सामग्री पर जाएँ
सर्वकोश
पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)

Pashupata Sutras of Lakulisha with Panchartha Bhashya

भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा

DevanagariSanskritpublished166 पृष्ठ

पृष्ठ 121, कुल 166 में से

संदर्भ में पढ़ें
पृष्ठ 121

११४ सभाष्ये पाशुपतसूत्रे
मूत्रपुरीषदर्शनप्रतिषेधात् (अ० १, सू० १२) कृतान्तादिवचनाच्च(अ० ४,
सू० ७) चक्षुः उच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं घटरूपादि-
व्यञ्जनसमर्थं सिद्धम् । तथा मांसलवणोपदेशात् (अ० ५, सू० १६)
जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ।
तथा प्राणायामोपदेशाद् (अ० १, सू० १६) घ्राणं प्रमुखे उच्चैरुभयथा
द्विरधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् । एवमधिकारिवृत्तिभि-
र्बुद्ध्यन्तेभिः पुरुष इति बुद्धीन्द्रियाणि । तथा कर्मेन्द्रियाणि ।
मण्डनविहरणोपदेशात् (अ० ३, सू० १४; ४, ६) पादेन्द्रियमधस्ताद्
द्विरधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् । तथा मूत्रपुरीष-
दर्शनप्रतिषेधात् (अ० १, सू० १२) पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टम्
उत्सर्गक्रियासमर्थं सिद्धम् । तथा स्त्रीप्रतिषेधाद् (अ० १, सू० १३)
उपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टमानन्दक्रियासमर्थं सिद्धम् । तथा
अपितत्कर्मोपदेशात् (अ० ३, सू० १६) हस्तेन्द्रियमुच्चैरुभयथा
द्विरधिष्ठाने भुजान्तर्देशे संनिविष्टमादानक्रियासमर्थं सिद्धम् । तथा
अपितद्भाषणोपदेशाद् (अ० ३, सू० १७) वागिन्द्रियं वाक्ताल्लु-
जिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् । अत्र विकार-
तद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि । एवमेतानि त्रयोदश
करणानीन्द्रियाणि सूत्रतो व्याख्यातानि । कस्मात् ? । इन्द्रियाणामिति
सामान्यग्रहणाद् विकरणवत् सामान्यप्रतिषेधाच्च । इन्द्रियाणाम् इति
षष्ठीबहुवचनम् । उक्तं हि—
“आदानाद् ग्रहणात् त्यागाद् रङ्गणाद् गमनात् तथा ।
इङ्गनाद्रवणाच्चैव तस्मादिन्द्रियमुच्यते ॥”
अभिजयाद् इति । अभिशब्दः अत्यन्तविजये वशीकरणे च ।
आक्रम्य वशीकर्त्तव्यानि । वायुकामक्रोधपाटलिपुत्रवत् । तस्मादकुशलेभ्यो