सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 461, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 461

शरीरपरीक्षा । ४७

शरीरपरीक्षार्थं विप्रतिपत्तयः ।

तत्र पार्थिवमेवास्मदादिशरीरमिति के चित्, साधारणो हि धरणिधर्मो ग-
न्धस्तस्मिन्नुपलभ्यते इति ।
पृथिव्युदककारणमित्यन्ये, क्लेदस्यापि तस्मिन्दर्शनादसति हि सलिलसं-
सर्गे न पार्थिवाः क्लेदमनुभवन्तीति ।
क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलम्भादिति,
वसुमतीसलिलसितेतररश्मिसमीरणावरचितमिति चान्ये, रचनाविशेषस्य
पवनकार्यस्य तत्रावधारणादिति ।
अवनि(१)वनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाशस्या-
प्याकाशकार्यस्य तत्र दर्शनात्सुषिरं हि शरीरमुपलभ्यते अवकाशे चाकाशैकदे-
शेऽप्यवच्छेदाभिप्रायेण श्रोत्रवद्गत्या तत्कार्यत्वव्यपदेश इति ।

शरीरस्य पार्थिवत्वम् ।

तदत्र किं तत्त्वं पार्थिवमेवास्मदादिशरीरमिति विजातीयकार्यस्यावयवि-
नोपपत्तेः, पार्थिवावयवसमवेतशरीरावयवग्राहिणाश्वाभेदप्रत्ययस्य तृणपर्णपा-
षामूलकाद्यभेदप्रत्ययवदपवादासम्भवात् , न च वयमिह भूतान्तराणां कार-
णभावनिषेधं विद्मः केवलपार्थिवतया निर्विवादसिद्धेऽपि कुम्भादावम्भःप्रभृ-
तीनां कारणत्वानपायात्तद्व्यतिरेकेण घटादेर्घटयितुमशक्यत्वान , किन्तु घट-
इव शरीरेऽपि समवायिकारणतां पृथिव्यवयवानामेवाचक्ष्महे तदाश्रितत्वस्था-
स्य प्रत्यक्षेण ग्रहात्सहकारिकारणत्वानुपविष्टभूतान्तरसम्बन्धनिबन्धनस्ततः सि-
द्धः क्लेदोष्मव्यूहावकाशसम्प्रत्ययस्तत्तथागमपठितेषु वरुणलोकादौ केवलजला-
दिजन्येषु सहकारित्वानुपविष्टपार्थिवावयवावष्टम्भवशेन स्थैर्याद्युपलम्भ इति , त-
स्मादस्मदादिशरीरं पार्थिवम् ।
वेदे च(२) तथैव व्यवहारो दृश्यते अग्नीषोमीयादिपशोः प्रलयकाले यजमा-
नस्य वा प्रेतस्य[३] पात्रचयनकर्मणि ‘सूर्य चक्षुर्गमयतादि’त्याद्युपक्रम्य ‘पृथिवी
ते शरीरमि’ति पठ्यते, तच्च प्रकृतिगामित्ववचनं यद्यतः प्रकृतेरुत्थितं तत्तस्यामे-
वास्य लीयतामित्यर्थः । तत्र यथा तैजसं चक्षुरिति सूर्याख्ये तेजसि उद्गमनमुप-
दिष्टमेवं पृथिव्यां शरीरस्येति तस्मात्पृथिव्यवयवैरयमस्मदादिदेहं निबद्ध इति
नात्र सतां विवादः ।


( १ ) अवनिः पृथ्वो, वनं-जलं, दहनः-अग्निः ।
( २ ) वेदे च-वेदेपीत्यर्थः । ( ३ ) प्रेतस्य-मृतस्य ।