नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 113, कुल 258 में से
संदर्भ में पढ़ेंकारी च, घनागमसमयो न वारिबहुलश्च, शिशिरस्वभावो न जाड्य-
युक्तश्च, रामः कुशलवयोरामणीयेकेन, जनको वैदेहभागेन, नैषधः
प्रजानां पतिः, विरञ्च इव नाभिभूतः समरे, वीरो वीरसेनो नामा॥क॥
यस्य च बहुशोभयाऽङ्कप्रभया सह स्फुरत्युदारा मनोवृत्तिः, अख-
ण्डनयाज्ञया सदृशी राजते राज्यस्थितिः, सज्जया सेनया सह श्लाघ-
नीया कृपाणयष्टिः ॥ ख ॥
यश्च सशृङ्गारो नारीषु, वीरो वैरिषु, वीभत्सः परदारेषु, रौद्रो
द्रोहिषु, सहास्यो नर्मालापेषु, भयानकः सङ्ग्रामाङ्गनेषु, सकरुणः
शरणागतेषु ॥ ग ॥
यस्य च चतुरुदधितटीटीकमानशरच्चन्द्रविशदयशोराशिराजहंसस्य,
निस्त्रिंशता कृपाणेषु, कुचातुर्यं कलत्रेषु, कूपदेशसेवा पापर्धिकेषु, लुब्ध-
कपर्यायः कैवर्तकेषु, तीक्ष्णता शस्त्रेषु, धर्मच्छेदो धनुर्विद्यायाम्॥ घ॥
सिद्धान्तो यस्य । वा समुच्चये । अरिः शत्रुः । विरोधे घनागमसमयो वर्षाकालः ।
स च वारिबहुलो भवति ॥ शिशिरः शीतो माघफाल्गुनौ च । जाड्यं मौर्ख्यं हिमं
च । इत्युष्णवर्षाशीतकालव्यतिरेकः । तथा कुशलेन चतुरेण वयोवस्थासौन्दर्येण
रामश्चारुः । तथा विदेहा देशास्तेषामयं वैदेहो भागस्तेन जनकाख्यनृपतिप्रतिमः ।
अन्यत्र रामो दाशरथिः । वै वितर्के । देहस्य भां कान्तिं गच्छति व्याप्नोति इति
कृत्वा डप्रत्यये देहप्रभागेन शरीरकान्त्यनुसारिणा रामणीयेकेन सौन्दर्येण । कुशस्य
लवस्य च जनको जनयिता । नैषधो निषधदेशीयः प्रजापती राजा । समरे युद्धे
न कदाचिदभिभूतः । विरञ्चस्तु विष्णुनाभेर्भूतो जातः ॥ क ॥
यस्य चेति ॥ अत्र प्रथमातृतीययोः श्लेषः । बहुश इति भिन्नम् । अभया
भयरहिता । तृतीयान्ते वही शोभा यस्यां तया । तथा अखण्डो नयः षाड्गुण्यं
यस्याम् । तृतीयायां न खण्डनमस्याः । तथा सञ्छोभनो जयो यस्याः । सेनापक्षे
सज्जया प्रवणया ॥ ख ॥
यस्य चेति ॥ निस्त्रिंशता खड्गत्वम् । कुचाभ्यामातुर्ये दुर्बहभरत्वात् ।
कूप्रदेशस्य सेवामृगयाभ्यासेषु तथा लुब्धक इति 'पर्यायः एकार्थे शब्दान्तरम्' ।
तथा धर्मनामा द्रुमो यन्मयं धनुर्विधीयते । तस्य च्छेदः कर्तनम् । कृपाणादिष्वेव
निस्त्रिंशतादीनीति परिसंख्योक्त्या न तस्येति शेषः । तस्य राज्ञो न । निस्त्रिंशता
क्रूरकर्मत्वम् । कुत्सितं चातुर्यम् । तथा कुत्सित उपदेशो येषां तेषां दाम्भिकानां
सेवा । तथा कुत्सितो लुब्धो लुब्धकः । तस्य पर्यायः परिणामः । तीक्ष्णता
आयःशूलिकत्वम् । धर्मस्य पुण्यस्य च्छेदः ॥ घ ॥
१ 'पतिः प्रजानाम्' २ 'विरञ्चिरिव' ; 'विरिञ्च इव' ३ 'द्रोहेषु' ४ 'यस्य
चतुरुदधि' ५ 'कूपसेवा'