सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

आत्मन्याक्षेपः । २५
शोत्यादावित्येवं पूर्वक्षणविनाशेनोत्तरक्षणनिर्वृत्तेरियतैव कार्यकारणभावमश्नु-
वीयाताम्-इति,
तदप्यमनोरमम्-न ह्ययायुष्मतामस्त्यवधृतस्तुलान्तदृष्टान्तः—
तत्रान्यदेव हेमादि नामोन्नामनिबन्धनम् ।
तन्नामो न तु नामैव तेन वा स विधीयते ॥
इहापि न पूर्वेण क्षणेन नापि तद्विशेषेणोत्तरः क्षण उत्पद्यते, न च हेमस्था-
नीयमिहान्यदस्तीत्यनुत्पत्तिरेवावशिष्यते,
सर्वथा परिनिष्पत्तौ निर्व्यापारं न कारणम् ।
सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥
इत्थं च सत्त्वं व्यावृतं क्षणिकेभ्यो विशेषतः ।
तेनासाधारणत्वेन यायात्संशयहेतुताम् ॥
क्षणिकत्वहेतोर्विरुद्धत्वम्
अथ वा लब्धात्मनः पदार्थस्य परोत्पत्तौ व्याप्रीयमाणत्वेन कारणत्वाव-
धारणाद् द्वित्रिक्षणस्थायित्वमवश्यमन्तरनीत्या भवेदिति प्रत्युत सत्त्वात्क्ष-
णिकत्वसिद्धेर्विरुद्धोऽयं हेतुः, अतश्चैवं नित्यानामेवार्थक्रियाकारित्वोपपत्तेः,
समवाय्यसमवायिनिमित्तभेदेन त्रिविधा कारणसामग्री परस्परसंसर्गमागत्य
यथासन्निधानं काय प्रसूत इति कृतं क्रमयौगपद्यविकल्पैस्तावकैः यदैवाविकल-
सामग्री तदैव कार्योत्पत्तिः,
अत एव च कार्याणां युगपन्न समुद्भवः ।
न चापि कृत्वा करणं सामग्री हि न सर्वदा ॥
प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो नवः ।
सर्वत्र सुखदुःखादिहेतुस्त्वत्रोपपाद्यते ॥
न च समग्रव्यतिरेकाव्यतिरेकविकल्पोऽस्मत्पक्षे सामग्रीं बाधते समग्र-
धर्मत्वात्सामग्र्याः समग्रापेक्षया च सामग्र्येव तमबर्थातिशययोगात्कारण-
मिति(१) प्रमाणसामान्यलक्षणे निर्णीतम् ,
( १ ) ननु प्रमीयते येन तत्प्रमाणमिति करणसाधनाऽयं प्रमाणशब्दः । करणं च
साधकतमं तमबर्थश्चातिशयः । स चापेक्षिकः साधकान्तरसम्भवे तदितरापेक्षयाऽतिशय-
योगात्किञ्चित्साधकतममुच्यते । सामग्र्याश्चैकत्वात् तदतिरिक्तसाधकान्तरानुपलम्भात्
किमपेक्षमस्या अतिशयं ब्रवीषि, अत्रोच्यते-यत एव साधकतमं करणं करणसंनिधानञ्च
प्रमाणशब्दः तत एव सामग्र्याः प्रमाणत्वं युक्तम् । तद्व्यतिरेकेण कारकान्तरे क्वचिद-
पि तमबर्थसंस्पर्शानुपपत्तेः । फलोत्पादाविनाभाविस्वभावत्वमतिशयः, स च साम-
ग्र्यन्तर्गतस्य न कस्यचिदेकस्य कारणस्य कथयितुं पार्यते सामग्र्यास्तु सोऽतिशयः
सुवच इति ग्रन्थेनेति शेषः ।

[३८] न्यायमञ्जर्याम्

समर्थत्वासमर्थत्वविकल्पेऽपि प्रसङ्गतः ।
सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात् ।
तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्यं यावत्तावदभ्युपग-
तमेव तदपेक्षस्य सामग्र्याः साधकतमत्वस्य निर्वहणं न हि भवति कृष्ण-
च्छुक्ल इति, अविकल्पं तु सामग्र्या एव सामर्थ्यं यदनन्तरं कार्यनिष्पत्तिरिति
कार्यनिष्पत्तिदर्शनादेवावगम्यते,
यदप्येकक्षणस्थायि कारकं स्यादित्युद्घोषितं परैः, तदप्यसत्, कार्यनि-
ष्पत्तिपर्यन्तत्वादवस्थानस्य एकेन क्षणेन तेषामेककार्यनिष्पत्तेरघटमानत्वात्,
कार्यसंपत्तेरूर्ध्वं तु सामग्री विप्लवते न समग्राणि तेषामेकैकशः क्वचित्कचिदु-
पलम्भाच्चक्रसूत्रदण्डादीनाम्, इत्थं स्थिराणामेव पदार्थानामर्थक्रियासामर्थ्यं
समर्थितमिति न ततः क्षणभङ्गसिद्धिः,
एवं च सत्त्वनित्यत्वयोर्विरोधात्सत्त्वप्रतीत्यैव एकचन्द्रबुद्धिवत्तदि-
तरनिराकरणमित्यादि यत्प्रलपितं तत्प्रतिक्षिप्तं भवति,
यदप्यभाणि नाशं प्रत्यनपेक्षत्वात्क्षणिकाः पदार्था इति, तदपि यत्किञ्चिद्-
दण्डादिव्यापारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटाद्यभावस्य विस्तरतः
प्रमाणचिन्ताऽवसरे प्रसाधितत्वात्, प्रध्वंसाभावश्च विनाश इत्युच्यते,
नश्वरानश्वरादिविकल्पास्तु न साधवः ।
सामग्र्यधीनः प्रध्वंसो भावानामात्मलाभत्रत् ॥
मुद्गरादिसामग्र्या घटस्य किं क्रियते ? मृत्पिण्डदण्डसामग्र्या किमस्य
क्रियते ? आत्मलाभ इति चेदनयाऽप्यात्महानं करिष्यते,
ननु नश्वरत्वे तत्कारणमफलमनश्वरत्वे त्वशक्तमिति, उत्पत्तावपि तुल्यो-
ऽयं प्रलापः, भवनस्वभावश्चेद् घटः स्वत एव भवति किं दण्डादिसामग्र्या
अभवनस्वभावस्तु कर्तुमशक्यः खरविषाणवदिति, कारकव्यापारकार्यत्वदर्श-
नादपर्यनुयोग एष इति चेद्विनाशेऽपि समः समाधिः, उत्पत्तिवद्विनाशस्यापि
कारकान्वयव्यतिरेकानुविधायित्वम्,
तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः ।
अविनाशकसद्भावादवस्थानमिति स्थितम् ॥
ननु सापेक्षाणां भावानां नावश्यंभाविता भवेदिति घटस्य विनाशहेतुर्नो-
पनिपतेदपि कदा चिदित्येवमसौ किं नित्य एव भवत्विति, अहो महान्प्रमाद
उत्सन्नाः प्रजाः पतितो महान् वज्राशनिर्दुष्प्रतरोऽयं दोष उत्थितः यदिह घटो
नित्यो भवेत्तदिह कालाग्निरुद्र इव त्रिभुवनमपि भस्मीकुर्यात्, अपि च रे मूढ !
सावयवस्याश्रितस्य कार्यस्य च नूनमवयवविभागादाश्रयविनाशाद्वा यदा कदा
चिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङ्काऽवसरः, तथा हि न रामाभिषेक-

कलशमद्य यावदनुवर्तमानमीश्वरवेश्मस्वपि पश्यति लोक इत्यवश्यंभावी तस्य
विनाशे हेतुः, तस्मात्सहेतुको विनाश इति न स्वत एव नश्वरो भावः ।
: अपि च प्रत्यभिज्ञा स्वतेजोविभवविधूतबौद्धसिद्धान्तध्वान्तसिद्धिनिर्भङ्गुर-
मेव भावनिवहमनिशमुपदर्शयन्ती दिनेशदीधितिदशशतविभागवती सर्व-
तो जाज्वलीतीति कस्तस्यां सत्यां क्षणभङ्गिनो भावानभिदध्यात् , यत् किं-
चन तस्य समभाषितं तत्सर्वमसमञ्जसम् ,
यत्तावदिदं कल्पितं स एवायमिति किमेकं विज्ञानमुत द्वे इति, तत्रोच्यते
सामानाधिकरण्येन नैकविषयावद्योतनप्रवणैकप्रतीतिसंवेदनात्केयं द्वित्वाशङ्का
योऽयंसमः यःसमोऽयमित्येकत्वावमर्शिनी, स्वतस्तु याऽनेकप्रतीतिरनुभूयते
घटोऽयं पटोयमिति तत्र निरन्तरोत्पन्नघटज्ञानपटस्मरणवद्विन्नविषयं बुद्धिद्वय-
मिति, यत्तु किमेकप्रतीतिजन्मनि कारणमिति,
कार्यं चेदवगम्येत किं कारणपरीक्षया ।
कार्यं चेन्नावगम्येत किं कारणपरीक्षया ॥
न च कार्यमकारणं भवितुमर्हति कार्यत्वस्यानुपपत्तेरिति भवितव्यमेव तत्र
कारणेन, अस्ति च संस्कारसहितमिन्द्रियमस्याः प्रतीतेः करणं पृथक्कार्यता-
ऽपि तयोर्दर्शनादेव, अभ्युपगतमिदं तु दृष्टत्वादु रपलपम्, क्वचित्तु केवलैन्द्रिय-
व्यापारकार्यदर्शनान्न सर्वस्य तथाविधस्यैव तस्य कार्यकारित्वं सहकार्यपेक्षेण
कार्यान्तरजननात् ।
प्रत्यभिज्ञायां भूतकालस्य विषयत्वम् !
यत्तूक्तं कीदृशोऽर्थः प्रत्यभिज्ञायामवभातीति, तत्रैते वादिनः शतकृत्वो द-
त्तोत्तरा अपि यत्पुनरस्माननुयुञ्जते तेन बलवद्दुद्विग्नाः स्मः, उक्तमत्र प्रमितयः
प्रष्टव्या न तु वादिन इति, अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्चार्थ एत-
स्यामवभासते,
ननु पूर्वापरौ कालौ परस्परविरोधिनौ ।
नैकत्र विशतस्तेन तद्भेदाद्वस्तु भिद्यते ॥
नैतदेवम् , केयूरकिरीटकटककुण्डलादिभेदेऽपि देवदत्तस्याभेदात् , अव-
यव्यस्ति नास्तीति परीक्षणं वादान्तरगमनम् , अपवर्गाह्निके च विस्तरेणावयवी
साधयिष्यत इत्यास्तामेतत् , कुण्डलादीनामविरोधादिति चेन्न, लाक्षणिकविरो-
धाभ्युपगमात्परस्परव्यवहारव्यवस्थितात्मानो हि सर्वे भावा इति वदद्भिर्भवद्भि-
रभ्युपेत एषां विरोधः ।
ननु केयूरादीनां विरोधेऽपि तदवस्थानादेकदेवदत्तसम्बन्धित्वमभ्युपपद्येता-
पि भूतवर्त्तमानयोस्तु युगपदसन्निधानात्तद्विशिष्टता स्तम्भादेरुच्यते प्रतीयते च द्वौ
कालौ न च सन्निहिताविति चित्रम् , किं भूतोऽपि काल इदानीमस्ति ? मैवम्

नासावस्तीत्युच्यते अपि त्वासीदस्तीत्युच्यमानं वर्त्तमान एव न भूत:, हन्त
तर्हि भूतो भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते, भूतत्वेनैवेति ब्रूमः,
भूत: कालो भूततया गृह्यते वर्तमानो वर्तमानतयैवार्थस्तूभयानुगत एक एव
तथा ग्रहणात् ,
ननु भूतकालस्येदानीमभावात्तद्विषयं ज्ञानमनर्थजं स्यान्न धर्मिणस्तदवच्छि-
न्नस्य ज्ञानजनकस्य भावात् , भूत: कथमवच्छेदक इति चेत्तथा प्रतिभासात् ,
प्रतीतिमवमृशतु भवान्स एवायमिति यः पूर्वमासीत्स इदानीमप्यस्तीति सोऽय-
मतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते,
नन्वसता भूतकालेन विशेषितमर्थं कथमिन्द्रियजप्रतीतिराम्बनीकुर्यात् ,
उच्यते--
अन्त्यसंख्येयसंवित्तिकाले प्रागवलोकिताः ।
यथा शतादिज्ञानानि जनयन्ति घटादयः ॥
अतीतकालसंसर्गो भवन्नेव विशेषणम् ।
स्तम्भादिप्रत्यभिज्ञायाः कारणत्वं प्रपत्स्यते ॥
संख्येयाः घटादयः सन्त्यतीतकालो नास्ति इति चेत्कपित्थेषु भक्ष्यमाणेषु
किं वक्ष्यति देवानांप्रियः, शतं कपित्थानां भक्षितवान्वाहीक इति प्रतीतिदर्श-
नात् , न च(१)नवनवतावुपयुक्तेषु कपित्थेष्वत्रैव शततमे शतमिति भवति यथा
तत्रातिक्रान्तान्यपि नवनवतिः कपित्थानि शतप्रतीतिहेतुतामुपयान्ति प्रतिभा-
सोपारूढत्वादेवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञामाधास्यतीति,
विकल्पमात्रं शतप्रत्यय इति चेद् भो महात्मन् किं वा न विकल्पमात्रम् ,
किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः,
यश्च सामान्यसंसिद्धौ प्रकारः प्राक् प्रदर्शितः ।
योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये ॥
इत्यलं कथाक्षेपेण ।
नन्वतिक्रान्तग्राहि च प्रत्यभिज्ञाविज्ञानमिन्द्रियार्थसन्निकर्षजं चेति नः कौ-
तुकमिदं, कियत्कौतुकमर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव जनकः स्तम्भादिः,
नन्वस्ति स तु वर्तमानकाल एव, न केवलं, वर्तमानकालयोगिनाऽर्थेन तत्प्रत्य-
यजननात्तस्य वर्तमान इवातीतोऽपि कालोऽवच्छेदकतां प्रतिपद्यते स च तदव-
च्छिन्नोऽर्थ इदं ज्ञानमाधातीत्यर्थजमेतदिन्द्रियजमपि भवति तद्भावाभावानु-
विधानात्,


( १ ) नवेति । यदा नवतिः कपित्था भुक्ता एकोऽवशिष्ट इति अवशिष्टमेक-
मादाय शतमितिव्यवहारो भवितुं नार्हति इति अतीतानपि कपित्थानादाय शतमिति
व्यवहारः तथा अतीतकालयोगोऽपि प्रत्यभिज्ञामाधास्यतीति भावः ।

प्रत्यभिज्ञया स्थैर्यसाधनम् । ३३
नन्वतीतेऽर्थे कथमिन्द्रियं प्रवर्त्तते ? कस्यैष पर्यनुयोगः ? नेन्द्रियस्या-
चेतनत्वात् पुरुषस्त्वविस्फारिताक्षो नेदृशीं प्रतिपत्तिं लभते विस्फारिताक्षस्तु
लभते इति सोऽपि नानुयोज्यः,
नन्वतीतग्राहित्वाद्वरमप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेरिन्द्रियस्यातीते-
ऽपि सामर्थ्यमदृष्टमिति, अप्रामाण्यं नाम बाधकात्प्रत्ययात्कल्प्यते न चासा-
वस्ति प्रत्यभिज्ञायाम् अनुमानं तु तावकं प्रतिक्षिप्तम्,
ननु कारणदोषादवकल्पते एवाप्रामाण्यम्, आयुष्मान् ! सोऽप्युच्यताम्, उक्त
एवेन्द्रियस्यातीतविषयग्रहणे सामर्थ्यविरहः, वत्स ! सम्यगुक्तवानसि नायमिन्द्रि-
यस्य तिमिरादिरिव दोषः, अतीते काले स्वतन्त्रे तस्य सामर्थ्यं न तद्ग्राह्यव-
र्त्तमानवस्तुविशेषणीभूते, संस्कारसचिवस्य चास्य सामर्थ्यं न केवलस्येत्युक्तम्,
तस्मादतिक्रान्तकालविशेषितपूर्ववर्त्तित्स्तम्भादिपदार्थविषयमिन्द्रियादिसन्निकर्षो-
त्पन्नमेवेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम्,
अथ वा पूर्वाभिज्ञानविशिष्टग्राह्यमाणमिष्यतां प्रत्यभिज्ञानं गन्धवत्कुन्दबु-
द्धिवद्, यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तद्विषयगन्धविशेषिते बाह्येन्द्रिय-
द्वारकग्रहणमघटमानमिति मानसमेव सुरभि कुसुममिति ज्ञानम् एवं पूर्वज्ञान-
विशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा पूर्वप्रवृत्त-
बाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि चान्तःकरणेऽभ्युपगम्यमाने
सति नान्धाद्यभावप्रसङ्ग इति बहुशः कथितम् ,
ननु कुन्दादेर्विशेषणं वर्त्तमानमस्ति सौरभम् इह त्वतीतं पूर्वविज्ञानमिति
कथं विशेषणमत्र, किं तेन सता करिष्यसि शतादिबुद्धिवत्तिक्रान्तस्यापि कपि-
त्थादेः कारणत्वदर्शनादिति तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्य-
मवस्थाप्यत एव भावानाम्,
क्षणभङ्गनिरासः !
या तु मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता ।
स्तम्भादिप्रत्यभिज्ञायाः कथ्यते सा(१)ऽप्यसङ्गता ॥
तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकमित् न किंचिदस्ति, अत-
एव शब्दे सदैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता प्रत्यभिज्ञा तु न
तामवस्थापयितुं समर्थेत्युक्तम्, ज्वालादावपि तैलवर्त्तिक्षयानुमानबाधितत्वाद्
भ्रान्ता प्रत्यभिज्ञा न तु तथास्तम्भादावनुमानमपि बाधकमस्ति, सत्त्वानुमानं
(१) पूर्वं मुण्डितेषु पश्चादुत्पन्नेषु केशेषु त एवामी केशा इति प्रत्यभिज्ञा यथै-
कत्वस्य स्थिरत्वस्य वा न साधिका तद्वत्स्तम्भादिप्रत्यभिज्ञाऽपि इति तौल्यं खण्ड-
यति-सापीति !
५

३४ न्यायमञ्जर्याम्
तु निरस्तमेव, यद्यपि च नैष नियमः प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षं बलीय
इति त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्यानुमानबाधित-
त्वदर्शनादिति, तथा प्रकृतं क्षणिकत्वानुमानमन्यथासिद्धमनन्यथासिद्धं तु प्र-
त्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकं, न चेतरेतराश्रयत्वमनुमा-
नमिथ्यात्वनिबन्धनं प्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात्, स्वहेतुबलवत्तयैव
प्रत्यभिज्ञा प्रत्यक्षं न तस्येदं दैन्यं यदनुमानमिथ्यात्वे सति तत्प्रमाणीभवि-
ष्यतीति,
आस्तां वा प्रत्यभिज्ञानं य एष प्रथमक्षणः ।
स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥
तुल्यसामग्र्यधीनत्वनिराकृतत्वात्साकारस्य निराकरिष्यमाणत्वादन्वयव्य-
तिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकस्य चार्थस्याभास्यत्वनिश्चयादुत्पन्नोऽर्थो
ज्ञानं जनयति जातेन च ज्ञानेन गृह्यत इति बलाद् द्वित्रिक्षणावस्थायित्वमस्यो-
पलभ्यत इति कुतः क्षणिकत्वम् ?
यदि लब्धस्वरूपाऽपि न नष्टः प्रथमे क्षणे ।
हेत्वन्तराद्विनाशोऽस्य न स्वरूपनिबन्धः ॥
विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते ।
चिरन्तनमतिः काचित्काचित्तत्कालजातधीः ॥
सलिलाहरणव्यग्रकुम्भावगतिरन्यथा ।
तदैव कन्दुकारूढकुम्भावगतिरन्यथा ॥
एतेन (१)रविगुप्तो ऽपि परिम्लानमुखीकृतः।
क्षणिकत्वचमत्कृत्वसमुत्प्रेक्षणपण्डितः ॥
तथा हि वर्तमानवस्तुविग्रहग्राहि विज्ञानमनन्तरोक्तनयेन जनकार्थप्रतिभा-
सनाद् द्वित्रिक्षणस्थायितामर्थस्य गमयतीत्युक्तम्, आद्यं च किंचिद्विज्ञानम-
नागतकालस्पर्शि भवति, यथाऽऽह भट्टः—‘रजतं गृह्यमाणं हि चिरस्थायीति
गृह्यते’ इति, उत्तरमपि प्रत्यभिज्ञानं प्रतीतकालावच्छिन्नमर्थमवद्योतयतीति
दर्शितम् ,
न चातीतानागतजन्मग्रहणमाशङ्कनीयमिति कारणसामर्थ्यनियमान्न ह्यती-
तानागतजन्मग्रहणमशक्यक्रियमिति यावदपि दृश्यमानं ग्रहणं तदप्यपन्होतुं
युक्तम्, न चैतावताऽतीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामा-
न्यतो दृष्टेनादृष्टमप्यतीतानागतज्ञानं कल्प्यम् , यथादर्शनं हि वस्तूनि व्यवस्था-
प्यन्ते न किञ्चिद् दृष्ट्वाऽन्यदपि कल्प्यते दृष्टमपि वा निह्नुयत इति,
( १ ) रविगुप्तो नाम कश्चित् क्षणिकवादी ।

प्रत्यक्षस्य स्थैर्यसाधकत्वम् । ३५
प्रत्यक्षस्य स्थिरवस्तुग्राहकत्वम् ।
अपि च निमेषदृष्टेरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुत्पद्यते तत्कथं-
क्षणिकग्राहि कथ्यते,
यच्च तत्र विकल्पितमतीतानागतक्षणयोरसन्निहितत्वेन प्रत्यक्षग्राह्यताऽ-
नुपपत्तेर्वर्त्तमानक्षणस्य चातिसूक्ष्मत्वात्तत्कालग्राहिणा प्रत्यक्षेण क्षणिकत्वं गृहीतं
भवतीति, तदनुपपन्नम्, मा नाम भूदतीतानागतकालग्रहणं वर्तमान एव तत्रा-
निमेषदर्शनस्य कियान्काल इति चिन्त्यताम्, निमेषकृतस्यापि दर्शनविच्छेद-
स्यानवकाशाद्यावद्धि दर्शनं न विच्छिन्नं तावान्वर्तमानः काल इति तद्ग्रहणे
स्थैर्यं गृहीतं भवति न क्षणिकत्वम्,
ननु तावानसौ कालः स क्षणसमुदायो भवति न क्षणः क्षणश्चैक एव वर्त-
मानो भवति न ततः पूर्वापरौ क्षणावतीतानागतौ भवतः तयोश्च न ग्रहणमि-
त्युक्तम् , सिद्धे क्षणिकत्व एवं शक्यते वक्तुं न तु तत्साधनावसरे, कालो-
ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम , न तु क्षणसमुदायात्मा
कालः कालस्य तु भेदाः क्रियोपजनविनाशाद्युपनिबन्धनाः कल्प्यन्त इत्यपि
तत्रैव परीक्षितम् , तदयमनिमेषदृष्टेर्दर्शनविच्छेदानुपग्रहात्तावानेकः स वर्त्तमान
एव भवतु,
ननु कालो नाम न कश्चित्पारमार्थिकः पदार्थ एव परिदृश्यमानो वर्त्तमा-
नादिव्यवहारहेतुः स च न चिरमनुभूयत इति क्षणिक उच्यते, भिक्षो ! अलम-
वान्तरगमनेन मा भूतकालः पदार्थस्त्वनिमेषदृष्टिना दृष्ट्यविच्छेदादविच्छिन्नस-
त्ताक एव दृश्यत इति न क्षणिकग्राहि प्रत्यक्षम् ,
ननु भवद्भिरपि न स्थिरं ज्ञानमिष्यते क्षीणे च ज्ञाने सोऽर्थो द्वितीयक्षणे
केन गृह्यते ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः, अनिमेषदृष्टेर्ज्ञानं
न क्षीयत एवेत्येके,
अथ वा किं न एतेन न हि विषयप्रतिभासकाले ज्ञानमवभासत इत्यसकृ-
दुक्तं, वक्ष्यते च तत्र तत्कीदृशमिति कुतो वयं विद्मः, अर्थस्त्वविच्छिन्नसत्ताक
एव गृह्यते ज्ञानं तु वर्त्तमानकालमप्यतीतानागतकालग्राहि भवति स्मरणमिव
(१)प्रातिभमिव भूतभविष्यद्वृष्ट्यनुमानमिव,
( १ ) प्रातिभम्-कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कथयतीति
ज्ञानम् । तथाच प्रशस्तपादभाष्यम् 'आम्नायविधातॄणामृषीणामतीतानागतवर्त्तमाने-
ष्मतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिवद्धेषु चात्ममनसोः संयोगाद्धर्मविशेषाच्च
यत्प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्येत तदार्षमित्याचक्षते । तत्तू प्रस्तारेण देवर्षीणाम्
कदाचिदेव लौकिकानाम् यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कथ-
यतीति' इति ।

३६ न्यायमञ्जरीम्
नन्विन्द्रियव्यापारो न ज्ञानान्तरस्थायीति तस्मिन्नसति कुतोऽस्य वितत-
कालग्रहणम्, तदलं भवतु श्रान्तोऽसि मज्जस्त्वैवं ब्रुवाणः निमेषकृतोऽपि
विच्छेदोऽस्य नास्ति अथ च न स्थिर इन्द्रियव्यापार इति साहसिकतामात्रम् ,
सन्निकर्षश्चास्य विषयग्रहणे व्यापारः स च स्थिर एव तस्माद्विततकालस्य व-
स्तुनः प्रत्यक्षेण ग्रहणमिति स्थितम् , एवं च स्थिते न स्वरूपमात्रमेव भावानां
विनाशकारणं कारणानां च नित्यत्वमेव दण्डादीनामिति सिद्धम् ,
यत्पुनरभाणि दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति तदपि व्यामूढ-
भाषितम् , दर्शनादर्शनाभ्यामेव भावाभावयोः (१)परिच्छेदः न पुनर्दर्शनादर्शने
एव भावाभावावभावश्च विस्तरतः प्राक साधितः स च सहेतुक इति न स्वत-
एव विशरारवो(२)भावाः, एवं तु निष्प्रमाणे पदार्थस्थैर्यपक्षे ज्ञानं तु जनकस्य
नियतस्य वस्तुनो दर्शनम् दर्शनविषयीकृतस्य प्रवृत्तिः प्रवृत्तिविषयीकृतस्य प्रा-
प्तिरिति व्यवहारो न स्यादर्थक्षणनानात्वात् , बाध्यबाधकभावश्च क्व चिज्ज्ञाना-
नां दृष्टः स च न स्यात्पूर्वावगतरजतादिविषयभावग्राहिणो ज्ञानस्य (३)गृहीत-
मुद्गरदलितघटाभावज्ञानवद्वाधकत्वानुपपत्तेः, पूर्वदृष्टस्य स्मरणं स्मृतस्य कस्य-
चित्प्रत्यभिज्ञानं प्रत्यभिज्ञातस्य गृहादेरर्धकृतस्य समापनमित्यादयश्च व्यवहारा-
विप्रलुप्येरन् ।
क्षणभङ्गभङ्गोपसंहारः ।
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् ।
न तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥
अभेदपक्षे क्षणवद्व्यवहारो न सिध्यति ।
व्यतिरेके तु चिन्त्योऽसौ वास्तवोऽवास्तवोऽपि वा ॥
अवास्तवत्वे पूर्वोक्तं कार्यं विघटते पुनः ।
वास्तवत्वे स्थिरो वा स्यात्क्षणिकौ वेति चिन्त्यताम् ॥
सन्तानिनिर्विशेषः स्यात्सन्तानः क्षणभङ्गुरः ।
न सिध्येत्पुनरप्येष व्यवहारः पुरोदितः ॥
अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् ।
उत्तिष्ठ भिक्षो ! फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः ॥
तदेवं सति सन्तानच्छद्मनो विनिवारणात् ।
लोकयात्रा स्थिरैरेव पदार्थैरुपपद्यताम् ॥
( १ ) परिच्छेदः—निश्चयः । ( २ ) विशरारवो—नश्वराः ।
( ३ ) पूर्वं गृहीतः पश्चाद् मुद्गरेण दलितो यो घटस्तदभावज्ञानस्य न पूर्वज्ञानवा-
धकत्वम् । पूर्वकालैकेति समासः ।

क्षणभङ्गनिरासः । ३७

एवमनन्तरनिगदितदूषणनिकुरुम्ब(१)विनिहतप्रसरम् ।
नाध्यक्षं क्षणिकत्वे न चानुमानप्रमाणं तत् ॥
क्षणभङ्गे निरस्ते च कार्यमाधारवद् ध्रुवम् ।
अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ॥
सुखादेरपि कार्यस्य विज्ञानाद्व्यतिरिक्तता ।
प्रागुक्तेति तद्प्यन्यद्भवत्यस्यानुमापकम् ॥
किं च नाङ्गीकरोषि त्वमात्मानं पारलौकिकम् ।
उपैषि परलोकं च किमिदं ते बकव्रतम् ॥
कर्म सन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् ।
ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ॥
न वा निर्वृतिरप्येति चैत्यवन्दनकर्मणा ।
ज्ञानक्षणेन नैकेन किञ्चित्कर्म समाप्यते ॥
कार्यकारणभावश्च यस्त्वदुक्तः स दूषितः ॥
कार्यकारणभावे हि न हन्तृत्वं निवर्तते ।
अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः ।
उपादानत्वरूपोऽपि विशेषः प्राङ् निराकृतः ॥
कार्पासरागसंक्रान्तिदृष्टान्तो यश्च वर्णितः ।
सोऽप्ययुक्तः स्वरूपेण तत्र तस्यैव दर्शनात् ॥
य एव रागः कापासे बीजे समुपकल्पितः ।
स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ॥
एवं कर्मानुवृत्तिः स्यात्फलभोगस्तु दुर्घटः ।
कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्य चित् ॥
कार्यकारणयोर्भेदात्कार्पासकुसुमादिवत् ।
अन्यत्रैव हि कर्म स्यादन्यत्रैव च तत्फलम् ॥
न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति ।
फलमस्मन्ममैव स्यादिति सर्वः प्रवर्तते ॥
सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः ।
न तत्प्रसाधने तेषां का चिद्गमनिका ऽस्ति वा ॥
गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् ।
ज्ञानत्वादित्ययं हेतुर्प्रयोजक इष्यते ॥
मूर्छाद्यनन्तरोद्भूतज्ञानैश्च व्यभिचार्ययम् ।
मूर्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ॥


( १ ) दूषणनिकुरुम्बः-दूषणसमूहः ।

[३८]
न्यायमञ्जर्याम्

न ह्यर्थावगतेरन्यद्रूपं ज्ञानस्य किं चन ।
मूर्च्छादिषु कुतस्तस्याःकुतो वा कललादिषु ॥
कललादिदशायां वा यदि विज्ञानमिष्यते ।
मातापितृस्थयोरस्ति शुक्रशोणितयोरपि ॥
ततश्चैकत्र संताने चैतन्यद्वयमापतेत् ।
चेतनानां बहुत्वं वा दम्पत्योर्बहुपुत्रयोः ॥
न चैष नियमो लोके सदृशात्सदृशोद्भवः ।
वृश्चिकादेः समुत्पादो गोमयादपि दृश्यते ॥
शरीरान्तरसंचारचातुर्यं च धियां कथम् ।
ज्वालादिवन्न मूर्तत्वं न च व्यापकताऽऽत्मवत् ॥
आतिवाहिकदेहेन नीयन्ते चेद्भवान्तरम् ।
नन्वातिवाहिकेऽप्यासां कथं संचारसंभवः ॥
आस्तामिवैष वा जीवद्देहेऽपि पथि गच्छताम् ।
प्रदेशान्तरसंचारो ज्ञानानां भवतः कथम् ॥
न ह्ये

चार्वाकमतखण्डनम् ॥ ३९
न हि नरकनिमग्नो मन्यते कश्चिदेवम् ।
किल यदहमकार्षं प्राग्भवे कर्म पापं
फलमुपनतमस्माद् भुज्यते तन्मयेति ॥
कार्योपभोगसमये किमनेन कृत्यं नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् ।
यस्तु प्रवृत्तिजननौपयिकोऽवमर्शः शास्त्रादसौ भवति शास्त्रविदामवश्यम् ॥
विमर्शोऽयं पश्चादपि भवति दृष्टे तु विषये
मया यूना यत्तत्किमपि सदसद्वा कृतमभूत् ।
ततो वृद्धोऽद्याहं फलमनुभवामीति तदयं
पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ॥
नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं
संस्काराः क्षणिका युगस्थितिभृतश्चैते विहाराः कृताः ।
सर्वं शून्यमिदं वसूनि गुरवे देहीति चादिश्यते
बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा ॥
चार्वाकमतेन पूर्वपक्षः ।
अत्र सुशिक्षिताश्चार्वाका आहुः--यावच्छरीरमवस्थितमेकं प्रमातृतत्त्वम-
नुसंधानादिव्यवहारसमर्थमस्तु नाम कस्तत्र कलहायते शरीरादूर्ध्वं तु तदस्तीति
किमत्र प्रमाणम् , न च पूर्वशरीरमपहाय शरीरान्तरं संक्रामति प्रमाता, यदि
ह्येवं भवेत्तदिह शरीरे शैशवदशानुभूतपदार्थस्मरणवदतीतजन्मानुभूतपदार्थ-
स्मरणमपि तस्य भवेन्न हि तस्य नित्यत्वाविशेषे च शरीरभेदाविशेषे च स्मर-
णविशेषे कारणमुत्पश्यामो यदिह जन्मन्येवानुभूतं स्मरति नान्यजन्मानुभूत-
मिति, तस्मादूर्ध्वं देहान्नास्त्येव प्रमातेति नित्यात्मवादमूलपरलोककथाकुरुक्कु-
चीमपास्य यथासुखमास्यताम् , यथाऽऽह—
यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुत इति ॥
चार्वाकमतनिगमः ।
अत्रोच्यते—न खलु निपुणमिव सुशिक्षितमायुष्मता चार्वाकाचार्यचातु-
र्यम् , यावच्छरीरमेकमनुयायि प्रमातृतत्त्वमस्तीति यदुक्तवानसि तन्न विस्मर्तु-
मर्हसि, न चास्तित्वाविनाभावी भावानां विनाशः स्वाभाविकः किन्तु हेत्वन्त-
रनिमित्तक इति सौगतैः सह कलहमतिमात्रमधुनैव कृत्वा समर्थितोऽयमर्थः,
न च विनाशहेतुः प्रमातरि चिरमपि विचार्यमाणः कश्चित्कुतश्चिदवाप्यते, न
चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते, न ह्यात्मा पटादिरिव सावयव उप-
लभ्यते यदवयवविभागादिना नङ्क्ष्यतीति गम्यते, उत्पत्तिर्नात्मनो दृष्टा यत-

स्तदविनाभाविनो निरवयवस्यापि कर्मादेरिव विनाशः प्रतीयेत, न चैष कस्य-
चिदात्मा गुणो येनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमासा-
दयेत्, न चैवं शक्यते वक्तुं किं विनाशहेत्वनुमानेन प्रत्यक्ष एवास्य विनाशो
दृश्यत इति, यतो न शरीरवदसौ दह्यमानः शकुनिभिरवलुप्यमानो वा कदा-
चिदुपलब्ध इति, तस्माद्विनाशादर्शनाद्विनाशहेत्वनुमानासंभवाच्च अस्ति चेदात्मा
नित्य एवेत्यवधार्यताम्, तस्माद् भूतचैतन्यमेव चिरंतरचार्वाकाचार्यवत्परलोका-
पलापपरितोषालम्बितयत्किञ्चनकारित्वसुलभसुखासिकासक्तहृदयैर्वरमाश्रितम् । आ-
शरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः, भू-
तचैतन्यपक्षोऽपि च पुरा पराकृत एव तस्मादस्ति नित्यः परलोके प्रमातेति,
नित्यत्वे सति पूर्वदेहसंबन्धो भविष्यद्देहान्तरसंबन्धश्चास्य न दुरुपपादः, शरी-
रान्तरसंचारस्तस्य नास्तीति यदुक्तं तद्युक्तमेव व्यापिनः सर्वत्र विद्यमानस्या-
त्मनः कः संचारार्थः, व्यापित्व एव किं प्रमाणमिति चेत्सर्वत्र कार्योपलम्भः
प्रमाणम्, यतो वाराणसीमपि गतस्य मे भवत्येव स्मरणेच्छाऽऽदिकार्ययोगः स
चात्मैकप्रभवः आत्मनश्च शरीरस्येव न तत्र गमनममूर्तत्वान्न शरीरगुणवत्त-
दनाश्रितत्वान्न प्राणादिवदन्तःशरीरवर्त्तित्वाभावात्, अन्तःशरीरवृत्तित्वे हि
द्वयी गतिरेकदेशवृत्तित्वं सर्वशरीरमापूर्य वा तत्र सर्वशरीरापूरकत्वे शरीरप-
रिमाणानुविधयत्वाद् बालशरीरयुवस्थविरशरीरवत्पूर्वनीत्या परिमाणान्यत्वेन
तदन्यत्वात्पुनरपि प्रतिसन्धानादिकार्यवैधुर्यप्रसङ्गः, करिमशकशरीरयोगे च
कर्मपरिणामोपनते तस्य संकोचविकासौ प्राप्नुतः तौ च नित्यस्य विरुध्येते,
एकदेशवृत्तित्वे तु तदनधिष्ठितानामवयवानामात्मकत्वान्मृतशरीरावयववदय-
थेष्टविनियोज्यता कुण्ठीभावः स्यात्, प्रदीपवदेतद्देहवृत्तेरप्यात्मनः सकलशरीरा-
धिष्ठातृत्वमिति चेत्, वर्त्तिप्रदेशोपचिततेजःपिण्डवदेकत्र शरीरावयवे सविशे-
षचैतन्यसंवित्तिः स्यात्, अस्त्येव हृदयदेशे तदतिशय इति चेन्न, अनुपलब्भात्,
दहनहिमकृपाणादिस्पर्शं हि न हृदयस्य प्रदेशान्तरस्य, वा शरीरवेदनाविशेषं
पश्यामः, तस्मान्न हृत्पुण्डरीके यावदवस्थानमात्मनः अत एव 'ङ्गुष्ठमात्रं पुरुषं
निश्चकर्ष बलाद्यम' इति व्यासवचनमनेवंपरमवगन्तव्यम्, यदि तु मनोवदे-
कदेशवृत्तेरणुपरिमाणस्याशु संचरतः शरीराधिष्ठातृत्वमात्मनः कथ्यते, तथाऽपि
सहसैव चिरप्रोषितगतागतदयितजनदर्शनोद्गतसकलशरीरव्यापिस्वेदरोमाञ्चा-
दिदर्शनं विरुध्यते, न च द्वयोरण्वोरात्ममनसोः कर्तृकरणव्यवस्थाऽपि निर्व-
हतीति, तस्मान्नाणुरात्मा न च शरीरपरिमाण इति व्यापक एवावशिष्यते,
तदेवं वाराणस्यामप्ययमात्मा विद्यत एवेति तत्र तत्र तत्कार्यदर्शनमवकल्पते
नान्येन गमनादिप्रकारेणेति ।
ननु सर्वत्र सुखदुःखज्ञानादिकार्यदर्शनात्सर्वप्राणिनामेक एवात्मा भवेत्,

आत्मनित्यत्वसाधनम् । ४१
न सुखदुःखव्यवस्थादर्शनाद् बन्धमुक्तविभागोपपत्तेश्चात्मभेदस्य दर्शयिष्य-
माणत्वात्, व्यापिनः कथं कर्तृत्वमिति चेत्, ज्ञानचिकीर्षाप्रयत्नसमवाय-
एवास्य कर्तृत्वं न व्यापारयोग इति निर्णीतमेतत् ।
ननु व्यापिन्यात्मनि कथं शरीरबहिरणवपि(१) कार्यं न दृश्यते कर्माक्षिप्तशरी-
रेन्द्रियादिसहकारिसन्निधाननिबन्धो हि तत्कार्योत्पादः स कथं बहिर्भवेद् इति।
तस्मादनन्तरोक्तेन प्रक्रमेणोपपाद्यते ।
नित्यत्वाद्द्ब्यापकत्वाच्च परलोकित्वमात्मनः ॥
सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत्, सद्यो जातस्य
बालस्य वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तावदस्ति, युवशरीरादौ
रोदनादि शोकादिकारणमवगतमिदमाननविकासादि हर्षहेतुकमेवं शिशोरपि
तन्निबन्धनस्तदुत्पादः, तौ च हर्षशोकौ सुखदुःखसाधनाधिगभतदनुस्मरणा-
न्यतरकारणौ भवितुमर्हतस्तथा दृष्टत्वात्, इह चास्य न सुखदुःखसाधनपदा-
र्थानुभवः तदानीमस्तीति तदनुस्मरणमेव हर्षशोकहेतुर्भवेन, स्मरणमपि तदनु-
भवप्रभवमनुभवश्चेह जन्मनि सद्यो जातस्य न समस्तीति(२) जन्मान्तरानुभ-
वसुखदुःखसाधनानुस्मरणनिमित्त एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरा-
नुगमाश्रित्य आत्मा,
नन्वभिनवजीवलोकावलोकाह्लादनिबन्धन एवास्य मुखविकासस्तथा यो-
निद्वारनिर्गमनोद्गतनिर्गलक्लेशपीडितस्य तस्य रोदनमिति न जन्मान्तरानुभूत-
स्मरणं कल्पयितुं युक्तमतिप्रसङ्गात्,
मैवं, सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव हर्षशोकदर्शनात् ।
ननु कमलमुकुलविकासादिवत्स्वाभाविकमेव शिशोर्मुखविकाशादिकार्यं
स्यात्, स्वाभाविकं नाम किमुच्यते किमहेतुकमविज्ञातहेतुकमनियतहेतुकं वा ?
न तावदहेतुकं कार्यं सम्भवति कार्यत्वहानिप्रसङ्गात्, नाप्यविज्ञातहेतुकं तद्भा-
वयितुं युक्तं कार्यमुपलभ्यत इति तद्धेतुपरिज्ञाने यततां भवान् किमुदास्ते न चासौ .
ज्ञातुमशक्यः कार्यस्यैव तत्र ज्ञापकत्वात्, नाप्यनियतहेतुकं कार्यं किंचिदस्ति
कार्योत्पादननियमेनैव हेतुनियमसिद्धेरत एव तत्कार्यमुपपादयितुकामास्तन्निय-
तमेव कारणमुपाददते लौकिकाः,
यत्राप्यनियतो हेतुर्वृश्चिके गोमयादिकः ।
अभियुक्तस्तत्रापि विशेषं न न मन्वते ॥
तदेवं कारणनियमोऽपि कार्यविशेषदर्शनाद् दुरुपह्नव इति मुखविकासस्य
हर्ष एव कारणमवगम्यते सहस्रकृत्वस्तथा दर्शनान्, अचेतनानां तु तामरसादी-
(१) अण्वपि-किञ्चिदपीत्यर्थः । (२) समस्ति-सम्भवतीत्यर्थः

४२ न्यायमञ्जर्याम्
नां(१) विकासकारणं तरणिकिरणनिकरपरिष्वङ्गाद्युपलब्धम् इति तदपि न
स्वाभाविकम् ,
तस्मान्मुखविकासस्य हर्षो हर्षस्य च स्मृतिः ।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥
ननु शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङ्गः, न यावत्कार्यं
कारणकल्पनान्न सर्वदा सर्वस्मरणं संवेद्यते न च तत्कल्पनायां कारणमुपलभ्य-
ते न चैकदर्शनात्सर्वं कल्प्यं दृष्टमपि वा निह्नोतव्यमिति परीक्षकाणामुचित-
एव पन्था इत्यसकृदुक्तम् ,
अपि च पयस्तृप्तिहेतुत्वमनुस्मरन्बालकः स्तन्याभिलाषेण मातुः स्तनतटे
दृष्टिं निदधाति न चाद्य तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्ब-
न्धग्रहणस्य वृत्तमिति मन्यामहे,
न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेतद्बालकस्य कुचकलशनिमि-
त्तोपसर्पणमिति वक्तुमुचितमनन्तरमेव निरस्तत्वात् ,
ननु च गर्भशय्याशायिनोऽप्यपरितोषदर्शनात्तत्साधनोपादाने तदनुस्मरण-
मेव प्राप्नोति यदि कार्यमवगम्यते तत्रापि तत्कारणं कल्प्यतां को दोषः, तत्र
तु जनयित्रीजठरपतितान्नपानपरिपाकसंक्रान्त्या तत्परिपोषमायुर्वेदविदो वद-
न्तीति कथं तत्र स्मरणादिकल्पना, कल्पनायां वा प्रथमं निषेकानन्तरमेव क-
ललादिशुक्रशोणितविकारसम्भवात्तद्दशास्वपि स्मरणकल्पनाप्रसङ्गः, न ताव-
त्कल्पनायामपि काचिदस्माकं क्षतिः अयं तु स्तन्याभिलाषेण कुचक्षीरकलशा-
वलोकनॊपसर्पणादरो दारकस्य(२) तदनुस्मरणकृत एवेति सर्वथा जन्मान्तरस-
म्बन्धानुमानान्नित्य आत्मेति, अतश्चैवं ‘वीतरागजन्मादर्शनात्’ ( गो०३अ०१
आ०२१सू० ) रागादिवासनाभ्यासेन सुदृढप्ररूढेनानादिप्रबन्धप्रवृत्तेन परिह्ला-
द्यमानाः सरागा एव जन्तवो जायन्ते न खलु लोके कश्चन तादृशो दृश्यते
प्राणी यो जातो वीतरागश्चेति स एष सरागो जायमानः पूर्वोपचितां रागादि-
वासनामनुसरतीति सिद्धो जन्मान्तरसम्बन्धः ।
अदृष्टसाधनम् ।
तथा च केचिज्जायन्ते लोभमात्रपरायणाः ।
द्रव्यसंग्रहणैकाग्रमनसो मूषिकादयः ॥
मनोभवमयाः केचित्सन्ति पारावतादयः ।
कूजत्प्रियतमाचञ्चुचुम्बनासक्तचेतसः ॥
केचित्क्रोधप्रधानाश्च भवन्ति भुजगादयः ।
( १ ) तामरसादीनां-कमलानाम् । ( २ ) दारकस्य-बालकस्य ।

आत्मनित्यत्वोपसंहारः । ४१
ज्वलद्विषानलज्वालाजालपल्लविताननाः ॥
जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः ।
कृषिसेवादिसाम्येऽपि विलक्षणफलोदयः ॥
अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्य चित् ।
क चित्फलमयत्नेऽपि यत्नेऽप्यफलता क चित् ॥
तदेतद् दुर्घटं दृष्टात्करणाद्व्यभिचारिणः ।
तेनादृष्टमुपेतव्यमस्य किं चन कारणम् ॥
अदृष्टो भूतधर्मस्तु जगद्वैचित्र्यकारणम् ।
यदि कश्चिदुपयेत को दोषः कर्मकल्पने ॥
संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् ।
भूतवद्भूतधर्मस्य न चादृश्यत्वसम्भवः ॥
दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः ।
विशेषो वीर्यविज्ञानसौभाग्यारोग्यसम्पदाम् ॥
स्वाभाविकत्वं कार्याणामधुनैव निराकृतम् ।
तस्मात्कर्मभ्य एवैष विचित्र

तस्मात्कल्प्यानि कर्माणि दृष्टकार्योपपत्तये ।
एवं च क्षणभङ्गित्वात्संस्कारद्वारिका स्थितिः ॥
स कर्मजन्यसंस्कारो धर्माधर्मगिरोच्यते ।
नित्यात्मसाधनम् ।
विना च नित्यमात्मानं न धर्माधर्मयोः स्थितिः ॥
नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छ-
द्धर्माधर्मक्रमपरिणतानन्ततापोपभोगः ।
प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानां-
तेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ॥
[१] यद्विज्ञानघनादिवेदवचनं तत्पूर्वपक्षे स्थितं-
पौर्वापर्यविमर्शशून्यहृदयैः सोऽर्थो गृहीतस्तदा ।
मैत्रेय्या परिचोदितस्तु भगवान्याज्ञवल्क्योऽब्रवी-
दात्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ॥
तेनात्मनित्यत्वसमर्थनेन सुस्पष्टसिद्धः परलोकमार्गः ।
य एव देहान्तरसङ्गमोऽस्य तमेव तज्ज्ञाः परलोकमाहुः ॥
इति कवलने मांस्पाकानां परस्वपरिग्रहे
कितवजनतागोष्ठ्यां वेश्यामुखाम्बुजचुम्बने ।
गतमतिरभूद् धूर्तो मत्वा भवान्तरनास्तितां
तदयमधुना तत्संसिद्धेरहो बत दूयते ॥
(२)तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकॊऽयं
रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् ।
( १ ) बृहदारण्यके ( ४-अ ५ ब्रा० ) याज्ञवल्क्यस्य द्वे भार्ये मैत्रेयी कात्या-
यनी च तत्र मैत्रेयी 'येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद तदेव मे
विब्रूहि' इति पृष्टवती ततः 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा -
ऽरेऽहमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्ये-
वानु विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः' इति एतन्मूलक
एव देहात्मवादपक्षः स च पूर्वपक्षभूतः, सिद्धान्तस्तु सा होवाच मैत्रेय्यत्रैव माभग-
वान्मोहान्तमापीपन्नवा अहमिमं विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्य
विनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा' इति । तदेवाह—यद्विज्ञानघनादीति ।
( २ ) तस्मादिति । आत्मा नित्यः तस्य कलुषफलः दुःखादिफलः रागद्वेषा-
दियोगः नैसर्गिकः स्वाभाविकॊ न किन्तु अस्य आत्मनः सकलगुणापोढं सकलगुणर-
हितमेव रूपमस्ति तेन अनादिप्रबन्धेन अनादिसंसारप्रवाहेण उपचितो जायमानः परि-
णमन् यः कर्मपाकः तेनोपचितं दुखं त्यक्त्वा सर्वभयरहितं निःश्रेयसमाप्तुं यतेतेत्यर्थः ।

तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं
दुःखं संत्यज्य निःश्रेयसमखिलभयातीतमाप्तुं यतेत ॥
इति श्रीजयन्तकृतौ न्यायमञ्जर्य्यां सप्तममाह्निकम् ॥
शरीरनिरूपणम् ।
आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात्तदनुक्रमेण तत्स्वरूपनिरूप-
णार्थमाह—
चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ (गौ० अ० १ आ० सू० ११)
शरीरस्य यल्लक्षणं येन च रूपेण भाव्यमानस्यापवर्गोपयोगिता तदुभय-
मपि प्रतिपाद्यते, तत्र शरीरत्वमेव तावत्प्रथमं शरीरस्य लक्षणं तेन हि समा-
नासमानजातीयेभ्यस्तद् व्यवच्छिद्यते , तस्मिन्सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं य-
दस्य लक्षणमुच्यते तत्तेन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम् ,
चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मना भोगायतनं भवति मुमुक्षुणा च सुख-
दुःखोपभोगरहितात्मतत्त्वस्वभावनिःश्रेयसाधिगमविनिहितमनसा तथा भोगा-
धिष्ठानतया शरीरं भावयता तत्परिहरणे यत्नः कार्य इत्याचार्यश्चेष्टेन्द्रियार्था-
श्रयत्वमस्य लक्षणमुक्तवान् ।
ननु चेष्टा क्रिया क्रियाश्रयत्वे च सत्यपि न वृक्षादीनां शरीरत्वमित्यतिव्याप-
कं लक्षणम्, नविशिष्टचेष्टाश्रयत्वस्य (१)विशिष्टप्रमेयलक्षणप्रक्रमतोऽवसीयमान-
त्वात् , हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणं शरीरमुच्यते न चेष्टामात्र-
स्याधिष्ठानम् , रथादिनाऽपि नातिव्याप्तिर्यथोक्तप्रक्रमवशा(२)देवान्येन प्रेरणाया-
मसत्यामिति विशेषलाभात् , आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादा-
नपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः, ननु पाषाणान्तर्गतमण्डू-
कादिशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः, न योग्यतायास्तत्रापि भावात् , स-
त्यामपि क्रियायोग्यतायां सर्वतो निर्विवरनिचितदृषत्कर्परोपरोद्धावकाशतया च-
लितुमसौ न प्रभवति भेको वराकः, तथा च स्फुटिते तस्मिन्नेवाश्मनि तत्तक्षण-
मेवासौ चलन् दृश्यते इति निबिडपाशसंयतशरीरवत्तदानीं चेष्टाया अदर्शने-
ऽपि नाव्‍याप्तिः ।
मुमुक्षुशरीरमेव लक्ष्यतामित्येके—तेन न मण्डूकशरीरादिभिरव्याप्तिरल-
ङ्कणीयास्तेषामिति, तदयुक्तं नियतस्य मुमुक्षूणां शरीरस्याभावात् , तादृशि च
( १ ) विशिष्टचेष्टाश्रयत्वस्य—हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणत्व-
रूपस्य ।
( २ ) यथोक्तप्रक्रमवशात्-प्रकरणवशात् अन्येन प्रेरणायाम सत्यां हिताहितप्राप्ति-
परिहारयोग्यव्यापाराधिकरणत्वं शरीरलक्षणं पर्यवसन्नमित्यर्थः ।

[४६] न्यायमञ्जर्याम्

भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति, मुमुक्षुरपि च कर्मविपाकम्-
नेकप्रकारमाकलयन्मण्डूकीभावमात्मनोऽपि न शङ्कते प्रत्यासन्नापवर्गपुरप्रवेशं-
विपश्चित्तममपश्चिमजन्मानं मुमुक्षुं प्रति लक्षणाद्युपदेश एव कोपयुज्यते इत्यतः
पूर्वोक्त एवान्याप्तिपरिहारः श्रेयान् ।
भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम् इन्द्रियाश्रयत्वं तु कथम् ? भौतिकानि
हीन्द्रियाणि स्वावयवसमाश्रितानि घ्राणनयनस्पर्शनरसनानि, श्रोत्रमनसी तु
नित्यद्रव्यत्वादनारिते एवेति कथमिन्र्द्रियाश्रयता शरीरस्येति,
उच्यते नात्राधाराधेयभाव आश्रयार्थः किन्तु तदनुग्राह्यत्वात्तदाश्रितानी-
न्द्रियाण्युच्यन्ते, देशकालदशानुकूलपथ्यभोजनाभ्यङ्गव्यायाममर्दनाभ्युपचारो-
पचितशरीरस्य हि पुंसः पटुतराणि स्वविषयपुरन्ध्रिग्रहणे भवन्तीन्द्रियाणि दी-
र्घाध्वलङ्घनकदशनशुष्कजरत्सक्तुसेवनादिक्क्लिष्टशरीरस्य हि पुंसो मन्दशक्तीनि
भवन्तीति तदनुग्राहकत्वादिन्र्द्रियाणामाश्रयः शरीरम् ।
अर्थानां तु रूपरसगन्धादीनां केषां चिदाश्रयः शरीरं भवत्येव तत्समवायिनां
न तु तावता किं चिद्भोगायतनत्वोपयोगि रूपमभिहितं भवति । लक्षणमपि त-
द्वतिव्यापकं रूपरसादिसमवायस्य वृक्षादावपि भावात्तस्मात्तदर्थाश्रयत्वमीदृश-
मत्र विवक्षितं यदेते वरवनितादिशरीरवर्तिनः, (१)प्रविकचमुचुकुन्दकुन्दकन्दल-
कमलादिवाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागद्वे-
षहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति न शरीररहितस्येत्यर्थानां भोगसा-
धनभावादाश्रयः शरीरमतः सुष्ठूक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति, तदित्थं भो-
गायतनत्वेन बन्धहेतुत्वाद्धेयमित्यर्थः ।

शरीरपरीक्षा

तदिदानीमस्मदादिशरीरं किं पार्थिवमेव किं वा नानाभूतनिर्मितमिति परी-
क्ष्यते, ननु किमनया परीक्षया प्रयोजनम् ।
निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः ।
नानैकप्रकृतत्वे हि न स तस्य विशिष्यते ॥
मैवं वोचः—
प्रतिपन्नस्वरूपस्य चिन्त्याकारोपयोगिता ।
कार्यः कार्यार्थिनाऽप्यादौ यत्नस्तद्रूपनिर्णये ॥
तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वविवेकेन परीक्षिप्यन्ते, अर्था अपि
कति किंगुणा इति, बुद्धिरपि किं प्रधानस्य प्रथमो विकारो महच्छब्दवाच्य-
उतात्मन एव धर्मो ज्ञानाख्यः क्षणिक इत्येवं द्रष्टव्यम् ।


( १ ) प्रविकचमुचुकुन्द—विकसितपुष्पविशेषत्यर्थः ।

शरीरपरीक्षा । ४७

शरीरपरीक्षार्थं विप्रतिपत्तयः ।

तत्र पार्थिवमेवास्मदादिशरीरमिति के चित्, साधारणो हि धरणिधर्मो ग-
न्धस्तस्मिन्नुपलभ्यते इति ।
पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन्दर्शनादसति हि सलिलसं-
सर्गे न पार्थिवाः क्लेदमनुभवन्तीति ।
क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति,
वसुमतीसलिलसितेतररश्मिसमीरणावरचितमिति चान्ये, रचनाविशेषस्य
पवनकार्यस्य तत्रावधारणादिति ।
अवनि(१)वनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्या-
प्याकाशकार्यस्य तत्र दर्शनात्सुषिरं हि शरीरमुपलभ्यते अवकाशे चाकाशैकदे-
शेऽप्यवच्छेदाभिप्रायेण श्रोत्रवद्गत्या तत्कार्यत्वव्यपदेश इति ।

शरीरस्य पार्थिवत्वम् ।

तदत्र किं तत्त्वं पार्थिवमेवास्मदादिशरीरमिति विजातीयकार्यस्यावयवि-
नोपपत्तेः, पार्थिवावयवसमवेतशरीरावयवग्राहिणाश्वाभेदप्रत्ययस्य तृणपर्णपा-
षामूलकाद्यभेदप्रत्ययवदपवादासम्भवात् , न च वयमिह भूतान्तराणां कार-
णभावनिषेधं विद्मः केवलपार्थिवतया निर्विवादसिद्धेऽपि कुम्भादावम्भःप्रभृ-
तीनां कारणत्वानपायात्तद्व्यतिरेकेण घटादेर्घटयितुमशक्यत्वान , किन्तु घट-
इव शरीरेऽपि समवायिकारणतां पृथिव्यवयवानामेवाचक्ष्महे तदाश्रितत्वस्था-
स्य प्रत्यक्षेण ग्रहात्सहकारिकारणत्वानुपविष्टभूतान्तरसम्बन्धनिबन्धनस्ततः सि-
द्धः क्लेदोष्मव्यूहावकाशसम्प्रत्ययस्तत्तथागमपठितेषु वरुणलोकादौ केवलजला-
दिजन्येषु सहकारित्वानुपविष्टपार्थिवावयवावष्टम्भवशेन स्थैर्याद्युपलम्भ इति , त-
स्मादस्मदादिशरीरं पार्थिवम् ।
वेदे च(२) तथैव व्यवहारो दृश्यते अग्नीषोमीयादिपशोः प्रलयकाले यजमा-
नस्य वा प्रेतस्य[३] पात्रचयनकर्मणि ‘सूर्य चक्षुर्गमयतादि’त्याद्युपक्रम्य ‘पृथिवी
ते शरीरमि’ति पठ्यते, तच्च प्रकृतिगामित्ववचनं यद्यतः प्रकृतेरुत्थितं तत्तस्यामे-
वास्य लीयतामित्यर्थः । तत्र यथा तैजसं चक्षुरिति सूर्याख्ये तेजसि उद्गमनमुप-
दिष्टमेवं पृथिव्यां शरीरस्येति तस्मात्पृथिव्यवयवैरयमस्मदादिदेहं निबद्ध इति
नात्र सतां विवादः ।


( १ ) अवनिः पृथ्वो, वनं-जलं, दहनः-अग्निः ।
( २ ) वेदे च-वेदेपीत्यर्थः । ( ३ ) प्रेतस्य-मृतस्य ।

४८ न्यायमञ्जर्याम्
इन्द्रियपरीक्षा ।
घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि
भूतेभ्यः ॥ ( गौ० १ अ० १ आ० १२ सू० )
अत्रेन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यलक्षणं प्रसिद्धमेव विभा-
गोऽपि पञ्चबाह्येन्द्रियाणां त्वेष सूत्रित एव स चानन्तरमेव, तीर्थान्तरकथित-
कर्मेन्द्रियनिषेधात्साधयिष्यते ।
विशेषलक्षणानि तु पञ्चानां पञ्च समाख्यानिर्वचनसामर्थ्यात्प्रमाणवदव-
गन्तव्यानि । जिघ्रत्यनेनेति घ्राणं घ्रेयं गृह्णातीति गन्धोपलब्धावसाधारणं क-
रणं घ्राणं, चक्षुः ईक्षणं लोचनं तदुच्यते, स्पृशत्यनेन स्पर्शनं स्पर्शं गृह्णातीति
स्पर्शोपलब्धावसाधारणं कारणं स्पर्शनं, स्पर्शनमिति वक्तव्ये त्वग्ग्रहणमुपचा-
रान्मञ्चाः क्रोशन्तीति तदधिष्ठानत्वं दर्शयितुम्—यथा त्रिपुटिकाधिष्ठानं घ्राणं
जिह्वाधिष्ठानं रसनं गोलकाधिष्ठानं चक्षुः तथा सकलत्वगधिष्ठानं स्पर्शनं शि-
रःप्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात्, त्वगिति च न बाह्यमेव चर्म केवलमुच्यते
अपि तु सकलशरीरव्यापि तुहिनकणशिशिरसलिलपानसमयेऽन्तर्हृदयेऽपि शी-
तस्पर्शोपलम्भादिति, स्वावयवसमवायित्वे चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्व-
माश्रयमात्रापेक्षयोच्यते न समवायित्वादिति, शृणोत्यनेनेति श्रोत्रं शब्दं गृह्णा-
तीति शब्दोपलब्धावसाधारणं करणं श्रोत्रम्, तच्चाकाशैकदेशत्वादनाश्रितमपि
कर्णशष्कुल्यधिष्ठानमुच्यते,
तदेवं विशेषलक्षणानि पञ्च पञ्चानामुक्तानि, भवन्ति तानीमानीन्द्रि-
याणि स्वविषयग्रहणलक्षणान्यात्मनो भोगसाधनत्वात्संसारकारणानीति हेय-
तया भावयितव्यानि, तथा भाव्यमानानि निर्वेदोत्पादनाद्द्वारेणापवर्गाय
कल्पिष्यन्ते इति ।
भूतेभ्य इति किमर्थम् ? उक्तं हीन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे
सति निर्वहति नान्यथेति तत्तद्विनिश्चयार्थं यथाप्तोपदेशः शब्द इत्याप्तग्रहणम् ।
विषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति,
तानि पुनरिन्द्रियकारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि, भूतेभ्यः प-
ञ्चभ्यो यथासङ्ख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि पञ्चेन्द्रियाणि भवन्ति भूतप्र-
कृतित्वमिति भूतस्वभावत्वं व्याख्यावसानम् (दिवादिभ्यो भूतेभ्यः सम्भवति त-
द्वन्तौ पञ्चस्वपि सम्भवति)(१) भूतकारणकत्वं त्वन्येषु चतुर्ष्वपि तथैव श्रोत्रे
तु कथञ्चित्कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेण व्यवहारतः समर्थनीयम्
( १ ) अयं पाठः कथञ्चिदपि न समन्वेतीति व्यर्थ एवेति बोध्यम् ।