सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 131, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 131

[Page Header]
१२२ सभाष्ये पाशुपतसूत्रे

योगो नामात्मेश्वरयोर्योगः । तेनायं योगी । सिद्धो नाम दर्शनाद्यैश्वर्यं
प्राप्तः । स खलु वशीकरणावेशनपालनादिप्रवीणः । न लिप्यते न
संयुज्यत इत्यर्थः । आह—केन न लिप्यते ? । तदुच्यते—कर्मणा ।
अत्र कर्मणेत्युच्यते । कस्मात् ? । कृतकत्वात् । कर्मणेति तृतीया ।
इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत
इत्यर्थः । आह—अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते,
आहो अथकिमशुभेन कर्मणा लिप्यते नेति ? । तदुच्यते—न ।
यस्मादाह—पातकेन । अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रिय-
विषयगतोऽशुभं भुङ्क्ते, तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत
इत्यर्थः । वा विकल्पे । पातकेन वा अपातकेन वा समस्ताभ्यां वा
वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ।
कस्मात् ? । सिद्धिसामर्थ्यात् । असिद्धश्चायं योगी ब्राह्मणो गोमृग-
धर्मावस्थो यदि सर्वथापि गोमृगवत् प्रवर्तते, ततो लिप्यते । तस्माद्
गोमृगयोरकुशलधर्मो न ग्राह्यः । कुशलधर्मश्च स्वाध्यात्मिकादिद्वन्द्व-
सहिष्णुत्वं परिगृह्यते । तेनायं शुचिर्भवति । आह—किमस्या-
शौचम् ? । तदुच्यते—द्वन्द्वैर्योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः
शीतादिभिरन्यैर्वा । न लिप्यते न संयुज्यत इत्यर्थः । कस्मात् ? ।
प्राप्तबलत्वादित्यर्थः । अत्र श्लोको निर्वचनः ॥ २० ॥

आह—शून्यागारगुहावस्थ्यस्येन्द्रियजये वर्ततः काः क्रियाः
कर्तव्याः ? । किं स्नानहसिताद्याः ?, क्राथनस्पन्दनमण्डनाद्या वा ? ।
तदुच्यते—न । यस्मादाह--