नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 104, कुल 258 में से
संदर्भ में पढ़ें८६ नलचम्पूः ।
समपद्यन्त दश दिशः। 'मा स्म पुनरस्मद्गुणानेषापहार्षीत्' इत्यपहृतैकै-
कसारगुणाः सभया नमस्यन्त इव तस्यै कुसुमाञ्जलिममुञ्चँश्चेन्द्रादयो
देवाः। स्वकान्तिसर्वस्वापहारभयादिव दिवि ननृतुरप्सरसः। 'किमस्याः
समं समुत्पन्नमन्यदपि कन्यारत्नम्' इत्यन्विष्यन्त इव परितः परि-
बभ्रमुः सुरभयः समाः समीराणाः ॥ क ॥
किं बहुना ।
अमन्दानन्दनिष्यन्दमपास्तान्यक्रियाक्रमम् ।
जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥ २५ ॥
अथ बहोः कालादनुरूपप्रौढप्रहरणप्राप्तिप्रीतहृदयेनास्फोटितमिव
सकलजगद्विजयव्यवसायसाहसिकेन कुसुमसायकेन, चिरादुचिताश्र-
यलाभमुदितमनसा स्फूर्जितमिव शृङ्गाररसेन, शुचिकाशकुसुमहास्येन
योग्यसहकारिकारणोपलम्भपूर्णमनोरथेन वल्गितमिव वसन्तमासेन,
निजकर्मणः सफलतां मन्यमानेनोच्छ्वसितमिव मलयानिलने, चिर-
कालोपलब्धश्लाघ्याधारतया हसितमिव रूपसंपदा, विकँसितमिव
लावण्यलक्ष्म्या, प्रनृत्तमिव समस्तस्त्रीलक्षणाधिदेवतया, कलकलित-
मिव कान्तिकलापश्रिया ॥ ख ॥
किं बहुना ।
सर्गव्यापारखिन्नस्य बहोः कालाद्विधेरपि ।
आसीदिमां विनिर्माय श्लाघ्यः शिल्पपरिश्रमः ॥ २६ ॥
एवमस्याः सततविस्तीर्णस्वर्णपूर्णपात्रपूजितपूज्यद्विजन्मनि संपन्ने
नामकर्मसमये सँमान्य मान्यजनं जनेश्वरो वरप्रदानमनुस्मृत्य दमन-
कमुनेः 'दमयन्ती' इति नाम प्रतिष्ठितवान् ॥ ग ॥
क्रमेण च प्रचुरौमृतसंसिक्ता इव सुकुमाराः प्रसर्तुमारभन्ताङ्गाव-
यवपल्लवाः, चकार च चञ्चच्चामीकररुचिरुचिराङ्गणमणिवेदिकासु
कैश्चिद्दिवसैरनुच्चचरणप्रचारचारुचापत्यलीलाः, सहासमकरोत्परिजनं
जनयन्ती बांलकेलीः, स्वच्छन्दमानन्दयांचकार पितरं तैरङ्गभङ्गीँरङ्गि-
काश्च भवन्ति ॥ क ॥
१ 'प्रवर्धमाना शश्वदस्मात्'. २ 'इन्द्रादयः'. ३ 'स्वविकासहासयोग्य'. ४ 'आधारया'.
५ 'विलसितमिव'. ६ 'सामान्यजनो जनेश्वरः'. ७ 'अमृतरससंसिक्ताः'. ८ 'बालके-
लिम्'. ९ 'तरत्तरङ्ग'. १० 'रिङ्गितैन'.