नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 105, कुल 258 में से
संदर्भ में पढ़ेंतृतीय उच्छ्वासः । ८७
तेन, जननीमजीजनज्जातविस्मयां स्मितमुग्धदर्शितदन्तकान्तिकुन्दपु-
ष्पमनिष्पन्नाक्षरमल्पालपं जल्पन्ती ॥ क ॥
किं बहुना ।
अपि रेणुकृतक्रीडं नरेणुक्रीड्यान्वितम् ।
तस्याः प्रौढं शिशुत्वेऽपि वयो वैचित्र्यमावहन् ॥ २७ ॥
एवमियमनवरतस्वैरविहाराहारिणि क्रमेणातिक्रामति शैशवे वयसि
पितुर्नियोगाद्गुरूपदेशात्साधुवृद्धसंवासाद्बुद्धिविकासाच्च नातिचिरेण,
प्राप्ता नैपुण्यं पुण्यकर्मारम्भेषु, जाता प्रवीणा वीणासु, निराकुला
कुलाचारेषु, कुशला शलाकालेख्येषु, विशारदा शारिदायेषु, प्रबुद्धा
प्रबन्द्धालोचनेषु, चतुरा चातुरानाथजनचिकित्सासु ॥ ख ॥
किं चान्यत् ।
अकरोदनालस्यं लास्ये, प्राप प्राधान्यं धन्योचितव्यवहारेषु, वैचित्र्यं
चित्रेषु, चातुर्यं तौर्यत्रिके, कौशलं शल्योद्धारे, पाटवं पटहवादने,
वैमल्यं नवमाल्यग्रथने, प्रागीत्यं गीत्याम्, प्राकाम्यं कामकथासु ॥ग॥
किं बहुना ।
न तत्काव्यं न तन्नाट्यं न सा विद्या न सा कला ।
यत्र तस्याः प्रबुद्धाया बुद्धिर्नैव व्यजृम्भत ॥ २८ ॥
एवमस्याः शैशव एव निजजरठप्रज्ञाप्रज्ञातज्ञातव्यवस्तुविस्तरायाः
क्रमेण तिलकभूतं नूतनचूतवनमिव वसन्तप्रवेशप्रथमपल्लवोल्लासेन,
प्रत्यग्रघनससमयमहीमण्डलमिवामन्दविर्दलत्कन्दलकलापेन केसरिकि-
शोरकण्ठपीठमिव नवकेसराङ्कुरोद्वारेण, करिकलभकपोलस्थलमिव
प्रथममदोद्भेदेन, निशावसाननभस्तलमिव प्रभातप्रारम्भप्रभाप्रभावेण,
सरःसलिलमिव विदलितकोमलकमलकान्तिसंतानेन, मनोहारिणा
अपीति ॥ रेणुना कृता क्रीडा यत्र । तथा 'कस्त्वां परिणेष्यति, त्वं कस्मै
दातव्या' इत्याद्युक्तिभिर्नरे पुंसि विषये अणुक्रीडान्वितमल्पक्रीडाकरम् । तस्याः
संबन्धि । वयः । शैशवेऽपि प्रौढं वैचित्र्यं दधौ । अपिर्विरोधार्थः । स च तुल्या-
र्थव्याख्यया ॥ २७ ॥
अकरोदिति ॥ प्रगीता प्रसिद्धा तस्या भावः प्रागीत्यम् ॥ ग ॥
१ 'स्मितमुग्धदुग्धस्निग्धदर्शित'. २ 'कान्तिजितकुन्द'. ३ 'एवमस्या अनवरत'.
४ 'विहार'. ५ 'सप्रबन्धा'. ६ 'चतुगातुरा'. ७ 'चित्रे'. ८ 'शल्योद्धारेषु'. ९ 'कथायाम्'.
१० 'विजृम्भते'. ११ 'प्रज्ञातव्य'. १२ 'विगलत्'. १३ 'प्रभातप्रभा'. १४ 'प्रसरेण'.
१५ 'विदल्लत्'.