पाशुपत सूत्र (भगवान् लकुलीश - कौण्डिन्य प्रणीत पञ्चार्थभाष्य सहित पाशुपत दर्शन मूल)
Pashupata Sutras of Lakulisha with Panchartha Bhashya
भगवान् लकुलीश (भाष्यकार: कौण्डिन्य) द्वारा
पृष्ठ 122, कुल 166 में से
संदर्भ में पढ़ें[Header] पञ्चमोऽध्यायः । ११५
व्यावर्तयित्वा कामतः कुशले योजितानि (यदा), तदा जितानि भवन्ति ।
तस्माद् उक्तम्—इन्द्रियाणामभिजयादिति । असङ्गादिजन्मनिमित्तत्वात्
पञ्चमी द्रष्टव्या ॥ ७ ॥
आह—अन्यत्र साङ्ख्ययोगादीनाम् असङ्गादियुक्ताः मुक्ताः
शान्ति प्राप्ताः। निरभिलप्या मुक्ता इत्युच्यन्ते। मुक्त एव न युक्त
इति क्व सिद्धम् ? । तदुच्यते—इह। यस्मादाह—
रुद्रः प्रोवाच तावत् ॥ ८ ॥
तत्र रुद्र इति कारणापदेशे । रुद्रत्वं पूर्वोक्तम् । प्र इत्य-
भिधानविशुद्धौ । प्रसन्नेन्द्रियवत् । वच व्यक्तायां वाचि । प्रोवाच
इति । एवं यत् साङ्ख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः
शान्तिं प्राप्ता इति, तदविशुद्धं तेषां दर्शनम् । तैमिरिकस्य चक्षुष-
श्चन्द्रदर्शनवत् । अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं
द्रष्टव्यम् । कस्मात् ? । सर्वज्ञवचनादविसंवादित्वाच्चैतद् गम्यम् ।
एवमेतन्नान्यथेत्यर्थः । किञ्चान्यदिदम् अथशब्दादि शिवान्तं प्रवचनं
रुद्रप्रोक्तं तावत् सर्वतन्त्राणां श्रेष्ठम् । तस्मात् कारणशास्त्रयोः
परप्रमाणभावोऽवधार्यत इत्यर्थः । अत्र श्लोको निर्वचनः ॥ ८ ॥
आह—किमेतानीन्द्रियाणि परिज्ञानमात्रादेव जितानि भवन्ति
प्रधानवत् ? । तदुच्यते—न । ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः,
यस्मादेषां जये भगवता वसत्यर्थवृत्तिक्रियालाभाय वसता(?) इत्यत-
स्तज्जये वसत्यर्थ एव तावदुच्यते । यस्मादाह—