न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 455, कुल 654 में से
संदर्भ में पढ़ेंआत्मनित्यत्वसाधनम् । ४१
न सुखदुःखव्यवस्थादर्शनाद् बन्धमुक्तविभागोपपत्तेश्चात्मभेदस्य दर्शयिष्य-
माणत्वात्, व्यापिनः कथं कर्तृत्वमिति चेत्, ज्ञानचिकीर्षाप्रयत्नसमवाय-
एवास्य कर्तृत्वं न व्यापारयोग इति निर्णीतमेतत् ।
ननु व्यापिन्यात्मनि कथं शरीरबहिरणवपि(१) कार्यं न दृश्यते कर्माक्षिप्तशरी-
रेन्द्रियादिसहकारिसन्निधाननिबन्धो हि तत्कार्योत्पादः स कथं बहिर्भवेद् इति।
तस्मादनन्तरोक्तेन प्रक्रमेणोपपाद्यते ।
नित्यत्वाद्द्ब्यापकत्वाच्च परलोकित्वमात्मनः ॥
सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत्, सद्यो जातस्य
बालस्य वदनविकासरोदनाद्यनुमितो हर्षशोकादियोगस्तावदस्ति, युवशरीरादौ
रोदनादि शोकादिकारणमवगतमिदमाननविकासादि हर्षहेतुकमेवं शिशोरपि
तन्निबन्धनस्तदुत्पादः, तौ च हर्षशोकौ सुखदुःखसाधनाधिगभतदनुस्मरणा-
न्यतरकारणौ भवितुमर्हतस्तथा दृष्टत्वात्, इह चास्य न सुखदुःखसाधनपदा-
र्थानुभवः तदानीमस्तीति तदनुस्मरणमेव हर्षशोकहेतुर्भवेन, स्मरणमपि तदनु-
भवप्रभवमनुभवश्चेह जन्मनि सद्यो जातस्य न समस्तीति(२) जन्मान्तरानुभ-
वसुखदुःखसाधनानुस्मरणनिमित्त एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरा-
नुगमाश्रित्य आत्मा,
नन्वभिनवजीवलोकावलोकाह्लादनिबन्धन एवास्य मुखविकासस्तथा यो-
निद्वारनिर्गमनोद्गतनिर्गलक्लेशपीडितस्य तस्य रोदनमिति न जन्मान्तरानुभूत-
स्मरणं कल्पयितुं युक्तमतिप्रसङ्गात्,
मैवं, सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव हर्षशोकदर्शनात् ।
ननु कमलमुकुलविकासादिवत्स्वाभाविकमेव शिशोर्मुखविकाशादिकार्यं
स्यात्, स्वाभाविकं नाम किमुच्यते किमहेतुकमविज्ञातहेतुकमनियतहेतुकं वा ?
न तावदहेतुकं कार्यं सम्भवति कार्यत्वहानिप्रसङ्गात्, नाप्यविज्ञातहेतुकं तद्भा-
वयितुं युक्तं कार्यमुपलभ्यत इति तद्धेतुपरिज्ञाने यततां भवान् किमुदास्ते न चासौ .
ज्ञातुमशक्यः कार्यस्यैव तत्र ज्ञापकत्वात्, नाप्यनियतहेतुकं कार्यं किंचिदस्ति
कार्योत्पादननियमेनैव हेतुनियमसिद्धेरत एव तत्कार्यमुपपादयितुकामास्तन्निय-
तमेव कारणमुपाददते लौकिकाः,
यत्राप्यनियतो हेतुर्वृश्चिके गोमयादिकः ।
अभियुक्तस्तत्रापि विशेषं न न मन्वते ॥
तदेवं कारणनियमोऽपि कार्यविशेषदर्शनाद् दुरुपह्नव इति मुखविकासस्य
हर्ष एव कारणमवगम्यते सहस्रकृत्वस्तथा दर्शनान्, अचेतनानां तु तामरसादी-
(१) अण्वपि-किञ्चिदपीत्यर्थः । (२) समस्ति-सम्भवतीत्यर्थः