सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 451, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 451

क्षणभङ्गनिरासः । ३७

एवमनन्तरनिगदितदूषणनिकुरुम्ब(१)विनिहतप्रसरम् ।
नाध्यक्षं क्षणिकत्वे न चानुमानप्रमाणं तत् ॥
क्षणभङ्गे निरस्ते च कार्यमाधारवद् ध्रुवम् ।
अतो ज्ञानादिकार्येण युक्तमाश्रयकल्पनम् ॥
सुखादेरपि कार्यस्य विज्ञानाद्व्यतिरिक्तता ।
प्रागुक्तेति तद्प्यन्यद्भवत्यस्यानुमापकम् ॥
किं च नाङ्गीकरोषि त्वमात्मानं पारलौकिकम् ।
उपैषि परलोकं च किमिदं ते बकव्रतम् ॥
कर्म सन्तानिनाऽन्येन यत्कृतं चैत्यवन्दनम् ।
ततोऽद्य फलमन्येन भुज्यतेऽकृतकर्मणा ॥
न वा निर्वृतिरप्येति चैत्यवन्दनकर्मणा ।
ज्ञानक्षणेन नैकेन किञ्चित्कर्म समाप्यते ॥
कार्यकारणभावश्च यस्त्वदुक्तः स दूषितः ॥
कार्यकारणभावे हि न हन्तृत्वं निवर्तते ।
अनैकान्तिकता चास्य सन्तानान्तरबुद्धिभिः ।
उपादानत्वरूपोऽपि विशेषः प्राङ् निराकृतः ॥
कार्पासरागसंक्रान्तिदृष्टान्तो यश्च वर्णितः ।
सोऽप्ययुक्तः स्वरूपेण तत्र तस्यैव दर्शनात् ॥
य एव रागः कापासे बीजे समुपकल्पितः ।
स एव दृश्यते पुष्पे न तु तस्मात्फलान्तरम् ॥
एवं कर्मानुवृत्तिः स्यात्फलभोगस्तु दुर्घटः ।
कर्मानुवृत्तिरप्येषा न चैकस्यास्ति कस्य चित् ॥
कार्यकारणयोर्भेदात्कार्पासकुसुमादिवत् ।
अन्यत्रैव हि कर्म स्यादन्यत्रैव च तत्फलम् ॥
न च सन्तानभोगाय कश्चित्कर्मानुतिष्ठति ।
फलमस्मन्ममैव स्यादिति सर्वः प्रवर्तते ॥
सर्वथा शाक्यभिक्षूणां परलोको विसंष्ठुलः ।
न तत्प्रसाधने तेषां का चिद्गमनिका ऽस्ति वा ॥
गर्भादौ प्रथमं ज्ञानं विज्ञानान्तरपूर्वकम् ।
ज्ञानत्वादित्ययं हेतुर्प्रयोजक इष्यते ॥
मूर्छाद्यनन्तरोद्भूतज्ञानैश्च व्यभिचार्ययम् ।
मूर्छितस्यापि विज्ञानमस्तीत्येतत्तु कौतुकम् ॥


( १ ) दूषणनिकुरुम्बः-दूषणसमूहः ।