सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 449, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 449

प्रत्यक्षस्य स्थैर्यसाधकत्वम् । ३५
प्रत्यक्षस्य स्थिरवस्तुग्राहकत्वम् ।
अपि च निमेषदृष्टेरत्रुटितसत्ताकस्तम्भादिपदार्थग्राहि प्रत्यक्षमुत्पद्यते तत्कथं-
क्षणिकग्राहि कथ्यते,
यच्च तत्र विकल्पितमतीतानागतक्षणयोरसन्निहितत्वेन प्रत्यक्षग्राह्यताऽ-
नुपपत्तेर्वर्त्तमानक्षणस्य चातिसूक्ष्मत्वात्तत्कालग्राहिणा प्रत्यक्षेण क्षणिकत्वं गृहीतं
भवतीति, तदनुपपन्नम्, मा नाम भूदतीतानागतकालग्रहणं वर्तमान एव तत्रा-
निमेषदर्शनस्य कियान्काल इति चिन्त्यताम्, निमेषकृतस्यापि दर्शनविच्छेद-
स्यानवकाशाद्यावद्धि दर्शनं न विच्छिन्नं तावान्वर्तमानः काल इति तद्ग्रहणे
स्थैर्यं गृहीतं भवति न क्षणिकत्वम्,
ननु तावानसौ कालः स क्षणसमुदायो भवति न क्षणः क्षणश्चैक एव वर्त-
मानो भवति न ततः पूर्वापरौ क्षणावतीतानागतौ भवतः तयोश्च न ग्रहणमि-
त्युक्तम् , सिद्धे क्षणिकत्व एवं शक्यते वक्तुं न तु तत्साधनावसरे, कालो-
ह्येको नित्यो विभुरिति साधितोऽनुमानपरीक्षायाम , न तु क्षणसमुदायात्मा
कालः कालस्य तु भेदाः क्रियोपजनविनाशाद्युपनिबन्धनाः कल्प्यन्त इत्यपि
तत्रैव परीक्षितम् , तदयमनिमेषदृष्टेर्दर्शनविच्छेदानुपग्रहात्तावानेकः स वर्त्तमान
एव भवतु,
ननु कालो नाम न कश्चित्पारमार्थिकः पदार्थ एव परिदृश्यमानो वर्त्तमा-
नादिव्यवहारहेतुः स च न चिरमनुभूयत इति क्षणिक उच्यते, भिक्षो ! अलम-
वान्तरगमनेन मा भूतकालः पदार्थस्त्वनिमेषदृष्टिना दृष्ट्यविच्छेदादविच्छिन्नस-
त्ताक एव दृश्यत इति न क्षणिकग्राहि प्रत्यक्षम् ,
ननु भवद्भिरपि न स्थिरं ज्ञानमिष्यते क्षीणे च ज्ञाने सोऽर्थो द्वितीयक्षणे
केन गृह्यते ज्ञानान्तरेण तु गृह्यमाणः स एवेत्यत्र को निश्चयः, अनिमेषदृष्टेर्ज्ञानं
न क्षीयत एवेत्येके,
अथ वा किं न एतेन न हि विषयप्रतिभासकाले ज्ञानमवभासत इत्यसकृ-
दुक्तं, वक्ष्यते च तत्र तत्कीदृशमिति कुतो वयं विद्मः, अर्थस्त्वविच्छिन्नसत्ताक
एव गृह्यते ज्ञानं तु वर्त्तमानकालमप्यतीतानागतकालग्राहि भवति स्मरणमिव
(१)प्रातिभमिव भूतभविष्यद्वृष्ट्यनुमानमिव,
( १ ) प्रातिभम्-कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कथयतीति
ज्ञानम् । तथाच प्रशस्तपादभाष्यम् 'आम्नायविधातॄणामृषीणामतीतानागतवर्त्तमाने-
ष्मतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिवद्धेषु चात्ममनसोः संयोगाद्धर्मविशेषाच्च
यत्प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्येत तदार्षमित्याचक्षते । तत्तू प्रस्तारेण देवर्षीणाम्
कदाचिदेव लौकिकानाम् यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कथ-
यतीति' इति ।