
वा विकल्पे । तुल्यफलत्वात् । वेत्यत एका चैका वा । आत्मयन्त्रितो-
ऽधीयीत इत्यर्थः ॥ २२ ॥
आह—आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ? । तदुच्यते—
अतो योगः प्रवर्तते ॥ २३ ॥
अत्र अत इति कारणापदेशे । आत्मयन्त्रितोऽधीयीतेत्यर्थः ।
तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः । योग इति । आत्मेश्वर-
संयोगो योग इति मन्तव्यः । प्र इत्यादिकर्मणि । प्रवर्तते इत्यस्य
पूर्वोक्तोऽर्थः । अत्र श्लोको निर्वचनः ॥ २३ ॥
आह—ऋचमधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव
स्थेयम् ? । आहोस्वित् दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रिया-
ध्याननमःस्तव्यम् ? । उच्यते—दृष्टा । यस्मादाह—
ओङ्कारमभिध्यायीत ॥ २४ ॥
अत्र ओम् इत्येष जप्यपर्यायो वामदेवादिवत् । कारशब्दो-
ऽवधारणे द्रष्टव्यः । किंकारणम् ? । उक्तं हि—
“ प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ ”