पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
११४ सभाष्ये पाशुपतसूत्रे
मूत्रपुरीषदर्शनप्रतिषेधात् (अ० १, सू० १२) कृतान्तादिवचनाच्च(अ० ४,
सू० ७) चक्षुः उच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं घटरूपादि-
व्यञ्जनसमर्थं सिद्धम् । तथा मांसलवणोपदेशात् (अ० ५, सू० १६)
जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ।
तथा प्राणायामोपदेशाद् (अ० १, सू० १६) घ्राणं प्रमुखे उच्चैरुभयथा
द्विरधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् । एवमधिकारिवृत्तिभि-
र्बुद्ध्यन्तेभिः पुरुष इति बुद्धीन्द्रियाणि । तथा कर्मेन्द्रियाणि ।
मण्डनविहरणोपदेशात् (अ० ३, सू० १४; ४, ६) पादेन्द्रियमधस्ताद्
द्विरधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् । तथा मूत्रपुरीष-
दर्शनप्रतिषेधात् (अ० १, सू० १२) पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टम्
उत्सर्गक्रियासमर्थं सिद्धम् । तथा स्त्रीप्रतिषेधाद् (अ० १, सू० १३)
उपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टमानन्दक्रियासमर्थं सिद्धम् । तथा
अपितत्कर्मोपदेशात् (अ० ३, सू० १६) हस्तेन्द्रियमुच्चैरुभयथा
द्विरधिष्ठाने भुजान्तर्देशे संनिविष्टमादानक्रियासमर्थं सिद्धम् । तथा
अपितद्भाषणोपदेशाद् (अ० ३, सू० १७) वागिन्द्रियं वाक्ताल्लु-
जिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् । अत्र विकार-
तद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि । एवमेतानि त्रयोदश
करणानीन्द्रियाणि सूत्रतो व्याख्यातानि । कस्मात् ? । इन्द्रियाणामिति
सामान्यग्रहणाद् विकरणवत् सामान्यप्रतिषेधाच्च । इन्द्रियाणाम् इति
षष्ठीबहुवचनम् । उक्तं हि—
“आदानाद् ग्रहणात् त्यागाद् रङ्गणाद् गमनात् तथा ।
इङ्गनाद्रवणाच्चैव तस्मादिन्द्रियमुच्यते ॥”
अभिजयाद् इति । अभिशब्दः अत्यन्तविजये वशीकरणे च ।
आक्रम्य वशीकर्त्तव्यानि । वायुकामक्रोधपाटलिपुत्रवत् । तस्मादकुशलेभ्यो
[Header] पञ्चमोऽध्यायः । ११५
व्यावर्तयित्वा कामतः कुशले योजितानि (यदा), तदा जितानि भवन्ति ।
तस्माद् उक्तम्—इन्द्रियाणामभिजयादिति । असङ्गादिजन्मनिमित्तत्वात्
पञ्चमी द्रष्टव्या ॥ ७ ॥
आह—अन्यत्र साङ्ख्ययोगादीनाम् असङ्गादियुक्ताः मुक्ताः
शान्ति प्राप्ताः। निरभिलप्या मुक्ता इत्युच्यन्ते। मुक्त एव न युक्त
इति क्व सिद्धम् ? । तदुच्यते—इह। यस्मादाह—
रुद्रः प्रोवाच तावत् ॥ ८ ॥
तत्र रुद्र इति कारणापदेशे । रुद्रत्वं पूर्वोक्तम् । प्र इत्य-
भिधानविशुद्धौ । प्रसन्नेन्द्रियवत् । वच व्यक्तायां वाचि । प्रोवाच
इति । एवं यत् साङ्ख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः
शान्तिं प्राप्ता इति, तदविशुद्धं तेषां दर्शनम् । तैमिरिकस्य चक्षुष-
श्चन्द्रदर्शनवत् । अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं
द्रष्टव्यम् । कस्मात् ? । सर्वज्ञवचनादविसंवादित्वाच्चैतद् गम्यम् ।
एवमेतन्नान्यथेत्यर्थः । किञ्चान्यदिदम् अथशब्दादि शिवान्तं प्रवचनं
रुद्रप्रोक्तं तावत् सर्वतन्त्राणां श्रेष्ठम् । तस्मात् कारणशास्त्रयोः
परप्रमाणभावोऽवधार्यत इत्यर्थः । अत्र श्लोको निर्वचनः ॥ ८ ॥
आह—किमेतानीन्द्रियाणि परिज्ञानमात्रादेव जितानि भवन्ति
प्रधानवत् ? । तदुच्यते—न । ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः,
यस्मादेषां जये भगवता वसत्यर्थवृत्तिक्रियालाभाय वसता(?) इत्यत-
स्तज्जये वसत्यर्थ एव तावदुच्यते । यस्मादाह—
११६ सभाष्य पाशुपतसूत्रे
शून्यागारगुहावासी ॥ ९ ॥
इति । अत्र शून्यमेवागारं शून्यागारम् । शून्यं विविक्तं निर्जन-
मित्यर्थः । आगारम् इति गृहपर्यायः । आगारं गृहं वेश्म सदन-
मिति पर्यायः । गुहू संवरणे । प्रविष्टं साधकं आवरयति गोपयतीति
गुहा । आह—आवरकत्वाविशेषाच्छून्यागारगुहयोरविशेष इति चेत् ,
तदुच्यते—मृत्तृणकाष्ठादिकृतम् अगारं, पर्वतगुहाद्या गुहा । तस्मान्ना-
विशेष इति । यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः,
सर्वज्ञत्वतो विशेषः । तस्मादायतनेऽविविक्तदोषं दृष्ट्वा शून्यागारे
गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थाना-
सनशयनादिभिरुपजीवति, तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभि-
निविष्टेन वस्तव्यम् । वसतिसंयोगाद् गुहावासी भवति । पुलिनवासि-
वत् ॥ ९ ॥
आह—तत् कथं ज्ञेयं, यथा जितानीन्द्रियाणि ? । तेषां जितानां
वा किं लक्षणम् ? । तदुच्यते—
देवनित्यः ॥ १० ॥
अत्र देवो भगवान् । तत्र यदास्य भगवति देवे नित्यता ।
कथम् ? । अध्ययनध्यानाभ्यां देवेऽधिकृतस्य प्राधान्येन निश्चलता
वर्तते । स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः । स्मृतिस्तु
देवनित्यतेत्यर्थः ॥ १० ॥
आह—देवनित्यतायाः किं लक्षणम् ?। तदुच्यते—जितेन्द्रियत्वम् ।
यस्मादाह—
पञ्चमोऽध्यायः । ११७
जितेन्द्रियः ॥ ११ ॥
अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् । इन्द्रियाणि
बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि । तानि यदा
अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकर-
वदवस्थितानि भवन्ति, तदा देवनित्यो जितेन्द्रिय इत्यर्थः ॥ ११ ॥
आह—किं देवनित्यतैवास्य परो निष्ठायोगः ? । उच्यते—न ।
यस्मादाह—
षण्मासान्नित्ययुक्तस्य ॥ १२ ॥
अथवान्यो दूरस्थः सम्बन्धः । यस्मादुक्तं—
“यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि ।
अर्थतोऽन्यसमानानामानन्तर्येऽप्यसङ्गतिः ॥”
एवमिहापि दूरस्थः सम्बन्धः । कस्मात् ? । इह पुरस्तादुक्तं विज्ञानानि
चास्य प्रवर्तन्ते (अ० १, सू० २१) इति, एतैर्गुणैर्युक्त (अ० १, सू० ३८)
इति च । (एतत् ?) कियता कालेनास्य ते गुणाः प्रवर्तन्ते ? । किं
युक्तस्य, किं वियुक्तस्य?, किं युगपत्, क्रमशो वा ?, किं सकलस्य
निष्कलस्य वेति ? । इत्येषामर्थानामनिर्वचनानां निर्वचनार्थमिद-
मारभ्यते। यस्मादाह—षण्मासान्नित्ययुक्तस्य । अत्र षड् इति सङ्ख्या ।
मासान् इति कालनिर्देशः । मनुष्यगणनया त्रिंशद्दिवसो मासः ।
द्वादश मासाः संवत्सरः । द्वादश पक्षा अर्धसंवत्सरः । षण्मासानिति ।
१. “तस्य तत् । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्” इत्यन्यत्र.
११८ सभाष्ये पाशुपतसूत्रे
तस्मात् षष्ठप्रथममासयोरभ्यन्तरे । नित्ययुक्तस्य । (नित्यं) स-
मविच्छिन्नमित्यर्थः । युक्त इति । आत्मेश्वरसंयोगो योगः । नित्ययुक्त
इति षष्ठी ॥ १२ ॥
आह—अस्य युक्तस्य किं भवति ? । तदुच्यते—
भूयिष्ठं सम्प्रवर्तते ॥ १३ ॥
अत्र भूयिष्ठम् इति क्रमे प्राये च भवति । यथा क्रमशो दद
आदित्यो वा गतो भूयिष्ठम् । तस्मात् सूच्यग्रेणोत्पलपत्रशतभे-
क्रमवत् क्रमाद् दूरदर्शनादयः प्रवर्तन्त इत्यर्थः । सम् इत्येकीभ-
निष्कलस्य कार्यकारणरहितस्येत्यर्थः । प्र इत्यादिकर्मण्यारम्भे भव-
युक्तोत्तरे प्रभावाद् गुणाः प्रवर्तन्ते इत्यर्थः । वर्तते कस्मिन् ? । द-
दृश्ये, श्रवणादि श्रव्यादिष्वित्यर्थः । तस्मात् षष्ठप्रथममासयोरभ्य-
नित्ययुक्तस्य क्रमशोगुणाः संप्र
पञ्चमोऽध्यायः। ११९
आह—आधारात्तु कृत्वा संदेहः, अथ कुत्र तद् भैक्ष्यं
ग्राह्यम् ? । तदुच्यते—पात्रे । यस्मादाह—
पात्रागतम् ॥ १५ ॥
अत्र भैक्ष्यवत् प्रसिद्धं पात्रम् । अलाबुदारुवस्त्रादीनामन्यतमं
यत् प्राप्यते, तत् खलु हिंसास्तेयादिरहितेन क्रमेणाहारयेत्पर्याप्तं
ग्राह्यम् । तस्मिन् तदफलके* पात्रे आगतं पात्रागतमित्यर्थः ॥ १५ ॥
आह—ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति । तत् किं
मधुमांसादीन्येकान्तेनैव दुष्टानीति ? । तदुच्यते—न । यस्मादाह—
मांसमदुष्यं लवणेन वा ॥ १६ ॥
तत्र भैक्ष्यवत् प्रसिद्धं मांसम् । यस्य माहिषवाराहादीनामन्यतमं
यत् प्राप्यते तत् खलु, हिंसास्तेयरहितत्वात् । लवणेन वा । अत्र
लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत् प्रसिद्धम् । तदेतन्मांस-
समसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् । अदुष्यम् अकुत्सितम् अगर्हित-
मित्यर्थः । वा विकल्पे । मांसेन वा लवणेन वा उभाभ्यामपि
साक्षाद्वा अदुष्यमित्यर्थः ॥ १६ ॥
आह—भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ? ।
तदुच्यते—अपः पीत्वा स्थेयम् । यस्मादाह—
- दारु is mentioned in the previous line.
१. मनुस्मृतिः २-१७७.
The text on this page is severely faded, overexposed, and largely washed out, making confident reading of the majority of the page impossible. Below is a transcription of the faint traces and fragments that remain partially discernible:
बृहदारण्यक[...]
॥ ७१ ॥ [...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...]
[...] ॥
[...]
[...]
(Note: The page is heavily degraded and overexposed/bleached. For an accurate, complete reading, a clearer photograph or scan under adjusted contrast/polarization or from a physical copy is required.)
१२० सभाष्ये पाशुपतसूत्रे
आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ १७ ॥
अत्र आङ् आपः आपः । आङ् इति । अत्र संवृतपरिपूतादि-
मर्यादामाधिकुरुते, कृतान्नोत्सृष्टवद् अपदान्तरितत्वात् । द्वितीयास्थाने
प्रथमा द्रष्टव्या । आपोऽत्र लोकादिप्रसिद्धाः । तृणादिव्यावृत्तमुदक-
मित्यर्थः । वा विभागे । अन्यद् भैक्ष्यम् अन्या आप इति ।
अपिशब्दः सम्भावने । अप्यपः पीत्वा स्थेयं, न तु शास्त्रव्यपेतेन
क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः । यथा इतिशब्दः समानार्थे । यथा
भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं, तथा
अपः पीत्वेति । कालोऽत्र द्विविधः । अलाभकालः अपर्याप्तिकालश्च ।
तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किञ्चिदासादयति, सः
अलाभकालः । अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा
आसादयति, तदा अपः पीत्वापि स्थेयम् । आह—एवं स्थितेन
किमनेन कर्तव्यम् ? । तदुच्यते—उपयोक्तव्यम् । यस्मादाह—
अश्नीयादनुपूर्वशः इति । अश्नीयादिति योगक्रियानुपरोधेनाहार-
लाघवमर्यादामाधिकुरुते । अश भोजने । अश्नीयादनुपूर्वशः । अनु
पृष्ठकर्मक्रियायाम् । अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ।
यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्ति-
काले वा तदनु पश्चादपः पीत्वा स्थेयमिति कृत्वा भगवता
एतदुक्तम् अश्नीयादनुपूर्वश इति । अत्र श्लोको निर्वचनः
॥ १७ ॥
आह—शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं
चिन्त्यते ?, किमकलुषत्वमेवं ? । तदुच्यते—न । यस्मादाह—
The provided image shows extremely faint, blurred show-through (bleed-through) from the reverse side of a page printed on thin paper. Because the text is inverted (mirrored), severely out of focus, and lacks sufficient contrast, it cannot be reliably transcribed line-by-line.
To obtain an accurate transcription, please provide a direct, properly focused photograph or high-resolution scan of the actual printed side of this page.
पञ्चमोऽध्यायः । १२१
गोधर्मा मृगधर्मा वा ॥ १८ ॥
अत्र गौर्लोकादिप्रसिद्धो मृगवत् खुरककुदविषाणसास्नादिमानिति ।
तथा मृगोऽपि गोद्रव्यवल्लोकादिप्रसिद्धः कृष्णमृगादीनामन्यतमः । तयोस्तु
सति धर्मबहुत्वे समानो धर्मो गृह्यते, आध्यात्मिकादिद्वन्द्वसहिष्णुत्वम् ।
तदुत्तरत्र वक्ष्यामः । गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् । वाशब्दो
विकल्पार्थः । क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवदेकधर्मेण चैकधर्मेण
वा स्थेयमित्यर्थः ॥ १८ ॥
आह—केन बलेनास्य कार्यनिष्पत्तिः ? । तदुच्यते—
अद्भिरेव शुचिर्भवेत् ॥ १९ ॥
अत्र अद्भिः आङ् इव अद्भिरेव । आपो जलमित्यादिप्रसिद्धाः
पूर्वोक्ताः । अद्भिरिति तृतीया । आङ् इति पूर्वप्रसिद्धमात्रादिमर्यादा-
मधिकुरुते । गोमृगवद् द्वन्द्वसहिष्णुत्वमर्यादायां च । इव इति
उपमायाम् । यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि
भवन्ति, तद्वत् ॥ १९ ॥
गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ? । उच्यते—न ।
यस्मादाह—गोमृगयोरकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं, सिद्ध-
शक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः । तदाह—
सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ २० ॥
असिद्धस्तु सर्वथापि वर्तमानो लिप्यंत इत्यर्थः । अतो योगी
सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थमुक्तं सिद्धयोगी इति । अत्र
16
[Page Header]
१२२ सभाष्ये पाशुपतसूत्रे
योगो नामात्मेश्वरयोर्योगः । तेनायं योगी । सिद्धो नाम दर्शनाद्यैश्वर्यं
प्राप्तः । स खलु वशीकरणावेशनपालनादिप्रवीणः । न लिप्यते न
संयुज्यत इत्यर्थः । आह—केन न लिप्यते ? । तदुच्यते—कर्मणा ।
अत्र कर्मणेत्युच्यते । कस्मात् ? । कृतकत्वात् । कर्मणेति तृतीया ।
इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत
इत्यर्थः । आह—अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते,
आहो अथकिमशुभेन कर्मणा लिप्यते नेति ? । तदुच्यते—न ।
यस्मादाह—पातकेन । अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रिय-
विषयगतोऽशुभं भुङ्क्ते, तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत
इत्यर्थः । वा विकल्पे । पातकेन वा अपातकेन वा समस्ताभ्यां वा
वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ।
कस्मात् ? । सिद्धिसामर्थ्यात् । असिद्धश्चायं योगी ब्राह्मणो गोमृग-
धर्मावस्थो यदि सर्वथापि गोमृगवत् प्रवर्तते, ततो लिप्यते । तस्माद्
गोमृगयोरकुशलधर्मो न ग्राह्यः । कुशलधर्मश्च स्वाध्यात्मिकादिद्वन्द्व-
सहिष्णुत्वं परिगृह्यते । तेनायं शुचिर्भवति । आह—किमस्या-
शौचम् ? । तदुच्यते—द्वन्द्वैर्योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः
शीतादिभिरन्यैर्वा । न लिप्यते न संयुज्यत इत्यर्थः । कस्मात् ? ।
प्राप्तबलत्वादित्यर्थः । अत्र श्लोको निर्वचनः ॥ २० ॥
आह—शून्यागारगुहावस्थ्यस्येन्द्रियजये वर्ततः काः क्रियाः
कर्तव्याः ? । किं स्नानहसिताद्याः ?, क्राथनस्पन्दनमण्डनाद्या वा ? ।
तदुच्यते—न । यस्मादाह--
पञ्चमोऽध्यायः । १२३
ऋचमिष्टामधीयीत
गायत्रीमात्मयन्वितः ॥ २१ ॥
अत्र ऋचम् ऋचामित्यप्यदुष्टः पाठः । अत्र ऋचा नामाघोरा ।
कथं गम्यते ? । ऋङ्ग्मध्यात् । सद्योजाततत्पुरुषेशानवदर्चिवर्चगीः (?) ।
इष्टा चेयं, तत्र तत्र जप्यन्यत्वेन गुणीकृतत्वात् । पूर्वोत्तरसूत्रेषु जप्यन्यत्वेन
गायत्र्या सहाध्यानादाशुभावसमाध्यासादनाच्च इष्टा । अध्ययनम् इति
जप्यपर्यायः । ईत इत्याज्ञायां नियोगे च । मानसमेवाऽधीयीतेत्यर्थः ।
आह—किं ऋचैवकाध्येतव्या ? । उच्यते—न । यस्मादाह—गायत्रीम्
इति । गायत्री नाम तत्पुरुषा । निरुक्तमस्याः पूर्वोक्तम् । मानस-
मेवाधीयीतेत्यर्थः । आह—कीदृशोऽधीयीतेति ? । तदुच्यते—आत्म-
यन्वितः । आत्मयन्त्रणमिति प्रत्याहारपर्यायः । आत्मेति क्षेत्रज्ञ
उच्यते । आत्मत्वमस्य चैतन्यम् । आप्तव्यं कार्यं करणं विषयाश्च ।
आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते । यन्त्रणं नाम—यथायमात्मभावो
ब्रह्मण्यक्षरपदपङ्क्त्यां युक्तो वर्तते, तदात्मा यन्वितो भवति । कथम् ? ।
नृत्यप्रसक्तचित्तदृष्टान्तात् । कस्मात् ? । आत्मात्मभावयोरव्युच्छेदात् ।
गुणगुणिनोरपि तथा युगपद्भावः । कथम् ? । यष्टुं प्रवृत्तो यन्तयितुं
च प्रवृत्त एव भवति । भिक्षुवत् । तस्माद् यन्त्रणमेवैष प्रत्याहार
इति ॥ २१ ॥
आह—अत्र गायत्रीबहुत्वात् सन्देहः । कथमवगम्यते ऋचा
अघोरेण वा तत्पुरुषेणेति ? । उच्यते—गम्यते । यस्मादाह—
१२४ सभाष्ये पाशुपतसूत्रे
रौद्रीं वा बहुरूपीं वा ॥ २२ ॥
अत्र रौद्री नाम तत्पुरुषा । निरुक्तमस्याः पूर्वोक्तम् । वा-
शब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः । बहुरूपी नामाघोरा ।
वा विकल्पे । तुल्यफलत्वात् । वेत्यत एका चैका वा । आत्मयन्त्रितो-
ऽधीयीत इत्यर्थः ॥ २२ ॥
आह—आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ? । तदुच्यते—
अतो योगः प्रवर्तते ॥ २३ ॥
अत्र अत इति कारणापदेशे । आत्मयन्त्रितोऽधीयीतेत्यर्थः ।
तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः । योग इति । आत्मेश्वर-
संयोगो योग इति मन्तव्यः । प्र इत्यादिकर्मणि । प्रवर्तते इत्यस्य
पूर्वोक्तोऽर्थः । अत्र श्लोको निर्वचनः ॥ २३ ॥
आह—ऋचमधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव
स्थेयम् ? । आहोस्वित् दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रिया-
ध्याननमःस्तव्यम् ? । उच्यते—दृष्टा । यस्मादाह—
ओङ्कारमभिध्यायीत ॥ २४ ॥
अत्र ओम् इत्येष जप्यपर्यायो वामदेवादिवत् । कारशब्दो-
ऽवधारणे द्रष्टव्यः । किंकारणम् ? । उक्तं हि—
“ प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ ”
पञ्चमोऽध्यायः । १२५
इत्यत ओङ्कार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ।
अभिरभ्यासे । ओङ्कारसन्निकृष्टचित्तेन भवितव्यम् । ध्यै चिन्ता-
याम् । ध्यानं चिन्तनमित्यर्थः । उक्तं हि—
“ ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चोङ्कारलक्षणम् ।
धीयते लीयते वापि तस्माद् ध्यानमिति स्मृतम् ॥ ”
मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ।
ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ ”
ईत इत्याज्ञायां नियोगे च । ओङ्कार१ एव ध्येयो नान्य इत्यर्थः
॥ २४ ॥
आह—ओङ्कारो ध्येयः । को वा ध्यानदेशः ? । कस्मिन्
वा देशे धारणा कर्तव्या ? । ध्यायमानेन वा किं कर्तव्यम् ? ।
तदुच्यते—
हृदि कुर्वीत धारणाम् ॥ २५ ॥
तत्र हृदि इत्यात्मपर्यायः । कस्मात् ? । पूर्वोत्तरसामर्थ्यात् ।
योऽर्थो यत्र मिलति स तत्र स्थापयितव्यः, स एवार्थो धारयितव्यः ।
किञ्च, वेदप्रामाण्यादुक्तम्—
“ २अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ ”
१. ‘दुःखान्तनिमित्तध्यानैकविषयत्वम् ओङ्कारत्वम्’ । गणकारिकाव्याख्या page 11.
२. एकाग्निकाण्डं प्र० २, ख० १२.
१२५ सभाष्ये पाशुपतसूत्रे
अन्यत्रापि—
“ आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता ।
आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ ”
अतो हृदयमात्मेत्युक्तम् ।
“ ++ प्रकुरुते भावं बुद्धिरध्यवसायिताम् ।
हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ ”
तथा लोकेऽपि सन्ति वक्तारो—हृदयं ते ज्ञास्यति । किमुक्तं भवति ।
आत्मा ते ज्ञास्यतीति । अतोऽवगम्यते हृदीत्यात्मपर्यायः । हृदीति
औपश्लेषिकं सन्निधानम् । अत्र तु ओङ्कारो धार्यो नात्मा, किन्तु य
एवात्मन्यात्मभावः । तस्योङ्कारात् प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण
गतस्य प्रत्यानयनं प्रत्याहारः । प्रत्याहृत्य हृदि धारणा कर्तव्या ।
धार्यं चोङ्कारानुचिन्तनम् । तत्रैव सुदीर्घकालमवस्थानमध्ययनम् ।
तद्धारणाहितं परं ध्यानम् । निष्ठायोगस्तु स्थापयित्वेति, (अ० ५,
सू० ३८) वक्ष्यामः । कुर्वीत इति । डुकृञ् करणे । तस्य सप्तम्यन्ते
कुर्वीतेति भवति । हृदि धारणा कर्तव्या । ईत इत्याज्ञायां नियोगे च ।
पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ।
हृदि धार्या, नान्यत्रेत्यर्थः ॥ २५ ॥
आह—ओङ्कारः किं परुष(?) विष्णुरुमा कुमारश्च, चतस्रोऽर्धमात्रा
वा ? । उत समानपुरुष इति ? । उच्यते—न । यस्मादाह—
ऋषिर्विप्रो महानेषः ॥ २६ ॥
अत्र ऋषिः इत्येतद् भगवतो नामधेयम् । ऋषिः कस्मात् ? ।
ऋषिः क्रियायाम् । ऋषित्वं नाम क्रियाशंसनादृषिः । तथा कृत्स्नं
पञ्चमोऽध्यायः । १२७
कार्यं विद्याद्यमीशत इत्यतः ऋषिः । तथा विप्र इत्येतदपि भगवतो
नाम । विप्रः कस्मात् ? । विद ज्ञाने । विप्रत्वं नाम ज्ञानशक्तिः ।
व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ।
तथा महान् इत्यभ्यधिकत्वे । यदेतद् दृक्क्रियालक्षणमस्ति अना-
गन्तुकमकृतकमैश्वर्यं तद्गुणसद्भावः, सतत्त्वं तत्त्वधर्मः, तदकृतकं
पुरुषचैतन्यवत् , तन्नान्यस्येत्यतोऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति
महान् । एष इति प्रत्यक्षे । एष यो मया पूर्वमोमिति श्रोत्र-
प्रत्यक्षीकृतोऽर्थः, असौ विष्णूमाकुमारादीनामन्यतमो न भवति ।
कस्मात् ? । ऋषित्वाद् विप्रत्वाद् महत्त्वाच्चेत्यर्थः ॥ २६ ॥
आह—ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ? ।
कीदृशो वा ओङ्कारो ध्येयः ? । तदुच्यते—
वाग्विशुद्धः ॥ २७ ॥
अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् । न अमी
इत्यन्यो भगवान् । स यथा ह्यथो हित्वा वाणीं मनसा सह
रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः । यस्मादुक्तम्—
१. ‘ सर्वदा सर्वत्राविचलितस्वभावेन वर्तमानो भगवान् एष इत्युच्यते ’,
२. “ गुणधर्मद्वारेण वाचः प्रवर्तन्ते यस्मादतस्तद्व्यतिरिक्तस्तदविशेषितश्च भगवान्
विशुद्ध इत्युच्यते ।
नित्यानागन्तुकैश्वर्ययुक्ते परमकारणे ।
यत्र वाचो निवर्तन्ते वाग्विशुद्धः स कीर्तितः ॥ ”
गणकारिकाव्याख्या page 11.
१२८ सभाष्ये पाशुपतसूत्रे
“ आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे ।
येन प्राप्तं योगे मुहूर्तमपि तत् परो योगः ॥ ”
परमयोग इत्यर्थः ॥ २७ ॥
आह—अथ यथायं वालवन्निष्कलस्तथा किं समानपुरुषः ? ।
तदुच्यते—न । यस्मादाह—तदाप्ययं,
महेश्वरः ॥ २८ ॥
अत्रानाद्यज्ञानद्यतिना (?) ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण
महेश्वर इति सिद्धम् । इह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं
समानपुरुषवदनीश्वर इत्यस्य संशयस्य संव्युदासार्थमुच्यते महेश्वर इति ।
यस्मादस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ।
तदकृतकत्वं पुरुषचैतन्यवत् । अतस्तदाप्ययं महानेवेश्वरो महेश्वरः ।
तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ।
एवमोङ्कारमिति ध्येयमुक्तम् । ध्येयगुणीकरणमुक्तम् ऋषिविप्रो
महानेष इति । ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति । ध्येय-
शक्तिप्रशंसा चोक्ता महेश्वर इति । एवं यस्मादिन्द्रियजये वर्तते, अतो
वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ २८ ॥
अतोऽत्र युक्तं वक्तुं—शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥
१. “ न खर्धुनी न फणिनो न कपालदाम
नेन्दोः कला न गिरिजा न जटा न भस्म ।
यत्रान्यदेव च न किञ्चिदुपास्महे तद्
रूपं पुराणमुनिशीलितमीश्वरस्य ॥ ”
आचार्यहरिभद्रकृतषड्दर्शनसमुच्चये ; गणकारिकाव्याख्या page 29.
पञ्चमोऽध्यायः । १२९
आह—शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च
प्राप्ता भवति, तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेना दुःखान्त-
प्राप्तेः स्थेयम् ? । आहोस्विद् दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रिया-
लाभाश्चेति ? । उच्यते—दृष्टः । यस्मादाह—
श्मशानवासी ॥ ३०* ॥
आह—शून्यागारगुहामुत्सृज्य प्रयोजनाभावात् श्मशाने
संक्रान्तिरयुक्तेति चेत् ? । तदुच्यते—न । योगन्यासङ्गपरिहारार्थत्वात् ।
इहावस्थानादवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रिया-
लाभादयोऽयुतसिद्धा वक्तव्याः । तत्रादिधर्मा अप्यस्य तावदायतने
वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः
स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ।
तथा असन्मान (अ० ४, सू० ९) परिभवोपदेशाद् (अ० ३, सू० ५)
आयतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वम् इन्द्रियद्वारपिधानं च
क्रिया इन्द्रियाणि पिधाय (अ० ४, सू० ४) उन्मत्तवदवस्थानं पापक्षया-
च्छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते । तथा वसत्यर्थः
शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययन-
ध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता
जितेन्द्रियत्वं चेति । तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा
- 'ऋचम्-...' इत्येकविंशस्य सूत्रस्य सूत्रद्वयकल्पनया तत्र तत्र सूत्रसंख्यायाः सूचित्त्वात् तदनुसारेणेह सूत्रसंख्या निवेशिता ।
१. 'अष्टाङ्गं—१. ग्रहण, २ धारण, ३. ऊह, ४. अपोह, ५ विज्ञान,
६. वचन, ७. क्रिया, ८. यथान्यायाभिनिवेशनम् ।' गणकारिकाव्याख्या page 17.
17
१३० सभाष्ये पाशुपतसूत्रे
यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु
सायुज्यम् । तथोत्तरत्र ऋषिरिति वसत्यर्थः बलमप्रमादः प्रसाद
उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति । तथोक्तं च—
‘“ पञ्च लाभान् मलान् पञ्च पञ्चोपायान् विशेषतः ।
यस्तु बुध्यति पञ्चार्थे स विद्वान् नात्र संशयः ॥
प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् ।
योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥
अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च ।
अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥
वासो ध्यानमखिलकरणनिरोधस्तथा स्मृतिश्चैव ।
प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥
वासार्थो लोकश्च शून्यागारं तथा श्मशानं च ।
रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ ”
तस्माद्युक्तमुक्तम् । स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ।
अत्र श्मशानं नाम—यदेतल्लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि
परित्यजन्ति तत् । शवसम्बन्धात् श्मशानम् । तस्मिन्नाकाशे वृक्षमूले
यथानभिष्वङ्गमर्यादया जितद्वन्द्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम्। वसति-
संयोगात् श्मशानवासी भवति, पुलिनवासिवदित्यर्थः ॥ ३० ॥
आह—किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ? । तदुच्यते—
न । यस्मादाह—
धर्मात्मा ॥ ३१ ॥
अत्र धर्मो नाम—य एष यमनियमपूर्वकोऽभिव्यक्तो माहात्म्यादि-
धर्मः, स पूर्वोक्तः । सोऽस्यात्मनि प्रचितः । तेन धर्मेण धर्मात्मा
भवतीत्यर्थः ॥ ३१ ॥
आह—किमस्य भैक्ष्यमेव वृत्तिः ? । उच्यते—न । यस्मादाह—
यथालब्धोपजीवकः ॥ ३२ ॥
अत्र यथा इति समानार्थे । अम्लादिषु, जितेन्द्रियत्वात् । लब्धम्
आसादितमप्रार्थितमित्यर्थः । उप इति समीपधारणे । तद् यथालब्ध-
मन्नपानं श्मशानादनिर्गच्छता । दिवसे दिवसे जीवनाय स्थित्यर्थं
तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ ३२ ॥
आह—किं जीवनमेव परो लाभ इति ? । उच्यते—न ।
यस्मादाह—
लभते रुद्रसायुज्यम् ॥ ३३ ॥
अत्र लभते विन्दते आसादयतीत्यर्थः । रुद्र इति कारणा-
पदेशे । रुद्रस्य रुद्रत्वं पूर्वोक्तम् । साक्षाद् रुद्रेण सह संयोगः
सायुज्यम् । भावग्रहणमात्मेश्वराभ्यामन्यत्र प्रतिषेधार्थम् । योगस्य
सम्यक्त्वं सायुज्यमिति योगपर्यायोऽवगम्यते । धर्मात्म-(अ० ५,
सू० ३१)वचनादतिगत्यानन्त्यवदित्यर्थः ॥ ३३ ॥
आह—तत् केनोपायेन लभते ?। किमध्ययनध्या(प?)नाभ्यामेव ?।
तदुच्यते--न । यस्मादाह—