नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 110, कुल 258 में से
संदर्भ में पढ़ें९२ नलचम्पूः ।
गते च राजनि राजीविनीनां जीवितसमाः समास्वाद्यन्स्वादुको-
मलमृणालकन्दलीः, दलयन्दलानि, कवलयन्बहुलमधुरस्निग्धमुकु-
लानि, अनुशीलयञ्शीतलशैवलावलीः, विलासेन स हंसस्तरंस्तरङ्गा-
न्तरेषु चिरं चिक्रीड ॥ क ॥
चिन्तितवांश्च 'तेन राज्ञा 'कृतकमलमालानितम्बक्रीडमिममा-
दाय मत्समीपमेष्यसि' इति श्लिष्टार्थमिवादिष्टा वनपालिका । तन्न
युक्तमिह चिरं स्थातुमिति' ॥ ख ॥
इत्यस्थान एवाशङ्कमानः सह तेन राजहंसकदम्वकेनाम्बरतलमुद्-
पतत् ॥ ग ॥
तत्र च व्यतिकरे दिवापि स्फारस्फुरत्तारामण्डलमिव, विकचनव-
कुवलयवनगहनमिव, अन्तरान्तरोन्निद्रकुमुदखण्डमुड्डीनास्ते क्षणमशो-
भयन्त नभस्तलम् ॥ घ ॥
अविलम्बिताश्च न चिराद्देवापुर्विदर्भमण्डलमण्डनं कुण्डिनपुरम्॥ङ॥
अवतेरुश्च चकितचलचक्रवाकालोक्यमानकृतान्धकारविभ्रमभ्रम-
द्भ्रमरभरभज्यमानाम्भोजभाजि राजभवनासन्नकन्यान्तःपुरोद्यानक्री-
डासरसि ॥ च ॥
संरभसप्रधावितेन सरस्तीरविहारव्यसनिना कन्यकाजनेन निवे-
दितांस्तानवलोकयितुमतिकौतुकेन दमयन्ती कन्यान्तःपुरात्पुराणमदि-
रारुणायताक्षी क्षिप्रमाजगाम ॥ छ ॥
आगत्य च चटुलतरचरणचञ्चुप्रहारविदलितारविन्दकन्दलानुत्ता-
लवालनलिनीवनविहारिणस्तान्गृहीतुमेकैकशः सखीजनमादिदेश॥ज॥
चिन्तितवांश्चेति ॥ तेन राज्ञा इत्यमुना प्रकारेण श्लिष्टार्थमिव यथा भवति
तथैव वनपालिकादिष्टा । इतीति किम् । यत् कृता कमलमालाया नितम्बके घनप्राये
मध्यप्रदेशे क्रीडा येनेति राजाभिप्रायः । मालाशब्दगतस्त्रीत्वेन कमलमालायाः
साक्षात्स्त्रीत्वाध्यवसायान्नितम्बशब्दः रूढवयवोऽपि तदर्थमात्रे प्रयुक्तः । हंसेन
त्वेवं प्रतीतम् । यथा कृतकं कापटिकंचा । तथा अलमत्यर्थम् । आलानिबं बद्धम् ।
तथा बकवत् क्रीडा यस्य । तादृशमिमं गृहीत्वा मत्समीपमायास्यसीति ॥ ख ॥
१ 'बहुल'. २ 'मधु'. ३ 'स्निग्धमुग्ध'. ४ 'हंसस्तरङ्गभङ्गान्तरेषु'; 'हंसस्तरङ्गा-
न्तरेषु'. ५ 'श्लिष्टाक्षरम्'. ६ 'अस्थानम्'. ७ 'अम्बरमुदपतत्'. ८ 'विकचकुवलयग-
हनम्'. ९ 'तत्क्षण'. १० 'एवापुः'. ११ 'कुण्डिनं पुरम्'. १२ 'नवाम्भोजराजिभाजि'.
१३ 'रभस'. १४ 'कन्दलानुत्ताननलिनी'.