सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 116, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 116

९८ नलचम्पूः ।

सबुद्धबालाः कालेऽस्मिन्मुक्ताहारविभूषणाः ।
प्राप्ताः प्रीतिं पुरे पौरा वनेषु च तपस्विनः ॥ ११ ॥
सूतीगृहे च
अलंकृतनिशान्तेन तरुणरुणरोचिषा ।
प्रदीपानां प्रभा तेन प्रभातेन यथा जिता ॥ १२ ॥
चिरात्पल्लवितं राजवंशेन, समुच्छ्वसितं राज्यश्रिया, प्रीतं प्रण-
यिभिः, प्रनृत्तं पौरैः, प्रमुदितं बान्धवैः, विद्राणं द्रोहिजनैः, उन्नदितं
वियत्यदृष्टमङ्गलवादित्रैः, चित्रायितमतिबहलपरिमलपतत्पुष्पवृष्ट्या,
विकसितं दिग्वधूवदनारविन्दैः, विलसितमतिसुरभिसुखस्पर्शसमीर-
णेन, स्वच्छन्दायितं बन्दीकृतारातिरमणीभिः, आढ्यायितमर्थिलो-
केन ॥ क ॥
किं बहुना ।
अवृष्टिनष्टधूलीकमशरन्निर्मलाम्बरम् ।
अपीतमत्तलोकं च जगज्जन्मोत्सवेऽभवत् ॥ १३ ॥
भूते च विभवभूयिष्ठे षष्ठीजागरणव्यतिकरे, अतिक्रान्तेषु च सूत-
कदिवसेषु नामकरणोचितेऽह्नि 'न लॉस्यति धर्मधनान्येष साधुभ्यः'


सबुद्धेति ॥ वृद्धः पितामहादिः । बालः पुत्रादिः । ताभ्यां सह । मौक्ति-
कहारालंकरणाः पौराः । मुनयस्तु सबुद्धकेशाः कूर्चादैरसंस्कारात् । तथा मुक्ता
आहारा यैः । तथा व्यपेतभूषाश्च ॥ ११ ॥
अलमिति ॥ येन प्रभातेनेव प्रदीपानां प्रभा जिग्ये । अलंकृतं निशान्तं गृहं
येन । तथा तरुणारुणो मध्याह्नार्कस्तद्वद्रोचिर्यस्य । अत एवं दीपप्रभा निष्प्रभा ।
महात्मनां हि भूयिष्ठेन तेजसा दीपप्रभाप्यभिभूयते । प्रभातेन तु अलमत्यर्थम् ।
तरुणया नूतनया अरुणस्य रविसारथे रोचिषा । कृतो निशाया रात्रे्रन्तो येन ।
यदिवा अरुणरोचिषा लोहितकान्तिना तरुणोपलक्षितेन प्रभातेन । तत्समये हि
दिनकरकरस्पर्शात्तस्तरवो रक्तीभवन्ति ॥ १२ ॥
चिरादिति ॥ चित्रायितं भक्तिविशेषविन्यासायितम् । कुमारजन्मोत्सवे गु-
प्तीनां मोक्षणाद्बन्दीनां स्वाच्छन्द्यम् । आढ्यत्वे त्यागातिशयो हेतुः ॥ क ॥
अवृष्टीति ॥ वृष्ट्या हि धूली नश्यति । शरदा द्योरमलता । पानेनोन्मदः ।
यच्चेदृशं तदन्तरेणापि जगदजायत स तदुत्पत्तिप्रभावः ॥ १३ ॥
भूते चेति ॥ प्रविष्येति । निमित्तात्सामुद्रिकलक्षणाज्जन्मसभाद्वा साधूनां


१ 'सूतिकागृहे च'. २ 'चित्रीदितम्'. ३ 'अर्थिलोकेः'. ४ 'लात्येष धर्मधनानि'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA