सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 447, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 447

प्रत्यभिज्ञया स्थैर्यसाधनम् । ३३
नन्वतीतेऽर्थे कथमिन्द्रियं प्रवर्त्तते ? कस्यैष पर्यनुयोगः ? नेन्द्रियस्या-
चेतनत्वात् पुरुषस्त्वविस्फारिताक्षो नेदृशीं प्रतिपत्तिं लभते विस्फारिताक्षस्तु
लभते इति सोऽपि नानुयोज्यः,
नन्वतीतग्राहित्वाद्वरमप्रामाण्यं कल्पयितुं युक्तमस्या बुद्धेरिन्द्रियस्यातीते-
ऽपि सामर्थ्यमदृष्टमिति, अप्रामाण्यं नाम बाधकात्प्रत्ययात्कल्प्यते न चासा-
वस्ति प्रत्यभिज्ञायाम् अनुमानं तु तावकं प्रतिक्षिप्तम्,
ननु कारणदोषादवकल्पते एवाप्रामाण्यम्, आयुष्मान् ! सोऽप्युच्यताम्, उक्त
एवेन्द्रियस्यातीतविषयग्रहणे सामर्थ्यविरहः, वत्स ! सम्यगुक्तवानसि नायमिन्द्रि-
यस्य तिमिरादिरिव दोषः, अतीते काले स्वतन्त्रे तस्य सामर्थ्यं न तद्ग्राह्यव-
र्त्तमानवस्तुविशेषणीभूते, संस्कारसचिवस्य चास्य सामर्थ्यं न केवलस्येत्युक्तम्,
तस्मादतिक्रान्तकालविशेषितपूर्ववर्त्तित्स्तम्भादिपदार्थविषयमिन्द्रियादिसन्निकर्षो-
त्पन्नमेवेदं प्रत्यभिज्ञाज्ञानमिति सिद्धम्,
अथ वा पूर्वाभिज्ञानविशिष्टग्राह्यमाणमिष्यतां प्रत्यभिज्ञानं गन्धवत्कुन्दबु-
द्धिवद्, यथा हि लोचनगोचरेऽपि कुन्दकुसुमे तद्विषयगन्धविशेषिते बाह्येन्द्रिय-
द्वारकग्रहणमघटमानमिति मानसमेव सुरभि कुसुममिति ज्ञानम् एवं पूर्वज्ञान-
विशेषितस्य स्तम्भादेर्विशेषणमतीतक्षणविषय इति मानसी प्रत्यभिज्ञा पूर्वप्रवृत्त-
बाह्येन्द्रियोपजनितज्ञानविशिष्टबाह्यविषयग्राहिणि चान्तःकरणेऽभ्युपगम्यमाने
सति नान्धाद्यभावप्रसङ्ग इति बहुशः कथितम् ,
ननु कुन्दादेर्विशेषणं वर्त्तमानमस्ति सौरभम् इह त्वतीतं पूर्वविज्ञानमिति
कथं विशेषणमत्र, किं तेन सता करिष्यसि शतादिबुद्धिवत्तिक्रान्तस्यापि कपि-
त्थादेः कारणत्वदर्शनादिति तदेवमन्तःकरणजन्मनाऽपि प्रत्यभिज्ञानेन स्थैर्य-
मवस्थाप्यत एव भावानाम्,
क्षणभङ्गनिरासः !
या तु मुण्डितकेशादिप्रत्यभिज्ञानतुल्यता ।
स्तम्भादिप्रत्यभिज्ञायाः कथ्यते सा(१)ऽप्यसङ्गता ॥
तत्रान्तराले मुण्डितशिरोदर्शनमेव बाधकमित् न किंचिदस्ति, अत-
एव शब्दे सदैव स्फुरन्त्या विनाशबुद्ध्या वैधुर्यमुपनीता प्रत्यभिज्ञा तु न
तामवस्थापयितुं समर्थेत्युक्तम्, ज्वालादावपि तैलवर्त्तिक्षयानुमानबाधितत्वाद्
भ्रान्ता प्रत्यभिज्ञा न तु तथास्तम्भादावनुमानमपि बाधकमस्ति, सत्त्वानुमानं
(१) पूर्वं मुण्डितेषु पश्चादुत्पन्नेषु केशेषु त एवामी केशा इति प्रत्यभिज्ञा यथै-
कत्वस्य स्थिरत्वस्य वा न साधिका तद्वत्स्तम्भादिप्रत्यभिज्ञाऽपि इति तौल्यं खण्ड-
यति-सापीति !
५