न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 448, कुल 654 में से
संदर्भ में पढ़ें३४ न्यायमञ्जर्याम्
तु निरस्तमेव, यद्यपि च नैष नियमः प्रत्यक्षानुमानयोर्विरोधे प्रत्यक्षं बलीय
इति त्वरिततरपरिभ्रमितचक्रीभवदलातग्राहिणः प्रत्यक्षस्यानुमानबाधित-
त्वदर्शनादिति, तथा प्रकृतं क्षणिकत्वानुमानमन्यथासिद्धमनन्यथासिद्धं तु प्र-
त्यक्षमिति प्रत्यक्षमेव क्षणिकत्वानुमानस्य बाधकं, न चेतरेतराश्रयत्वमनुमा-
नमिथ्यात्वनिबन्धनं प्रत्यभिज्ञाप्रत्यक्षप्रामाण्यानभ्युपगमात्, स्वहेतुबलवत्तयैव
प्रत्यभिज्ञा प्रत्यक्षं न तस्येदं दैन्यं यदनुमानमिथ्यात्वे सति तत्प्रमाणीभवि-
ष्यतीति,
आस्तां वा प्रत्यभिज्ञानं य एष प्रथमक्षणः ।
स्तम्भादिबोधस्तेनापि बाध्यते क्षणभङ्गिता ॥
तुल्यसामग्र्यधीनत्वनिराकृतत्वात्साकारस्य निराकरिष्यमाणत्वादन्वयव्य-
तिरेकोपकृतमानसप्रत्यक्षनिश्चितजनकस्य चार्थस्याभास्यत्वनिश्चयादुत्पन्नोऽर्थो
ज्ञानं जनयति जातेन च ज्ञानेन गृह्यत इति बलाद् द्वित्रिक्षणावस्थायित्वमस्यो-
पलभ्यत इति कुतः क्षणिकत्वम् ?
यदि लब्धस्वरूपाऽपि न नष्टः प्रथमे क्षणे ।
हेत्वन्तराद्विनाशोऽस्य न स्वरूपनिबन्धः ॥
विचित्रा च पदार्थानां प्रतीतिरिह दृश्यते ।
चिरन्तनमतिः काचित्काचित्तत्कालजातधीः ॥
सलिलाहरणव्यग्रकुम्भावगतिरन्यथा ।
तदैव कन्दुकारूढकुम्भावगतिरन्यथा ॥
एतेन (१)रविगुप्तो ऽपि परिम्लानमुखीकृतः।
क्षणिकत्वचमत्कृत्वसमुत्प्रेक्षणपण्डितः ॥
तथा हि वर्तमानवस्तुविग्रहग्राहि विज्ञानमनन्तरोक्तनयेन जनकार्थप्रतिभा-
सनाद् द्वित्रिक्षणस्थायितामर्थस्य गमयतीत्युक्तम्, आद्यं च किंचिद्विज्ञानम-
नागतकालस्पर्शि भवति, यथाऽऽह भट्टः—‘रजतं गृह्यमाणं हि चिरस्थायीति
गृह्यते’ इति, उत्तरमपि प्रत्यभिज्ञानं प्रतीतकालावच्छिन्नमर्थमवद्योतयतीति
दर्शितम् ,
न चातीतानागतजन्मग्रहणमाशङ्कनीयमिति कारणसामर्थ्यनियमान्न ह्यती-
तानागतजन्मग्रहणमशक्यक्रियमिति यावदपि दृश्यमानं ग्रहणं तदप्यपन्होतुं
युक्तम्, न चैतावताऽतीतानागतकालावच्छिन्नवर्तमानवस्तुग्रहणमात्रेण सामा-
न्यतो दृष्टेनादृष्टमप्यतीतानागतज्ञानं कल्प्यम् , यथादर्शनं हि वस्तूनि व्यवस्था-
प्यन्ते न किञ्चिद् दृष्ट्वाऽन्यदपि कल्प्यते दृष्टमपि वा निह्नुयत इति,
( १ ) रविगुप्तो नाम कश्चित् क्षणिकवादी ।