पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 132, कुल 166 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः । १२३
ऋचमिष्टामधीयीत
गायत्रीमात्मयन्वितः ॥ २१ ॥
अत्र ऋचम् ऋचामित्यप्यदुष्टः पाठः । अत्र ऋचा नामाघोरा ।
कथं गम्यते ? । ऋङ्ग्मध्यात् । सद्योजाततत्पुरुषेशानवदर्चिवर्चगीः (?) ।
इष्टा चेयं, तत्र तत्र जप्यन्यत्वेन गुणीकृतत्वात् । पूर्वोत्तरसूत्रेषु जप्यन्यत्वेन
गायत्र्या सहाध्यानादाशुभावसमाध्यासादनाच्च इष्टा । अध्ययनम् इति
जप्यपर्यायः । ईत इत्याज्ञायां नियोगे च । मानसमेवाऽधीयीतेत्यर्थः ।
आह—किं ऋचैवकाध्येतव्या ? । उच्यते—न । यस्मादाह—गायत्रीम्
इति । गायत्री नाम तत्पुरुषा । निरुक्तमस्याः पूर्वोक्तम् । मानस-
मेवाधीयीतेत्यर्थः । आह—कीदृशोऽधीयीतेति ? । तदुच्यते—आत्म-
यन्वितः । आत्मयन्त्रणमिति प्रत्याहारपर्यायः । आत्मेति क्षेत्रज्ञ
उच्यते । आत्मत्वमस्य चैतन्यम् । आप्तव्यं कार्यं करणं विषयाश्च ।
आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते । यन्त्रणं नाम—यथायमात्मभावो
ब्रह्मण्यक्षरपदपङ्क्त्यां युक्तो वर्तते, तदात्मा यन्वितो भवति । कथम् ? ।
नृत्यप्रसक्तचित्तदृष्टान्तात् । कस्मात् ? । आत्मात्मभावयोरव्युच्छेदात् ।
गुणगुणिनोरपि तथा युगपद्भावः । कथम् ? । यष्टुं प्रवृत्तो यन्तयितुं
च प्रवृत्त एव भवति । भिक्षुवत् । तस्माद् यन्त्रणमेवैष प्रत्याहार
इति ॥ २१ ॥
आह—अत्र गायत्रीबहुत्वात् सन्देहः । कथमवगम्यते ऋचा
अघोरेण वा तत्पुरुषेणेति ? । उच्यते—गम्यते । यस्मादाह—