सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

तृतीय उच्छ्वासः । ८१
अथ विमलदुकूलप्रान्तनिर्नारिताङ्गः
परिहितसितवासाः स्वल्पमाङ्गल्यभूषः ।
शुचिरुचितविधिज्ञः स स्वयं स्वस्थचित्तः
कुशकुसुमकरः सन्कर्म धर्म्यं चकार ॥ २१ ॥
अनन्तरमावर्तितानेकस्वर्णवल्लभो वल्लभो जनस्य भोजनस्य समये
स मयेन निर्मिताया तया स्वधर्माणं धर्मसुतसभाया सभायागतजनजै-
नितारम्भोडरं भोजनस्थानवेदीं जनस्थानवेदीं गतवान् ॥ क ॥
तस्यां च बहुविस्तीर्णस्वर्णभोजनपात्रपत्रशङ्खशुक्तिसनाथायामुपवि-
ष्टस्यास्य क्रमेण परिकरमाबध्य गाढमाढौकन्त स्वस्य स्वस्यानुसारिणो-
ऽन्नविशेषानादाय सूपकाराः सूपकाराङ्गनाश्च ॥ ख ॥
तथाहि ।
भक्तास्तस्य भक्तम्, मुद्गा मुद्रान्, मोदका मोदकान्, अशोकव-
र्तिन्योऽशोकवर्तीः, समांसा मांसम्, नानाशाकाः शाकानि, व्यञ्जना
व्यञ्जनम्, अपरास्तु काश्चिदक्षीरा अपि क्षीरम्, अघारिका अपि
घारिकाः परिवेषयामासुः ॥ ग ॥
र्गलोकात् । कुं पृथ्वीम् । एत्यागत्य । याः स्युर्भवेयुः । तास्ताः स्त्रियः । तं कुम्भ-
वारिणा कलशोदकेन स्नपितवत्यः ॥ २० ॥
अथेति ॥ निर्नारितं निर्जलीकृतमुद्गमितमित्यर्थः ॥ २१ ॥
अनन्तरमिति ॥ आवर्तिता येऽनेके स्वर्णस्य वल्लास्तौल्यमानविशेषास्तद्वद्भा
यस्य । तथा वल्लभो दयितो लोकस्य भोजनस्य काले स राजा मयेन दैत्यवर्धकिना
कृतयां तया प्रतीतया युधिष्ठिरस्य सभया सधर्माणं सदृशीं भोजनस्थानवेदीम् ।
सभयानामागतानां शरणं प्रपन्नानां जनानां जनितरक्षोपक्रमः । अरमत्यर्थं जनानां
स्थानवेदी लोकस्योचितासनज्ञः प्राप्तवान् ॥ क ॥
तस्यां चेति ॥ सूपकारा औदनिका सृष्टूपकारकाश्च ॥ ख ॥
भक्ता इति ॥ भक्ताः प्रसादकाः । मुदं गच्छन्तीति मुद्गाः । मोदयन्तीति
मोदकाः । न शोके वर्ततेऽभीक्ष्णमशोकवर्ता नीर्णायको येषां यासां च । समाँसो
यासाम् । नाना अनेकप्रकारा आशा येषां यासां च । 'शेषाद्विभाषा' इति कप् । विशि-
ष्टाङ्गनाः । अक्षीणि ईरयन्ति विभ्रमात्कम्पयन्ति । अघस्य पापस्य अरिकाः
शत्रुरूपाः । भक्तमित्यादि कर्मपदानि भक्ष्यार्थानि । परिवेषणमत्र भोजनस्य भाजने
क्षेपणम् ॥ ग ॥
१ 'स्वस्थचेताः'। २ 'कुसुमकुशः'। ३ 'जनितरक्षाऽऽरम्भोऽरम्'।

८२ नलचम्पूः ।
सोऽप्यधीशो भूभुजां भुजानो भोज्यम्, लिहँल्लेह्यम्, आस्वादय-
न्स्वादु, चूषयंश्चूष्याणि, पिबन्पेयानि, आहारमकरोत् ॥ क ॥
अनन्तरमाचम्य चॅन्दनेनोद्वर्तितपाणिपल्लवः शीघ्नमाघ्राय धूपधूम-
म्, आस्ये निक्षिप्य कैस्तूरिकाकुङ्कुमकर्पूरकर्बुराणि क्रमुकफलशकला-
नि, आदाय च वित्रस्तमृगतर्णकर्णकन्नाणि शुक्तिशुक्नानि ताम्बूलीद-
लानि, तस्मात्प्रदेशादपरमवकीर्णकुसुमहारि विस्तीर्णास्तीर्णस्वर्णमयवै-
दूर्यपर्यन्तपर्यङ्काङ्कमातैः सह विर्नोदास्थायिकास्थानमगात् ॥ ख ॥
तत्र च सकामकामिनीकमलकोमलकरपुटपीड्यमानपादपल्लवः
नर्तयन्नाट्यपरिपाटीपदून्नटान्, भावयन्नमृतस्रुतः कविवाचः, वाच-
यंश्चिरंतनकविकथाः, शृण्वन्वीणाप्रवीणकिंनरमिथुनगीतानि, आलो-
कयँल्लोचनोत्सवकरान्विलासिनीलास्यविलासान्, वादयन्मृदुवाद्यवि-
शेषान्, अवधारयन्वांशिकवाद्यवेणुनिर्काणान्, कलगिरः पाठयन्प-
ञ्जरशुकान्, कान्ताकुचकुम्भमण्डलावष्टम्भलीलयापराह्नसमयमतिवा-
हितवान् ॥ ग ॥
क्रमेण च चषकायमाणविकचकनलमध्यमधुपानमत्त इव पुनर्वारु-
ण्याशयाभिभूतभासि मदादिव लोहितायमाने निपँतति मुक्तांशुकेऽंशु-
मालिनि, वनान्तरर्तंरुशिरः श्रितशाखाशिखरेषु गलद्बहलकिञ्जल्कपु-
ञ्जपिञ्जरासु मञ्जरीष्विव विलम्बमानासु दिनकरदीधितिषु, विस्ती-
र्णशिलावकाशजघनायामुल्लसल्लोहिताधरपल्लवायामस्ताचलवनराजिरे-
खायामुपरि पतितमवलोक्य रागिणमहर्पतिमीर्ष्यारोषभरादिव जाते
जपापुष्पनिचयरूँचि पश्चिमाशामुखे, मुखरयति नभो निजनीडनिर्ले-
यनाकृतंकूजितजरद्दण्डजव्रजे, व्रजति सरः संध्याविधिविधित्सया
द्विजन्मजनमुनिनिकाये, कालागुरुरँसौञ्जनराग इव श्यामलयति
अनन्तरमिति ॥ त्रस्तस्य हि मृगशावस्य कर्णौ स्तब्धौ भवतः । ताम्बूली-
दलान्यपि तादृशीति भावः ॥ ख ॥
क्रमेणेति ॥ अन्योऽपि मधुपानैन माद्यति । पुनः पुनर्मधुवाञ्छया निष्प्रभः
स्यात् । तथा क्षीबतया आरक्तः सन्निर्वस्त्रो भूमौ पतति । विस्तीर्णशिलावकाश
एव जघनं श्रोणी यस्याः । तथा उल्लसन्तो अधरा अधःस्थिताः प्रवाला यस्याः ।
ईदृश्यामस्ताचलारण्यराजौ उपरिष्टात्त्रासं रागिणं रक्तं घुमर्णि वीक्ष्य रोषादिव
१ 'चन्दनोद्वर्तित'. २ 'विक्षिप्य'. ३ 'कस्तूरिकाकर्पूर'. ४ 'विनोदस्थानम्. ५ 'वाच-
.मानवेणु'. ६ 'निक्रणान्'. ७ 'पतति'. ८ 'तरूच्छित'. ९ 'शिखरप्रगलत्' १० 'रुचि-
रुचिरे'. ११ 'निलयनाकुल'. १२ 'कूजितैर्जरद' : 'कूजितवति जरद्' १३ 'रसाञ्जना'

तृतीय उच्छ्वासः । ८३
गगनलक्ष्मीमभिसारिकामिवान्धावन्धकारे, राज्ञः संध्यावसरमावेदयत्किं-
नरमिशुनमिदमगायत् ॥ क ॥
'भोगान्भो गाङ्गवीचीविमलितशिरसः प्राप्य शंभोः प्रसादा-
न्मोहान्मोहानभिज्ञाः क्वचिदपि भवत प्राणिनो दर्पभाजः ।
यस्माद्यः स्मार्तविप्रप्रणतिनुतपदः सर्वसंपन्नभोगो
भास्वान्भाः स्वाङ्गभूता अपि स परिहरन्नस्तमेष प्रयाति'॥२२॥
एतदाकर्ण्य नरपतिः सांध्यं विधिमन्वतिष्ठत् ॥ ख ॥
क्रमेण प्रचुरचलच्चाँपकुलकालकान्तिकाशिभिर्बहलंतमःकल्लोलैरा-
लोडिते लोके लोकेश्वरो विहितविकालवेलान्यापारः पारसीकोपनीत-
पारावारपारीणपारावतपत्रिपञ्जरसनाथे विकीर्णवासधूलिनि धूपधूम-
मुचि विचित्रचित्रशालिनि प्रान्तप्रदीपितंदीपदीपिद्विदण्डखण्डिततमसि
सज्जितशय्ये शय्यागृहे गृहीतस्पृहणीयाङ्गरागो रागसागरकल्लोललोच-
नयानया प्रियया प्रियंगुमञ्जर्या अलीककलहकोपकुटिलभ्रमद्भ्रूकूणत-
र्जनजनितस्मितः स्मरविकारकारिकरिकुलकुम्भविव्रमायमाणोत्तुङ्ग-
पीवरकुचकुम्भपीठमारोपितो रजनी मनैषीत् ॥ ग ॥
एवमस्य सकलसंसारसुखपरम्परामनुभवतो यान्ति दिवसाः ॥घ॥
कदाचिच्चारुचामीकराचलचलद्देहाधिदेवतेव बहुधानन्दने सुरुचि-
पश्चिमदिगानने रक्ते जाते । अन्यस्या अपि मुखमीदृग्गुणायामपरकान्तायामनुरा-
गिणमुपरि पतितं पतिमवलोक्येर्ष्यावशाद्रक्तं स्यात् ॥ क ॥
भोगानिति ॥ भोगानित्यनन्तरो भोःशब्द आमन्त्रणे । गाङ्गोर्मिनिर्मलीकृता-
ङ्गस्य शंभोः शिवस्य प्रसादाद् भोगान् प्राप्य भो दर्पभाजः प्राणिनः, मोहात्स-
काशाद् ऊहानभिज्ञा अविमर्शकाः क्वचिदपि विषये मा भवतेति । मायोगेऽपि
सानुबन्धकलाद्विधौ पञ्चमी । यस्माद्धेतोः स्मार्तविप्रैः प्रमाणसमये स्तुतपादपद्मः ।
तथा सर्वसंपत् सकलश्रीको नभोगो वियद्गामी च यो भाखान् रविः । सोऽपि
स्वाङ्गभूता भा दीप्तीः परिहरन् एष भवतां प्रत्यक्षोऽस्तं प्रयाति सर्वे सुलभा दुर्ल-
भाश्च संपन्ना भोगा अस्येत्युक्ताभिहितम् । तस्मादेवंविधस्य महात्मनोऽपि रवेरस्तं
विलोक्य शंभोराराधनादिकार्ये न प्रमदितव्यमित्यर्थः ॥ २२ ॥
कदाचिदिति ॥ बहुधा नन्दयति हर्षयति यस्तस्मिन् । यौवनारम्भे । सुरु
१ 'आवेदयितुम्'. २ 'क्रमेण च'. ३ 'चापकुलकान्ति'. ४ 'बहलतमतमः'.
५ 'दीपप्रदीप'. ६ 'कल्लोललोललोचनया'. ७ 'पीवर'. ८ 'कुलकुम्भकण्ठपीठ'.
९ 'आरोपितकर'

रवा यौवनारम्भे सुरतोत्सवमनुभवन्ती पत्युः प्राणप्रिया प्रियंगुमञ्जरी
गर्भं बभार ॥ क ॥
तेन च विकचचूतमञ्जरीव कोमलफलवन्धेन बन्धुररमणीयाकृतिः,
चन्द्रकलेव कलाप्रवेशेनोपचीयमानप्रभा, प्रभातवेलेवोन्मीलदंशुमालि-
मण्डलेनानन्द्यमाना, रत्नाकरतरङ्गमालेवान्तःस्फुरन्माणिक्यकान्तिक-
लापेनोद्भासमाना, गर्भसंदर्भितेन लावण्यपरमाणुपुञ्जेन व्यराजत
राजमहिषी ॥ ख ॥
गच्छत्सु च केषुचिद्दिवसेषु सुवृत्ततुहिनाचलगण्डशैलयुगलमिव
वालमयूरिकाक्रान्तम्, अनङ्गसौधशिखरद्वयमिव शेखरीकृतेन्द्रनीलक-
लशम्, उज्ज्वलरौप्यनिधानकुम्भयुग्ममिव भुजंगसंगतमुखम्, उल्ला-
सिहंसमिथुनमिव चञ्चूत्खातपङ्किर्कमलकन्दम्, ऐरावतमस्तकपिण्ड-
पाण्डुरमुच्चचूचुकश्यामलिम्नाऽलंकृतमापूर्यमाणमन्तःक्षीरेण क्षणं क्षण-
मखिद्यत पयोधरद्वन्द्वमुद्वहन्ती ॥ ग ॥
बबन्ध च चन्द्रकलाङ्कुरकवलने स्पृहाम् ॥ घ ॥
अभिलाषमकरोच्च चञ्चलचञ्चरीककुलकलरवरमणीयविकचचूत-
वनविहारेषु ॥ ङ ॥
स्पर्शममन्यत बहु वहलमभ्यर्णावकीर्णविकसितकमलवननिष्य-
न्दिमकरन्दविन्दोर्मन्दतरेतरङ्गसङ्गशीतलमलयमारुतस्य ॥ च ॥
चिन्तयांचकार च चतुरुदधिलावण्यरसमास्वादयितुम् ॥ छ ॥
अभ्यवाञ्छदुतुच्छमच्छमशेषममन्दमन्दरमन्थानमन्थोत्पन्नममृत-
मातृप्ति पातुम् ॥ ज ॥


रुचिरिच्छा रवः स्वरो यस्याः । शोभनाभिलाषा कलभाषिणी च । सुरतं मोहन-
मेवोत्सबमनुभवन्ती प्रियंगुमञ्जरी गर्भं दधे । चामीकराचलो मेरुस्तस्य चलद्देहा अधि-
ष्ठातृदेवतेव । सोऽपि बहुधानेकधा नन्दनाख्ये वनारम्भे सुष्ठु अतिशयेन रुचिर-
वायौ सुरताया देवत्वस्योत्सबमनुभवति । आरम्भणमारम्भः आदिरित्यर्थः ।
नन्दनं हि वनानामादिरम्यं प्रधानमित्यर्थः । यदिवा वनान्यरभ्यन्तेऽनेनेति कृत्वा
वनारम्भः । शतानन्देन हि प्रथमं नन्दनं सृष्ट्वा तद्वृक्षावयवैर्बीजशाखादि-
भिरितरवनानि जगति सृष्टानि ॥ क ॥


१ 'बन्धुरा'. २ 'अंशुनांशुमाली'. ३ 'लावण्यपुण्यपरमाणु'. ४ 'बालमयूर'.
५ 'संगतम्'. ६ 'कमलकोमलकन्दम्'. ७ 'पिण्डमिवोपरि मदलुब्धभ्रमदलिकुलारंकृतं
पाण्डुरम्'. ८ 'क्षीरेण क्षणमखिद्यत'. ९ 'बहुलम्'. १० 'तरङ्गशीतलमारुतस्य'.
११ 'अभ्यवाञ्छदच्छ'. १२ 'मथनोत्पन्न'.

तृतीय उच्छ्वासः । ८५
इत्यनेकधोत्पन्नगर्भप्रभावोदानुरूपदोहदसंपत्तिसंपन्नाधिककमनीय-
कान्तिरुल्लसद्बहुलमृगमदजललिखितविचित्रपत्रभङ्गभव्यविपुलकपोल-
मण्डलेन मुखेन शशाङ्कमन्तःस्फुरत्कलङ्कमुपहसन्ती द्विगुणमवनिफ्ते-
स्तस्य प्रिया प्रियंगुमञ्जरी बभूव ॥ क ॥
तथा हि ।
सा समीपस्थितज्येष्ठा पयःपूर्णपयोधरा ।
अग्रप्रावृडिवाह्लादमकरोत् तस्य भूपतेः ॥ २३ ॥
एवमविरतविविधवाञ्छोत्सवाविच्छेदकर्तरि भर्तरि, संज्ञयैवाज्ञा-
कारिण्यपारे पैरिंकारे, वैहुभङ्गिभाग्योपभोगक्रमेणातिक्रामति कुत्रचि-
त्काले, कालकलाकुशलश्लाघनीये पूर्णप्राये प्रसवसमये, विलीनजात्य-
शातकुम्भभासि भास्वत्युदयमारोहति, हततिमिरासु दिक्षु क्षणमेकं
सा प्रसववेदना व्यतिकरमन्वभूत् ॥ ख ॥
ततश्च
प्रभासंयोगिविख्यातं योग्यं नालस्यकर्मणः ।
पृथ्वीय पुण्यतीर्थ सा कन्यारत्नमजीजनत् ॥ २४ ॥
तत्र च दिवसे 'विकसितकुमुदकुन्दकान्तिकीर्तनीयकीर्तिसुधया
धवलानिकरिष्यत्येषा प्रवर्धमानास्मन्मुखानि' इति प्रियादिव प्रसन्नाः
तेनेति ॥ कुसुमान्तर्गूढः फलारम्भकरसकणिकारूपो बन्धः कोमलफलबन्धः
॥ क ॥
सा समीपेति ॥ समीपे स्थिता ज्येष्ठा वृद्धस्त्रियो ज्ञातप्रसवस्वरूपा यस्याः ।
तथा पयसा क्षीरेण पूर्णौ पयोधरौ स्तनौ यस्याः । सा प्रियंगुमञ्जरी तस्य राज्ञो
मुदमकरोत् । अग्रे प्रावृषोऽग्रप्रावृट् आषाढवर्षाः । तत्पक्षे समीपे स्थितो ज्येष्ठः
शुक्लो मासो यस्याः । तथा पयसा जलेन पूर्णः पयोधरो मेघो यस्याः । भुवो हि
प्रावृट् परमोदकारिणीति भुवः पत्युराह्नादं करोति ॥ २३ ॥
प्रभेति ॥ कान्तिसंयोगि । विख्यातं प्रसिद्धम् । नलस्य नृपतेरिदं नाल्मम् ।
कर्म अगण्यपुण्यात्मकं तस्य । योग्यमुचितम् । कन्यारत्नम् । सा । अजीजनदुत्पा-
दयामास । पृथ्वी पुण्यतीर्थमिव । तदपि प्रभासाख्यम् । योगिभिर्योगमार्गस्तैर्वि-
ख्यातम् । आलस्य असारस्य कर्मणो न योग्यम् । अथ च आलस्यकर्मणो न
योग्यम् । किं तर्हि उद्यमक्रियायोग्यम् । ततस्तदर्थे केनापि न प्रमदितव्यमिति
भावः ॥ २४ ॥
तत्र चेति ॥ कन्यारत्नान्वेषिणो हि । सुरभयः सौरभ्यवन्तः । समा सश्री-
१ 'शशाङ्कमङ्क'. २ 'भूसूतः'. ३ 'परिजने'. ४ 'अङ्गोपभोग'. ५ 'क्षणमिव
सा'. ६ 'कान्ति'.
८

८६ नलचम्पूः ।
समपद्यन्त दश दिशः। 'मा स्म पुनरस्मद्गुणानेषापहार्षीत्' इत्यपहृतैकै-
कसारगुणाः सभया नमस्यन्त इव तस्यै कुसुमाञ्जलिममुञ्चँश्चेन्द्रादयो
देवाः। स्वकान्तिसर्वस्वापहारभयादिव दिवि ननृतुरप्सरसः। 'किमस्याः
समं समुत्पन्नमन्यदपि कन्यारत्नम्' इत्यन्विष्यन्त इव परितः परि-
बभ्रमुः सुरभयः समाः समीराणाः ॥ क ॥
किं बहुना ।
अमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् ।
जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ २५ ॥
अथ बहोः कालादनुरूपप्रौढप्रहरणप्राप्तिप्रीतहृदयेनास्फोटितमिव
सकलजगद्विजयव्यवसायसाहसिकेन कुसुमसायकेन, चिरादुचिताश्र-
यलाभमुदितमनसा स्फूर्जितमिव शृङ्गाररसेन, शुचिकाशकुसुमहास्येन
योग्यसहकारिकारणोपलम्भपूर्णमनोरथेन वल्गितमिव वसन्तमासेन,
निजकर्मणः सफलतां मन्यमानेनोच्छ्वसितमिव मलयानिलने, चिर-
कालोपलब्धश्लाघ्याधारतया हसितमिव रूपसंपदा, विकँसितमिव
लावण्यलक्ष्म्या, प्रनृत्तमिव समस्तस्त्रीलक्षणाधिदेवतया, कलकलित-
मिव कान्तिकलापश्रिया ॥ ख ॥
किं बहुना ।
सर्गव्यापारखिन्नस्य बहोः कालाद्विधेरपि ।
आसीदिमां विनिर्माय श्लाघ्यः शिल्पपरिश्रमः ॥ २६ ॥
एवमस्याः सततविस्तीर्णस्वर्णपूर्णपात्रपूजितपूज्यद्विजन्मनि संपन्ने
नामकर्मसमये सँमान्य मान्यजनं जनेश्वरो वरप्रदानमनुस्मृत्य दमन-
कमुनेः 'दमयन्ती' इति नाम प्रतिष्ठितवान् ॥ ग ॥
क्रमेण च प्रचुरौमृतसंसिक्ता इव सुकुमाराः प्रसर्तुमारभन्ताङ्गाव-
यवपल्लवाः, चकार च चञ्चच्चामीकररुचिरुचिराङ्गणमणिवेदिकासु
कैश्चिद्दिवसैरनुच्चचरणप्रचारचारुचापत्यलीलाः, सहासमकरोत्परिजनं
जनयन्ती बांलकेलीः, स्वच्छन्दमानन्दयांचकार पितरं तैरङ्गभङ्गीँरङ्गि-
काश्च भवन्ति ॥ क ॥
१ 'प्रवर्धमाना शश्वदस्मात्'. २ 'इन्द्रादयः'. ३ 'स्वविकासहासयोग्य'. ४ 'आधारया'.
५ 'विलसितमिव'. ६ 'सामान्यजनो जनेश्वरः'. ७ 'अमृतरससंसिक्ताः'. ८ 'बालके-
लिम्'. ९ 'तरत्तरङ्ग'. १० 'रिङ्गितैन'.

तृतीय उच्छ्वासः । ८७
तेन, जननीमजीजनज्जातविस्मयां स्मितमुग्धदर्शितदन्तकान्तिकुन्दपु-
ष्पमनिष्पन्नाक्षरमल्पालपं जल्पन्ती ॥ क ॥
किं बहुना ।
अपि रेणुकृतक्रीडं नरेणुक्रीड्यान्वितम् ।
तस्याः प्रौढं शिशुत्वेऽपि वयो वैचित्र्यमावहन् ॥ २७ ॥
एवमियमनवरतस्वैरविहाराहारिणि क्रमेणातिक्रामति शैशवे वयसि
पितुर्नियोगाद्गुरूपदेशात्साधुवृद्धसंवासाद्बुद्धिविकासाच्च नातिचिरेण,
प्राप्ता नैपुण्यं पुण्यकर्मारम्भेषु, जाता प्रवीणा वीणासु, निराकुला
कुलाचारेषु, कुशला शलाकालेख्येषु, विशारदा शारिदायेषु, प्रबुद्धा
प्रबन्द्धालोचनेषु, चतुरा चातुरानाथजनचिकित्सासु ॥ ख ॥
किं चान्यत् ।
अकरोदनालस्यं लास्ये, प्राप प्राधान्यं धन्योचितव्यवहारेषु, वैचित्र्यं
चित्रेषु, चातुर्यं तौर्यत्रिके, कौशलं शल्योद्धारे, पाटवं पटहवादने,
वैमल्यं नवमाल्यग्रथने, प्रागीत्यं गीत्याम्, प्राकाम्यं कामकथासु ॥ग॥
किं बहुना ।
न तत्काव्यं न तन्नाट्यं न सा विद्या न सा कला ।
यत्र तस्याः प्रबुद्धाया बुद्धिर्नैव व्यजृम्भत ॥ २८ ॥
एवमस्याः शैशव एव निजजरठप्रज्ञाप्रज्ञातज्ञातव्यवस्तुविस्तरायाः
क्रमेण तिलकभूतं नूतनचूतवनमिव वसन्तप्रवेशप्रथमपल्लवोल्लासेन,
प्रत्यग्रघनससमयमहीमण्डलमिवामन्दविर्दलत्कन्दलकलापेन केसरिकि-
शोरकण्ठपीठमिव नवकेसराङ्कुरोद्वारेण, करिकलभकपोलस्थलमिव
प्रथममदोद्भेदेन, निशावसाननभस्तलमिव प्रभातप्रारम्भप्रभाप्रभावेण,
सरःसलिलमिव विदलितकोमलकमलकान्तिसंतानेन, मनोहारिणा
अपीति ॥ रेणुना कृता क्रीडा यत्र । तथा 'कस्त्वां परिणेष्यति, त्वं कस्मै
दातव्या' इत्याद्युक्तिभिर्नरे पुंसि विषये अणुक्रीडान्वितमल्पक्रीडाकरम् । तस्याः
संबन्धि । वयः । शैशवेऽपि प्रौढं वैचित्र्यं दधौ । अपिर्विरोधार्थः । स च तुल्या-
र्थव्याख्यया ॥ २७ ॥
अकरोदिति ॥ प्रगीता प्रसिद्धा तस्या भावः प्रागीत्यम् ॥ ग ॥
१ 'स्मितमुग्धदुग्धस्निग्धदर्शित'. २ 'कान्तिजितकुन्द'. ३ 'एवमस्या अनवरत'.
४ 'विहार'. ५ 'सप्रबन्धा'. ६ 'चतुगातुरा'. ७ 'चित्रे'. ८ 'शल्योद्धारेषु'. ९ 'कथायाम्'.
१० 'विजृम्भते'. ११ 'प्रज्ञातव्य'. १२ 'विगलत्'. १३ 'प्रभातप्रभा'. १४ 'प्रसरेण'.
१५ 'विदल्लत्'.

संसारसारभूतेनाभूष्यत वपुः कान्ततरतारुण्यावतारप्राक्प्रारम्भेण
॥ क ॥
ततश्च ।
परिहरति वयो यथा यथाऽस्याः
स्फुरदुरुकन्दलशालि बालभावम् ।
द्रढयति धनुषस्तथा तथा ज्यां
स्पृशति शरानपि सज्जन्मनोभूः ॥ २९ ॥
अपि च ।
मुञ्चन्त्याः शिशुतां भरादवतरत्तारुण्यमुद्राङ्कित-
स्फारीभूतनितान्तकान्तवपुषस्तस्याः कुरङ्गीदृशः ।
उन्मीलत्कुचकाञ्चनाव्जमुकुलं यूनां मुहुः पश्यतां
बाह्वोरन्तरमन्तरायसदृशा मन्ये निमेषा अपि ॥ ३० ॥
ततश्च
तत्तस्याः कमनीयकान्तविजितत्रैलोक्यनारीवपुः
शृङ्गारस्य निकेतनं समभवत्संसारसारं वयैः ।
यस्मिन्विस्मृतपक्ष्मपालिचलनाः कामाल्सा दृष्टयो
नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ ३१ ॥
अपि च ।
आबभ्रत्परिवेषमण्डलमलं वक्त्रेन्दुविम्बाद्वहिः
कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् ।
तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं
लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥३२॥”
एतदाकर्ण्य राजा रञ्जितस्तत्कथया पुनरुद्गच्छदुच्चरोमाञ्चकञ्चु-
कितकायस्तत्कालमेवान्तः स्फुरन्मन्मथमनोरथभरभज्यमानमानसं तं
हंसमपृच्छत् ॥
“पक्षिराज राजीववनावतंस हंस, पुनः कथ्यतां तस्याः संप्रति
वयोवृत्तवृत्तान्तव्यतिकरः ” ॥
इत्युक्तः पुनरेशं तं बभाषे ।
“देव, किमेकोऽस्मद्विधः पक्षी क्षीरतरङ्गधवललोचनां तां वर्णयेत्
यस्याः सर्वदेवमय इवाकारो लक्ष्यते ॥ ख ॥


पादटिप्पण्यः (Footnotes):
१ 'वयः'. २ 'मुद्राङ्कितम्'. ३ 'अपि च'. ४ 'वपुः'. ५ 'वलनाः'. ६ 'उज्ज्वलम्'.
७ 'तदाकर्ण्य'. ८ 'उद्गच्छद्रोमाञ्च'. ९ 'एवं तं बभाषे;' 'एनं बभाषे'. १० 'विभाव्यते'.

तृतीय उच्छ्वासः। ८९
तथा हि।
सुतारा दृष्टिः, सकामाः कटाक्षाः, सुकुमाराश्चरणपाणिपल्लवाः,
सुधाकान्ति स्मितम्, अरुणो दन्तच्छदः भाखन्तो दन्ताः सुकृष्णाः
केशाः, प्रबुद्धा वाणी, गौरी कान्तिः, गुरुः स्तनाभोगः, पृथ्वी जघन-
स्थली, सुरभिर्निःश्वासः सुगन्धवाहः प्रस्वेदः, सश्रीकः सकलाङ्ग-
भोगः ॥ क ॥
किं चान्यत् ।
नक्षत्रमयीव निर्मिता विधिना ॥ ख ॥
तथा हि।
भद्रपदा ज्येष्ठा सुहस्ता पूर्वोत्तरा सार्द्रहृदया मूलं कंदर्पस्य ॥ ग ॥
किं बहुना ।
लावण्यातिशयः स कोऽपि मधुरस्ते केऽपि दृग्विभ्रमाः
सा काचिन्नवकन्दलीमृदुतनोस्तारुण्यलक्ष्मीरपि ।
सौभाग्यस्य च विश्वविस्मयकृतः सा कापि संपद्यया
लग्नानङ्गमहाग्रहा इव कृताः सर्वे युवानो जनाः ॥ ३३ ॥
राजा—'ततस्ततः' ।
हंसः—'ततस्तस्याः पुनरिदानीं
दूराभोगभरेण सुप्रगतिना श्लिष्टा नितम्बस्थली
धत्ते स्वर्णसरोजकड्मलकलां मुग्धं स्तनद्वन्द्वकम् ।
आलापाः स्मितसुन्दराः परिचितभ्रूविभ्रमा दृष्टय-
स्तस्यास्तर्जितशैशवव्यतिकरं रम्यं वयो वर्तते ॥ ३४ ॥
सुतारेति ॥ तारा कनीनिका देवी च । कामः अभिलाषः स्मरश्च । सम्यक्
कामो येभ्यः । तुमः समश्च काममनसोर्मलोपः । सुकुमाराः कोमलाः । तथा
महेन्द्रवत्कार्तिकेयोऽपि सुकुमारः । सुधावत्कान्तिरस्येति सुधाकान्ति शुभ्रं चन्द्रश्च ।
अरुण आरक्तो रविसारथिश्च । भाखान् दीप्यमानः सूर्य्यश्च । कृष्णो मेचको विष्णुश्च ।
प्रबुद्धा व्युत्पन्ना । बुद्धः सुगतः । गुरुर्विशालो वृहस्पतिश्च । पृथ्वी पृथुला भूश्च ।
सुरभिः सुगन्धिवंसन्तश्च । गन्धवाहः परिमलवाही वायुश्च । श्रीः कान्तिर्लक्ष्मीश्च ॥क॥
भद्रेति ॥ भद्रं पदं पादन्यासो यस्याः । ज्येष्ठा प्रथमापत्यम् । शोभनौ
हस्तौ यस्याः । पूर्वमुत्कृष्टमुत्तरं वचो यस्याः । सार्द्रमनिष्ठुरं हृदयमस्याः । कामस्य
मूलं कारणम् । पक्षे भद्रपदा ज्येष्ठा हस्तः पूर्वा उत्तरा आर्द्रा मूलं नक्षत्राणि ॥ग॥
लावण्येति ॥ नवकन्दलीवन्मृद्वी तनुर्वपुर्यस्याः ॥ ३३ ॥
१ 'कुसुमारश्चरणपल्लवः'. २ 'अधरपल्लवः'. ३ 'सा विनिर्मिता'. ४ 'दृष्टिभ्रमाः'.
५ 'स्पृष्टा'. ६ 'कुलम्'.

९० : नलचम्पूः ।
तदेष तस्याः सकलयुवजनमनोम्यूरवासयष्टेः समस्तसंसारसौन्द-
र्याधिदेवतायाः कथितो वृत्तान्तः ॥
किमन्यत् ।
हरचरणसरोजाराधनावाप्तपुण्यः
परमसुकृतकन्दो वदनीयः स कोऽपि ।
अपि जयतु स यस्तां दुर्लभां लप्स्यतेऽस्मि-
न्निति कथितकथः सन्नैसोऽपि हंसो व्यरंसीत् ॥ ३५ ॥
इति श्रीत्रिविक्रमभट्टस्य कृतौ दमयन्तीकथायां हरचरणसरो-
जाङ्कायां तृतीय उच्छ्वासः समाप्तः ॥
───
चतुर्थ उच्छ्वासः ।
एवमेतदाकर्ण्य राजा तत्कालमाघूर्णितमाश्चर्येण, आकुलितमौत्सु-
क्येन, आमन्त्रितमुत्कण्ठया, कैटाक्षितं कंदर्पेण, अभिवादितं रणरण-
केन, ज्योत्कारितमाग्रहग्रहेण, पृष्टकुशलमकालतरलतया, स्वीकृतम-
स्वास्थ्येन, अवलोकितं चिन्तया चेतः स्वं स्वयमेव स्वस्थ्यी कृत्य वित-
र्कितवान् ॥ ख ॥
'प्रायः सैव भवेदेषा पान्थादश्रावि या मया ।
युगायितं विनिद्रस्य यत्कृते मे त्रियामया ॥ १ ॥

इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ १ ॥
इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे तृतीय
उच्छ्वासः समाप्तः ॥
एवमेतदिति ॥ ख ॥
प्राय इति ॥ यदर्थे मे मम विगतनिद्रस्य त्रियामया रात्र्या युगेनेवाचरि-
तम् ॥ या च पथिकान्मया श्रुता । सैवेयं हंसेनापि कथिता प्रायो भवेत् । युगं
कृतयुगादि । त्रियामयेति त्रिसंख्यामितप्रहररात्रिवाचकत्वेन साभिप्रायम् । प्रायः-
शब्दो वितर्के ॥ १ ॥
───
१ 'जयति'. २ 'सोऽथ; योऽथ. ३ 'आकाङ्क्षितम्'. ४ 'झात्कारित'. ५ 'आग्रहेण'.
६ 'आपृष्ट'. ७ 'आलोचितम्'; 'आलोकितम्'.

चतुर्थ उच्छ्वासः । ९१
तदेतन्मे
तद्वार्तामृतपानार्थं भूयोऽपि श्रवणेन्द्रियम् ।
तृप्यते केनवानन्दकन्दे कान्ताकथानके ॥ २ ॥
तत्किमेनं पुनः पृच्छामि ॥ क ॥
नेदं नायकस्थानम् ॥ ख ॥
अतः संप्रति
मण्डलीकृतकोदण्डः कामः कामं विचेष्टताम् ।
न व्यथिष्ये स्थितः स्थैर्ये धैर्यं धामवतां धनम्¹ ॥ ३ ॥
इति वितर्क्य विहसन्हंसमावभाषे—'साधु भोः सुभाषितामृतम-
होदधे, साधु । श्रुतं श्रोतव्यम् । इदानीं भद्र भूयिष्ठो दिवसः । तद्द्वयं
वयस्य, समासन्नाह्निकसमयाः³ समुचितव्यापारं साधयामः ॥ ग ॥
भवतापि
एताः सान्द्रद्रुमतलचलच्चक्रवाकीचकोराः
क्रीडावापीपरिसरभुवः स्थीयतां स्वेच्छयेति⁴ ।
यत्रोन्मीलत्कमलमुकुलान्याश्रयन्त्यः कुरङ्गयो
भृङ्गश्रेण्याः श्रवणसुभगं गीतमाकर्णयन्ति ॥ ४ ॥
अपिच
अतिललिततरं तरङ्गभङ्गै-
रिदमपि तृङ्गरवारि वारि वाप्याः ।
भ्रमदलिनिवहं वहन्ति यस्मि-
न्महिमकरं मकरन्दमम्बुजानि ॥ ५ ॥
त्वमपि भद्रे वनपालिके, कृतकमलमालानितम्बकक्रीडमिममादाय
भुक्तावसानास्थानगोष्ठीस्थितस्य मम समीपमेष्यसि' इत्यभिधाय राजा
राजभवनमयासीत् ॥ घ ॥
नेदमिति ॥ नायकस्य ईदृशं स्थानं स्थितिरौचित्यं न भवतीत्यर्थः । यतो
धैर्यं हि नायकपदं परं वदन्ति ॥ ख ॥
अतीति ॥ यस्मिन्वारिणि महिमकरं माहात्म्यकरं भ्रमद्भृङ्गगणं मकरन्दं पद्मा-
नि वहन्ति । तदिदं वाप्या वारि तरङ्गभङ्गैरतिचारुतरं वर्तते । किंविशिष्टम् ।
तृष्णातिशयं वारयति छिनत्ति । पूर्ववृत्तक्रीडावापीभूकथनापेक्षयापिशब्दोऽत्र समु-
च्चये ॥ ५ ॥
CC-0. १ 'धैर्यं हि महतां धनम्' - २ 'गतः' - ३ 'समयसमुचितम्'- ४ 'स्वेच्छयैव'.

९२ नलचम्पूः ।
गते च राजनि राजीविनीनां जीवितसमाः समास्वाद्यन्स्वादुको-
मलमृणालकन्दलीः, दलयन्दलानि, कवलयन्बहुलमधुरस्निग्धमुकु-
लानि, अनुशीलयञ्शीतलशैवलावलीः, विलासेन स हंसस्तरंस्तरङ्गा-
न्तरेषु चिरं चिक्रीड ॥ क ॥
चिन्तितवांश्च 'तेन राज्ञा 'कृतकमलमालानितम्बक्रीडमिममा-
दाय मत्समीपमेष्यसि' इति श्लिष्टार्थमिवादिष्टा वनपालिका । तन्न
युक्तमिह चिरं स्थातुमिति' ॥ ख ॥
इत्यस्थान एवाशङ्कमानः सह तेन राजहंसकदम्वकेनाम्बरतलमुद्-
पतत् ॥ ग ॥
तत्र च व्यतिकरे दिवापि स्फारस्फुरत्तारामण्डलमिव, विकचनव-
कुवलयवनगहनमिव, अन्तरान्तरोन्निद्रकुमुदखण्डमुड्डीनास्ते क्षणमशो-
भयन्त नभस्तलम् ॥ घ ॥
अविलम्बिताश्च न चिराद्देवापुर्विदर्भमण्डलमण्डनं कुण्डिनपुरम्॥ङ॥
अवतेरुश्च चकितचलचक्रवाकालोक्यमानकृतान्धकारविभ्रमभ्रम-
द्भ्रमरभरभज्यमानाम्भोजभाजि राजभवनासन्नकन्यान्तःपुरोद्यानक्री-
डासरसि ॥ च ॥
संरभसप्रधावितेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवे-
दितांस्तानवलोकयितुमतिकौतुकेन दमयन्ती कन्यान्तःपुरात्पुराणमदि-
रारुणायताक्षी क्षिप्रमाजगाम ॥ छ ॥
आगत्य च चटुलतरचरणचञ्चुप्रहारविदलितारविन्दकन्दलानुत्ता-
लवालनलिनीवनविहारिणस्तान्गृहीतुमेकैकशः सखीजनमादिदेश॥ज॥
चिन्तितवांश्चेति ॥ तेन राज्ञा इत्यमुना प्रकारेण श्लिष्टार्थमिव यथा भवति
तथैव वनपालिकादिष्टा । इतीति किम् । यत् कृता कमलमालाया नितम्बके घनप्राये
मध्यप्रदेशे क्रीडा येनेति राजाभिप्रायः । मालाशब्दगतस्त्रीत्वेन कमलमालायाः
साक्षात्स्त्रीत्वाध्यवसायान्नितम्बशब्दः रूढवयवोऽपि तदर्थमात्रे प्रयुक्तः । हंसेन
त्वेवं प्रतीतम् । यथा कृतकं कापटिकंचा । तथा अलमत्यर्थम् । आलानिबं बद्धम् ।
तथा बकवत् क्रीडा यस्य । तादृशमिमं गृहीत्वा मत्समीपमायास्यसीति ॥ ख ॥
१ 'बहुल'. २ 'मधु'. ३ 'स्निग्धमुग्ध'. ४ 'हंसस्तरङ्गभङ्गान्तरेषु'; 'हंसस्तरङ्गा-
न्तरेषु'. ५ 'श्लिष्टाक्षरम्'. ६ 'अस्थानम्'. ७ 'अम्बरमुदपतत्'. ८ 'विकचकुवलयग-
हनम्'. ९ 'तत्क्षण'. १० 'एवापुः'. ११ 'कुण्डिनं पुरम्'. १२ 'नवाम्भोजराजिभाजि'.
१३ 'रभस'. १४ 'कन्दलानुत्ताननलिनी'.

चतुर्थ उच्छ्वासः । ९३
स्वयं च चेलवलयचोरुरववाचालितप्रकोष्ठेन सविलासं विस्मयकरं
करपल्लवेन तं⁴ राजपुत्री राजहंसमुच्चिक्षेप ॥ क ॥
पाणिपङ्कजस्थित एव सोऽप्यभिमुखीभूय विभाव्य च चेतश्चमत्का-
रकारिणमस्याः कान्तिविशेष⁵माशिषमदात् ॥ ख ॥
'कंदर्पस्य जगज्जैत्रशस्त्रेणाश्चर्यकारिणा ।
रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ६ ॥
अपिच ।
निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं
स्वव्यापारपरिश्रमस्य कलशं वेधाः संमारोपयत्⁷ ।
कंदर्पं पुरुषाः स्त्रियोऽपि⁸ दधते दृष्टे च यस्मिन्सति
द्रष्टव्यावधिरूपमाप्नुहि पतिं तं दीर्घनेत्रं⁹ नलम्' ॥ ७ ॥
दमयन्ती तु तस्मिन्क्षणे 'कं¹⁰ संस्कृतवाचः पक्षिणो विवक्षितवा-
चश्च' इति मनसि विस्मयं भयं च, 'नामाप्याह्लाद़¹¹र्जननं नलस्य' इति
वपुषि वेपथुं रोमाञ्चं च हृदयेऽनुरागमौत्सुक्यं च, समकालमुल्लोला-
यमानमुद्वहन्ती चिन्तयांचकार ॥ ग ॥
'सोऽयं यस्तेन पान्थेन यान्त्या गौरीमहोत्सवे ।
नलोऽप्यनल एवासीद्वर्णितो मे पुरः पुरा' ॥ ८ ॥
अथास्याः सेखी¹² परिहासशीला नाम नाम्नैव नलस्योद्भिन्नबहुलपु-
लकाङ्कुरामिमामवलोक्य नर्मालापमकरोत् ॥ घ ॥
कंदर्पस्येति ॥ रूपेणेत्युपलक्षणे तृतीया । रम्भावदूरूयस्याः । 'उरूत्तर-'
इत्यूङ् संबुद्धौ ह्रस्वत्वम् ॥ ६ ॥
निर्मायेति ॥ दर्पमहंकारं पुरुषाः कं दधते । न कमपीत्यर्थः । स्त्रियः पुनः
कंदर्पं मन्मथं दधते । सकामा भवन्तीत्यर्थः । अपिः पुनरर्थे समुच्चये वा ॥ ७ ॥
सोऽयमिति ॥ यो नलः स कथमनेलः । परिहारे त्वनलो वह्निः । स्मरसन्ता-
पहेतुत्वात् ॥ ८ ॥
१ 'चलद्वलय' २ 'चारुवाचालित' ३ 'सविलासविस्मयकरन्' ४ 'तं राजहंसं
राजपुत्री समुच्चिक्षेप' ५ 'कारणम्' ६ 'सदृशम्' ७ 'संमारोपयन्' ८ 'स्त्रियो
विदधते' ९ 'दीर्घनेत्रे' १० 'क्व पक्षिणः' ११ 'जनकम्' १२ 'परिहासशीला
नाम सखी'

९४ नलचम्पूः ।
कोष्णं किं नु निषिच्यते तव वैलातैलं सखि श्रोत्रयो-
रन्तस्तित्तिरिपक्षिपत्त्रमथवा मन्दं मृदु भ्राम्यति ।
येनाङ्गेषु निखातमन्मथशरप्रस्फारपिच्छच्छवि-
र्नीलीमेचकितोच्चकञ्चुकरुचं रोम्णां वहत्युद्गमः ॥ ९ ॥
दमयन्ती तु तस्याः सवैलक्ष्यस्मितमेवोत्तरं कल्पयन्ती शनैः शिरः-
कम्पतरलितावतंसोत्पला सलज्जा चलद्विलोचनान्तेन तामतर्जयत्॥क॥
अवादीच्च तं राजहंसम् 'अहो महानुभाव, सर्वथाश्चर्यहेतुरसि ॥ख॥
तथाहि ।
द्रष्टव्यानुरूपं रूपम्, महाश्चर्यगर्भाः प्रपञ्चितवाच्या वाचः, सूचि-
तसंस्कारातिरेको विवेकः, सौजन्याश्रयः प्रश्रयः, निष्कारणोपकार-
धात्री मैत्री ॥ ग ॥
तत्त्वमनेकधा जनितविस्मयो बहु प्रष्टव्योऽसि ॥ घ ॥
किं तु प्रस्तुतं पृच्छामः ॥ ङ ॥
कथय । कोऽयमात्मरूपसंभावितकंदर्पदर्पदावानलो नलो नाम॥च॥
यस्यैतानि मन्दरमंथनक्षणक्षुभितक्षीरसागरतरङ्गभ्रमभ्रान्तिभाञ्जि
भ्रमन्ति यशांसि' ॥ छ ॥
इत्येवमुक्तः सोऽपि 'सुन्दरि, यद्येवमुपविश्यताम् । अवधीयतां
मनः । श्रूयतां संविश्रब्धम्' इत्यभिधाय कथयितुमौरब्धवान् ॥ ज ॥
'अस्ति समस्तसुरासुरलोककर्णपूरीकृतकान्तकीर्तिकुन्दकुसुमः, कुसु-
मायुधरूपरमणीयदेहप्रभः, प्रभावयुक्तो विप्रभावश्च, शुचिरनुपताप-
कोष्णमिति ॥ सखीत्यामन्त्रणे । न्विति वितर्के । तव कर्णयोर्मध्ये किं वला-
तैलं निषिच्यमानमस्ति। किं वा मृदुतित्तिरिपिच्छं मन्दं भ्रमदस्ति । येन हेतुना।
अङ्गेषु शरीरावयवेषु । निमग्ना ये कामशराः तेषां प्रस्फाराणि पिच्छानि तद्व-
च्छविर्यस्य स तथोक्तो रोम्णामुद्गमो रोमाञ्चो नील्या ओषधिविशेषेण मेचकितस्य
श्यामलितस्य उच्चकञ्चुकस्य कान्तिं दधाति । प्रस्फारत्वं पिच्छानामप्रवेशे हेतुः ।
अन्यथा शरेषु प्रविष्टेषु पिच्छान्यपि कथं न प्रविष्टानि । तेन पिच्छच्छविरिति
कविराचष्टे ॥ ९ ॥
अस्तीति ॥ प्रभावो माहात्म्यम् । विप्राणां भां तेजोऽवतीति । विरोधे विर्व्य-
पेतार्थः । शुचिः पुण्यम् । विरोधे तु ग्रीष्मः । यद्विश्वप्रकाशः— 'शुचिः शुद्धेऽनु-
पहते शृङ्गाराषाढयोः'. इति । 'ग्रीष्मे हुतवहेऽपि' इति ॥ घनः प्रचुर आगमः
१ 'बलातैलम्'. २ 'शरप्रसार'. ३ 'रुचिम्'. ४ 'मन्थान'. ५ 'विभ्रम'. ६ 'मन्ति';
'कृन्ति'. ७ 'श्रोतव्यं श्रूयतामिति'. ८ 'विश्रब्धम्'. ९ 'आरभत'.

कारी च, घनागमसमयो न वारिबहुलश्च, शिशिरस्वभावो न जाड्य-
युक्तश्च, रामः कुशलवयोरामणीयेकेन, जनको वैदेहभागेन, नैषधः
प्रजानां पतिः, विरञ्च इव नाभिभूतः समरे, वीरो वीरसेनो नामा॥क॥
यस्य च बहुशोभयाऽङ्कप्रभया सह स्फुरत्युदारा मनोवृत्तिः, अख-
ण्डनयाज्ञया सदृशी राजते राज्यस्थितिः, सज्जया सेनया सह श्लाघ-
नीया कृपाणयष्टिः ॥ ख ॥
यश्च सशृङ्गारो नारीषु, वीरो वैरिषु, वीभत्सः परदारेषु, रौद्रो
द्रोहिषु, सहास्यो नर्मालापेषु, भयानकः सङ्ग्रामाङ्गनेषु, सकरुणः
शरणागतेषु ॥ ग ॥
यस्य च चतुरुदधितटीटीकमानशरच्चन्द्रविशदयशोराशिराजहंसस्य,
निस्त्रिंशता कृपाणेषु, कुचातुर्यं कलत्रेषु, कूपदेशसेवा पापर्धिकेषु, लुब्ध-
कपर्यायः कैवर्तकेषु, तीक्ष्णता शस्त्रेषु, धर्मच्छेदो धनुर्विद्यायाम्॥ घ॥
सिद्धान्तो यस्य । वा समुच्चये । अरिः शत्रुः । विरोधे घनागमसमयो वर्षाकालः ।
स च वारिबहुलो भवति ॥ शिशिरः शीतो माघफाल्गुनौ च । जाड्यं मौर्ख्यं हिमं
च । इत्युष्णवर्षाशीतकालव्यतिरेकः । तथा कुशलेन चतुरेण वयोवस्थासौन्दर्येण
रामश्चारुः । तथा विदेहा देशास्तेषामयं वैदेहो भागस्तेन जनकाख्यनृपतिप्रतिमः ।
अन्यत्र रामो दाशरथिः । वै वितर्के । देहस्य भां कान्तिं गच्छति व्याप्नोति इति
कृत्वा डप्रत्यये देहप्रभागेन शरीरकान्त्यनुसारिणा रामणीयेकेन सौन्दर्येण । कुशस्य
लवस्य च जनको जनयिता । नैषधो निषधदेशीयः प्रजापती राजा । समरे युद्धे
न कदाचिदभिभूतः । विरञ्चस्तु विष्णुनाभेर्भूतो जातः ॥ क ॥
यस्य चेति ॥ अत्र प्रथमातृतीययोः श्लेषः । बहुश इति भिन्नम् । अभया
भयरहिता । तृतीयान्ते वही शोभा यस्यां तया । तथा अखण्डो नयः षाड्गुण्यं
यस्याम् । तृतीयायां न खण्डनमस्याः । तथा सञ्छोभनो जयो यस्याः । सेनापक्षे
सज्जया प्रवणया ॥ ख ॥
यस्य चेति ॥ निस्त्रिंशता खड्गत्वम् । कुचाभ्यामातुर्ये दुर्बहभरत्वात् ।
कूप्रदेशस्य सेवामृगयाभ्यासेषु तथा लुब्धक इति 'पर्यायः एकार्थे शब्दान्तरम्' ।
तथा धर्मनामा द्रुमो यन्मयं धनुर्विधीयते । तस्य च्छेदः कर्तनम् । कृपाणादिष्वेव
निस्त्रिंशतादीनीति परिसंख्योक्त्या न तस्येति शेषः । तस्य राज्ञो न । निस्त्रिंशता
क्रूरकर्मत्वम् । कुत्सितं चातुर्यम् । तथा कुत्सित उपदेशो येषां तेषां दाम्भिकानां
सेवा । तथा कुत्सितो लुब्धो लुब्धकः । तस्य पर्यायः परिणामः । तीक्ष्णता
आयःशूलिकत्वम् । धर्मस्य पुण्यस्य च्छेदः ॥ घ ॥
१ 'पतिः प्रजानाम्' २ 'विरञ्चिरिव' ; 'विरिञ्च इव' ३ 'द्रोहेषु' ४ 'यस्य
चतुरुदधि' ५ 'कूपसेवा'

९६ . नलचम्पूः ।
एवमस्य हरस्येव करस्थं कृत्वाशेषमण्डलमनवरतविख्यातविजया-
भिनन्दिनः, सुन्दरकैलासनाभिरम्यवनान्तरेषु विहरतः, मदननिरुद्ध-
नैषधीपीनोच्चकुचकुम्भावष्टम्भमसृणितवक्षःस्थलस्य सुखेनाभिक्रामन्ति
दिवसाः ॥ क ॥
कदाचिच्चतुरुदधिवेलावलयितवसुंधराविख्यातमपत्यमभिलषन्नना-
दरचरणाङ्गुष्ठनिष्ठ्यूतकैलासोन्मूलनागतपतद्दशवदनविरसविरुतविह-
सितामरमण्डलीमहितमहिमानमनवरतविर्रिश्चिरचितविचित्रनामसा-
मवस्तुतिं॑मनवरतसकललोककल्याणकामधेनुमनुपमवर्चसमर्चयां-
चकार भगवन्तमम्बिकापतिम् ॥ ख ॥
अतिभक्तितोषितहरलब्धवरश्च निरुपमरूपयानुरूपया रूपवत्यभि-
धानया प्रधानया प्रियया सह मकरकेतनकेलिफलमनुभवन्नतिचिर-
मासांचक्रे ॥ ग ॥
अतिक्रामति तु कियत्यपि समये संपन्नसत्त्वा समपद्यत रूपवती॥घ॥
तेन च संमस्तसंसारसारवस्तु धृतकान्तिकणकलितगर्भारम्भेण,
नारायणाभिरिव विरञ्चोत्पत्तिकमलकन्दबन्धेन, कल्पपादपलतेव
पल्लवारम्भोच्छ्वासेन, मनाङ्ञ्छेदुरितोदरा रराज राजीविनयना राजपत्नी
॥ घ ॥
एवमस्येति ॥ करे रजभागे स्थितमशेषं मण्डलं देशम् । अनवरतप्रथित-
विजयैर्हृष्टस्य । कं जलम् । एला लता । असनः पीतमालः । तैः सुन्दरैरभिरम्येषु
काननविशेषेषु । विचरतस्तस्य सकामनिषधस्त्रीपीनोच्चकुचकुम्भयोरवष्टम्भेन मसृ-
णितं वक्षःस्थलं यस्य तथोक्तस्य सतः सुखेन यान्ति दिवसाः । विहरणकृतमिह
हरेण सहौपम्यम् । तदा । करः पाणिः । शेषाख्यो नागः । तस्य मण्डलं कुण्ड-
लाकारं वपुः । विजया गौरीसखी । नन्दी हरप्रतीहारः । कैलासो गिरिः ।
नाभिमुल्यार्थः ॥ क ॥
कदेति ॥ निष्ठ्यूतं निरसनम् । 'निष्ठापितम्' इति पाठे तु निःशेषेण स्थाप-
नम् । अविरतम् । विचित्रनामभिर्भर्ग-भगवन्त्रिेत्रादिभिः । सामवेदार्थैश्च। विरञ्चेन
विरचितस्तुतिम् ॥ ख ॥
१ 'एवं तस्य'. २ 'विजयानन्दिनः'. ३ 'कदाचिदपि'. ४ 'विरुति'. ५ 'अविरत'.
६ 'विरञ्चि'. ७ 'विरचित'. ८ 'अनवरतमवनत'. ९ 'रूपया च'. १० 'सकल'.
११ 'कणकलाप'. १२ 'विरिञ्च'.

चतुर्थ उच्छ्वासः । ९७
क्रमेण च मेचकोच्चचूचुककुचकुम्भकपोलिपाण्डिम्ना निम्नयन्ती मृग-
लाञ्छनच्छायमवाञ्छदच्छामृतपयःपिष्टमूर्तिमन्मधुसमयमदनमृगाङ्क-
मण्डलरसेनात्मानमौलेप्तुम् ॥ क ॥
अग्रतः सखीजनविधृतमपास्य मणिमयमुकुरमण्डलमनवरतनिशा-
निर्मलकरवालतलेष्वात्ममुखकमलमवलोकयांचकार ॥ ख ॥
निरस्य नीलोत्पलमरजठरकण्ठीरवकण्ठकेसरस्तवकमकरोत्कर्णाव-
तंसम् ॥ ग ॥
अतिबहलकुङ्कुमाङ्ककस्तूरिकापङ्कमपहाय मत्तमातङ्गमदकर्दमेन नि-
जभुजशिखरयोर्विरचयांचकार विचित्रपत्रभङ्गान् ॥ घ ॥
एवमन्तःस्फुरद्गर्भानुरूपदोहदसुखमनुभवन्ती कदाचिदुच्चस्थानस्थि-
ते सौम्यग्रहग्रामे, महाराजजन्मोचितेऽह्नि शुभसंभारकारणायां काल-
वेलायां जातप्राये प्रभाते प्रभाप्रतानजनितपरिवेषमशेषतेजस्वितेजःपु-
ञ्जापहारिणमालोहितपादपल्लवोल्लसितपङ्कजच्छायम, द्यौरिव रविमण्ड-
लम्, उन्नमन्मेघमालेव विद्युल्लोलम्, अरणिरिव वितानवैश्वानरम्,
नरपालप्रिया प्रीणितगोत्रं पुत्रमजीजनत् ॥ ङ ॥
तत्र च दिवसे
सांशूकोन्नतवंशस्य तस्य राज्ञः पुरस्य च ।
बभूव लक्ष्मीः सा कापि यया स्वर्गोऽपि निर्जितः ॥ १० ॥
अपिच ।
क्रमेणेति ॥ कुचकुम्भस्य चन्द्रमाः । मेचकचूचुकस्य लाञ्छनमुपमानम् ॥
अच्छामृतमेव यत्पयो नीरं तेन पिष्टो घृष्टो योऽसौ मूर्तिमत्तां मधुसमयमदनमृ-
गाङ्कमण्डलानां रसः तेनालेप्तुमात्मानमियेष ॥ क ॥
एवमन्तरिति ॥ द्यौरपि प्रगे रविमण्डलं जनयति । तमपि दीप्तिततिकृतवेष्ट-
नम् । तथा समस्तदीपप्रभृतितजस्वितेजोमुषम् । पादाः किरणाः । पुत्रपक्षे
आ ईषत् लोहितौ पादपल्लवौ तयोरुल्लसितपङ्कजवच्छाया यस्य । तथा विद्युतां
लोलनं लोलो विलासः । मण्डलः पुंस्यपि ॥ ङ ॥
सांशुकैति ॥ राज्ञः पुरस्य च सा काचिदजनि शोभा । यथा खर्गच्छतीति
कृत्वा खर्गो देवः स्वर्गलक्षणो लोकश्च जितः । अंशुना रविणा सह सांशुक उन्नतो
वंशो यस्य । रवेर्वंशस्य च तुल्यमुदयनमिष्टम् । प्रगे तस्याप्युदितत्वात् । पुरं च
सपताकोच्छ्रितवेणुकम् ॥ १० ॥
१ 'अनुलेप्तुम्'. २ 'मुखम्'. ३ 'संसार'. ४ 'पल्लवोपहसित'.

९८ नलचम्पूः ।

सबुद्धबालाः कालेऽस्मिन्मुक्ताहारविभूषणाः ।
प्राप्ताः प्रीतिं पुरे पौरा वनेषु च तपस्विनः ॥ ११ ॥
सूतीगृहे च
अलंकृतनिशान्तेन तरुणरुणरोचिषा ।
प्रदीपानां प्रभा तेन प्रभातेन यथा जिता ॥ १२ ॥
चिरात्पल्लवितं राजवंशेन, समुच्छ्वसितं राज्यश्रिया, प्रीतं प्रण-
यिभिः, प्रनृत्तं पौरैः, प्रमुदितं बान्धवैः, विद्राणं द्रोहिजनैः, उन्नदितं
वियत्यदृष्टमङ्गलवादित्रैः, चित्रायितमतिबहलपरिमलपतत्पुष्पवृष्ट्या,
विकसितं दिग्वधूवदनारविन्दैः, विलसितमतिसुरभिसुखस्पर्शसमीर-
णेन, स्वच्छन्दायितं बन्दीकृतारातिरमणीभिः, आढ्यायितमर्थिलो-
केन ॥ क ॥
किं बहुना ।
अवृष्टिनष्टधूलीकमशरन्निर्मलाम्बरम् ।
अपीतमत्तलोकं च जगज्जन्मोत्सवेऽभवत् ॥ १३ ॥
भूते च विभवभूयिष्ठे षष्ठीजागरणव्यतिकरे, अतिक्रान्तेषु च सूत-
कदिवसेषु नामकरणोचितेऽह्नि 'न लॉस्यति धर्मधनान्येष साधुभ्यः'


सबुद्धेति ॥ वृद्धः पितामहादिः । बालः पुत्रादिः । ताभ्यां सह । मौक्ति-
कहारालंकरणाः पौराः । मुनयस्तु सबुद्धकेशाः कूर्चादैरसंस्कारात् । तथा मुक्ता
आहारा यैः । तथा व्यपेतभूषाश्च ॥ ११ ॥
अलमिति ॥ येन प्रभातेनेव प्रदीपानां प्रभा जिग्ये । अलंकृतं निशान्तं गृहं
येन । तथा तरुणारुणो मध्याह्नार्कस्तद्वद्रोचिर्यस्य । अत एवं दीपप्रभा निष्प्रभा ।
महात्मनां हि भूयिष्ठेन तेजसा दीपप्रभाप्यभिभूयते । प्रभातेन तु अलमत्यर्थम् ।
तरुणया नूतनया अरुणस्य रविसारथे रोचिषा । कृतो निशाया रात्रे्रन्तो येन ।
यदिवा अरुणरोचिषा लोहितकान्तिना तरुणोपलक्षितेन प्रभातेन । तत्समये हि
दिनकरकरस्पर्शात्तस्तरवो रक्तीभवन्ति ॥ १२ ॥
चिरादिति ॥ चित्रायितं भक्तिविशेषविन्यासायितम् । कुमारजन्मोत्सवे गु-
प्तीनां मोक्षणाद्बन्दीनां स्वाच्छन्द्यम् । आढ्यत्वे त्यागातिशयो हेतुः ॥ क ॥
अवृष्टीति ॥ वृष्ट्या हि धूली नश्यति । शरदा द्योरमलता । पानेनोन्मदः ।
यच्चेदृशं तदन्तरेणापि जगदजायत स तदुत्पत्तिप्रभावः ॥ १३ ॥
भूते चेति ॥ प्रविष्येति । निमित्तात्सामुद्रिकलक्षणाज्जन्मसभाद्वा साधूनां


१ 'सूतिकागृहे च'. २ 'चित्रीदितम्'. ३ 'अर्थिलोकेः'. ४ 'लात्येष धर्मधनानि'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

चतुर्थ उच्छ्वासः । ९९
इति ब्राह्मणाः प्रविश्य तस्य ‘नलः’ इति नाम प्रतिष्ठापयामासुः ॥ क ॥
क्रमेण च चतुरुदधिवेलावनविकासोचितकीर्तिकुन्दकन्दलैर्विश्ववि-
श्वंभराभिलम्भलम्पाकौः कुमारसेवकैरिव सकलचक्रवर्तिचिह्नैरलंकृता-
वयवो विस्तरजटालवालः कल्पपादपाङ्कुर इव वर्धितुमारभत ॥ ख ॥
विरचितचूडाकरणादिसंस्कारक्रमश्च प्राप्ते विद्याग्रहणकाले निमि-
त्तमात्रीकृतोपाध्यायः स्वयमेव समस्तानवद्यविद्याम्भोनिधेः परं पारम-
वाप ॥ ग ॥
तथाहि ।
प्रबुद्धबुद्धिर्बौद्धे, सविशेषशेमुषीको वैशेषिके, विख्यातः सांख्ये,
रञ्जितलोको लोकायते, प्राप्तप्रभः प्राभाकरे, प्रतिच्छन्दकश्छन्दसि,
अनल्पविकल्पः कल्पज्ञाने, शिक्षाक्षमः शिक्षायाम्, अकृतापशब्दः
शब्दशास्त्रे, अभियुक्तो निरुक्ते, सज्जो ज्योतिषि, तत्त्ववेदी वेदान्ते,
प्रसिद्धः सिद्धान्तेषु, स्वतन्त्रस्तन्त्रीगणेषु, पटुः पटहे, अप्रतिमल्लो झल्ल-
रीषु, निपुणः पणवेषु, प्रवीणो वेणुषु, चित्रकृच्चित्रविद्यायाम्, उद्दामः
कामतन्त्रे, कुशलः शालिहोत्रे, श्रेष्ठः काष्ठकर्मणि, सावलेपो लेप्ये,
पण्डितः कोदण्डे, शौण्डः शारिषु, गुणवान्गणिते, बहुलो बाहुयुद्धेषु,
चतुरश्चतुरङ्गद्यूतक्रीडायाम् उपदेशको देशभाषासु, अलौकिको लोक-
ज्ञाने ॥ घ ॥
धनाग्रहणे अन्तर्मुखमभिप्रायमाश्रित्येत्यर्थः ॥ क ॥
क्रमेणान्ते ॥ कुमारसेवका युवराजानुचराः । तदुपमै राजचिह्नै रेखाकृतैश्चक्र-
चापकुलिशादिभिर्भूषिताङ्गः । तथा विस्तरन्तो जटालाः स्वभावजटाबन्धा बालाः
कचा यस्य । वृत्तचूडाकरणस्य हि केशा विजटीभवन्ति । कल्पवृक्षस्तु प्रसरन्मूला-
लवालः ॥ ख ॥
प्रबुद्धेति ॥ चित्रवृत्तलक्षणं छन्दः । कल्पः पितृदेवताद्याराधनविधिशास्त्रम् ।
अकारादिवर्णजन्मस्थानानां बोधिका शिक्षा । अन्वयस्य प्रकाशकं निरुक्तम् । अ-
तीन्द्रियशुभाशुभकर्मणां प्रकाशकं ज्योतिषम् ॥ घ ॥
१ 'शुश्रुवाणः'. २ 'कन्द.' ३ 'विश्वंभरालम्भ'. ४ 'अलंकृताङ्गावयवः'. ५ 'विस्तरत्'.
६ 'समये'. ७ 'अकलङ्कोऽकलङ्के'. ८ 'प्रतिभः'. ९ 'छन्दःशास्त्रे'. १० 'कल्पजाते'.
११ 'सिद्धान्ते'. १२ 'वीणावेणुषु.'. १३ 'शालिहोत्रेषु, अमुद्रः सामुद्रिके'. १४ 'शरेषु';
'शारेषु'. १५ 'गुणिने'. १६ 'बहुगुणो'. १७ 'बाहुयुद्धे'. १८ 'तुरङ्गमक्रीडा',
'तुरङ्गव्यूहक्रीडा'. १९ 'भाषासु'.

किं बहुना ।
रसे रसायने ग्रन्थे शस्त्रे शास्त्रे कलास्वपि ।
नले न लेभिरे लोकाः प्रमाणं निपुणा अपि ॥ १४ ॥
क्रमेण शैशवमतिक्रामतोस्य सेवकैरिवाङ्गावयवैरप्यनुवृत्तिः कृता॥क॥
तथाहि ।
श्रवणासक्तस्य लोचनद्वयमपि श्रवणसंमतिमकरोत् ॥ ख ॥
उन्नतस्वभावस्य नासावंशोऽप्युन्नतिं जगाम ॥ ग ॥
वक्रोक्तिकुशलस्य केशकलापोऽपि वक्रतां भंजे ॥ घ ॥
शङ्खनिर्मलगुणस्य कण्ठोऽपि शङ्खाकारमधारयत् ॥ ङ ॥
पृथुलमतेरंसकूटद्वयमपि पृथुलमभूत् ॥ च ॥
प्रमाणवेदिनो वक्षःस्थलमपि सुप्रमाणमजायत ॥ छ ॥
मध्यस्थस्य तस्य रोमराजिरपि मध्ये स्थिता शुशुभे ॥ ज ॥
सुवृत्तस्य बाहूयुगलमपि सुवृत्तमभवत् ॥ झ ॥
गम्भीरप्रकृतेर्नाभिरपि गम्भीरा व्यराजत ॥ ञ ॥
पल्लवसुकुमारहृदयस्य हस्तचरणैरपि पल्लवसौकुमार्यमङ्गीकृतम् ॥ट॥
अथ किं बहुना ।
सोष्णीषमूर्धा ध्वजवर्चक्रपाणि-
रूर्णाङ्कविस्तीर्णललाटपट्टः ।
सुस्निग्धमूर्तिः ककुदुन्नतांसः
कस्यैष न स्यान्नयनाभिरामः ॥ १५ ॥
रस इति ॥ रसः पारदः । रसायनं जरामरणापहं औषधयोगः । ग्रन्थः
काव्यशास्त्रादिरचना । शस्त्रं खङ्गादि । शास्त्रं व्याकरणतर्कादि । कला गीतनृत्यादयः ।
एतेषु निपुणा अपि सन्तो लोका नले राज्ञि प्रमाणमियत्तां न प्रापुः ॥ १४ ॥
श्रवणेति ॥ श्रवणे शास्त्राकर्णने आसक्तः । श्रवणसंगतिः कर्णसंगतिः ॥ ख ॥
पृथुलेति ॥ अंसकूटेति कूटशब्दः शिखरार्थः ॥ च ॥
प्रमाणेति ॥ प्रमाणं तर्कशास्त्रं मानं च ॥ छ ॥
मध्येति ॥ मध्यस्थोऽकृतपक्षपातः । अन्यत्र मध्ये उदरे तिष्ठतीति ॥ ज ॥
सुवृत्तेति ॥ वृत्तं शीलं वर्तुलं च ॥ झ ॥
गम्भीरेति ॥ गम्भीरप्रकृतिरलक्ष्यकोपप्रसादः । निम्ना च गम्भीरा ॥ ञ ॥
सोष्णीषेति ॥ उष्णीषाकारं शारीरिकं लक्षणमुष्णीषम् । ऊर्णा भ्रूमध्ये
शुभ्रोमावर्तः ॥ १५ ॥
१ 'क्रमेण च'. २ 'वादिनो'. ३ 'मध्यस्था'. ४ 'कर'. ५ 'किं बहुना'. ६ 'चिह्न'-
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA