न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 444, कुल 654 में से
संदर्भ में पढ़ें[३८] न्यायमञ्जर्याम्
समर्थत्वासमर्थत्वविकल्पेऽपि प्रसङ्गतः ।
सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात् ।
तदन्तर्गतस्य तु कारकजातस्य शकटाद्यङ्गस्येव सामर्थ्यं यावत्तावदभ्युपग-
तमेव तदपेक्षस्य सामग्र्याः साधकतमत्वस्य निर्वहणं न हि भवति कृष्ण-
च्छुक्ल इति, अविकल्पं तु सामग्र्या एव सामर्थ्यं यदनन्तरं कार्यनिष्पत्तिरिति
कार्यनिष्पत्तिदर्शनादेवावगम्यते,
यदप्येकक्षणस्थायि कारकं स्यादित्युद्घोषितं परैः, तदप्यसत्, कार्यनि-
ष्पत्तिपर्यन्तत्वादवस्थानस्य एकेन क्षणेन तेषामेककार्यनिष्पत्तेरघटमानत्वात्,
कार्यसंपत्तेरूर्ध्वं तु सामग्री विप्लवते न समग्राणि तेषामेकैकशः क्वचित्कचिदु-
पलम्भाच्चक्रसूत्रदण्डादीनाम्, इत्थं स्थिराणामेव पदार्थानामर्थक्रियासामर्थ्यं
समर्थितमिति न ततः क्षणभङ्गसिद्धिः,
एवं च सत्त्वनित्यत्वयोर्विरोधात्सत्त्वप्रतीत्यैव एकचन्द्रबुद्धिवत्तदि-
तरनिराकरणमित्यादि यत्प्रलपितं तत्प्रतिक्षिप्तं भवति,
यदप्यभाणि नाशं प्रत्यनपेक्षत्वात्क्षणिकाः पदार्था इति, तदपि यत्किञ्चिद्-
दण्डादिव्यापारान्वयव्यतिरेकानुविधायिनस्तत्कार्यस्य घटाद्यभावस्य विस्तरतः
प्रमाणचिन्ताऽवसरे प्रसाधितत्वात्, प्रध्वंसाभावश्च विनाश इत्युच्यते,
नश्वरानश्वरादिविकल्पास्तु न साधवः ।
सामग्र्यधीनः प्रध्वंसो भावानामात्मलाभत्रत् ॥
मुद्गरादिसामग्र्या घटस्य किं क्रियते ? मृत्पिण्डदण्डसामग्र्या किमस्य
क्रियते ? आत्मलाभ इति चेदनयाऽप्यात्महानं करिष्यते,
ननु नश्वरत्वे तत्कारणमफलमनश्वरत्वे त्वशक्तमिति, उत्पत्तावपि तुल्यो-
ऽयं प्रलापः, भवनस्वभावश्चेद् घटः स्वत एव भवति किं दण्डादिसामग्र्या
अभवनस्वभावस्तु कर्तुमशक्यः खरविषाणवदिति, कारकव्यापारकार्यत्वदर्श-
नादपर्यनुयोग एष इति चेद्विनाशेऽपि समः समाधिः, उत्पत्तिवद्विनाशस्यापि
कारकान्वयव्यतिरेकानुविधायित्वम्,
तस्मादुत्पन्नमात्रस्य विनाशो नास्ति वस्तुनः ।
अविनाशकसद्भावादवस्थानमिति स्थितम् ॥
ननु सापेक्षाणां भावानां नावश्यंभाविता भवेदिति घटस्य विनाशहेतुर्नो-
पनिपतेदपि कदा चिदित्येवमसौ किं नित्य एव भवत्विति, अहो महान्प्रमाद
उत्सन्नाः प्रजाः पतितो महान् वज्राशनिर्दुष्प्रतरोऽयं दोष उत्थितः यदिह घटो
नित्यो भवेत्तदिह कालाग्निरुद्र इव त्रिभुवनमपि भस्मीकुर्यात्, अपि च रे मूढ !
सावयवस्याश्रितस्य कार्यस्य च नूनमवयवविभागादाश्रयविनाशाद्वा यदा कदा
चिद्भवितव्यमेव विनाशेनेति कस्तन्नित्यत्वशङ्काऽवसरः, तथा हि न रामाभिषेक-