सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 446, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 446

नासावस्तीत्युच्यते अपि त्वासीदस्तीत्युच्यमानं वर्त्तमान एव न भूत:, हन्त
तर्हि भूतो भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते, भूतत्वेनैवेति ब्रूमः,
भूत: कालो भूततया गृह्यते वर्तमानो वर्तमानतयैवार्थस्तूभयानुगत एक एव
तथा ग्रहणात् ,
ननु भूतकालस्येदानीमभावात्तद्विषयं ज्ञानमनर्थजं स्यान्न धर्मिणस्तदवच्छि-
न्नस्य ज्ञानजनकस्य भावात् , भूत: कथमवच्छेदक इति चेत्तथा प्रतिभासात् ,
प्रतीतिमवमृशतु भवान्स एवायमिति यः पूर्वमासीत्स इदानीमप्यस्तीति सोऽय-
मतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते,
नन्वसता भूतकालेन विशेषितमर्थं कथमिन्द्रियजप्रतीतिराम्बनीकुर्यात् ,
उच्यते--
अन्त्यसंख्येयसंवित्तिकाले प्रागवलोकिताः ।
यथा शतादिज्ञानानि जनयन्ति घटादयः ॥
अतीतकालसंसर्गो भवन्नेव विशेषणम् ।
स्तम्भादिप्रत्यभिज्ञायाः कारणत्वं प्रपत्स्यते ॥
संख्येयाः घटादयः सन्त्यतीतकालो नास्ति इति चेत्कपित्थेषु भक्ष्यमाणेषु
किं वक्ष्यति देवानांप्रियः, शतं कपित्थानां भक्षितवान्वाहीक इति प्रतीतिदर्श-
नात् , न च(१)नवनवतावुपयुक्तेषु कपित्थेष्वत्रैव शततमे शतमिति भवति यथा
तत्रातिक्रान्तान्यपि नवनवतिः कपित्थानि शतप्रतीतिहेतुतामुपयान्ति प्रतिभा-
सोपारूढत्वादेवमतीतकालयोगोऽपि प्रतिभासमानः प्रत्यभिज्ञामाधास्यतीति,
विकल्पमात्रं शतप्रत्यय इति चेद् भो महात्मन् किं वा न विकल्पमात्रम् ,
किन्तु जीवन्त्यमी सविकल्पकप्रामाण्यवादिनः,
यश्च सामान्यसंसिद्धौ प्रकारः प्राक् प्रदर्शितः ।
योज्यः स एव द्वित्वादिसंख्यासद्भावसिद्धये ॥
इत्यलं कथाक्षेपेण ।
नन्वतिक्रान्तग्राहि च प्रत्यभिज्ञाविज्ञानमिन्द्रियार्थसन्निकर्षजं चेति नः कौ-
तुकमिदं, कियत्कौतुकमर्थस्तावदस्य पुरोऽवस्थितोऽस्त्येव जनकः स्तम्भादिः,
नन्वस्ति स तु वर्तमानकाल एव, न केवलं, वर्तमानकालयोगिनाऽर्थेन तत्प्रत्य-
यजननात्तस्य वर्तमान इवातीतोऽपि कालोऽवच्छेदकतां प्रतिपद्यते स च तदव-
च्छिन्नोऽर्थ इदं ज्ञानमाधातीत्यर्थजमेतदिन्द्रियजमपि भवति तद्भावाभावानु-
विधानात्,


( १ ) नवेति । यदा नवतिः कपित्था भुक्ता एकोऽवशिष्ट इति अवशिष्टमेक-
मादाय शतमितिव्यवहारो भवितुं नार्हति इति अतीतानपि कपित्थानादाय शतमिति
व्यवहारः तथा अतीतकालयोगोऽपि प्रत्यभिज्ञामाधास्यतीति भावः ।