नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 108, कुल 258 में से
संदर्भ में पढ़ें९० : नलचम्पूः ।
तदेष तस्याः सकलयुवजनमनोम्यूरवासयष्टेः समस्तसंसारसौन्द-
र्याधिदेवतायाः कथितो वृत्तान्तः ॥
किमन्यत् ।
हरचरणसरोजाराधनावाप्तपुण्यः
परमसुकृतकन्दो वदनीयः स कोऽपि ।
अपि जयतु स यस्तां दुर्लभां लप्स्यतेऽस्मि-
न्निति कथितकथः सन्नैसोऽपि हंसो व्यरंसीत् ॥ ३५ ॥
इति श्रीत्रिविक्रमभट्टस्य कृतौ दमयन्तीकथायां हरचरणसरो-
जाङ्कायां तृतीय उच्छ्वासः समाप्तः ॥
───
चतुर्थ उच्छ्वासः ।
एवमेतदाकर्ण्य राजा तत्कालमाघूर्णितमाश्चर्येण, आकुलितमौत्सु-
क्येन, आमन्त्रितमुत्कण्ठया, कैटाक्षितं कंदर्पेण, अभिवादितं रणरण-
केन, ज्योत्कारितमाग्रहग्रहेण, पृष्टकुशलमकालतरलतया, स्वीकृतम-
स्वास्थ्येन, अवलोकितं चिन्तया चेतः स्वं स्वयमेव स्वस्थ्यी कृत्य वित-
र्कितवान् ॥ ख ॥
'प्रायः सैव भवेदेषा पान्थादश्रावि या मया ।
युगायितं विनिद्रस्य यत्कृते मे त्रियामया ॥ १ ॥
इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ १ ॥
इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे तृतीय
उच्छ्वासः समाप्तः ॥
एवमेतदिति ॥ ख ॥
प्राय इति ॥ यदर्थे मे मम विगतनिद्रस्य त्रियामया रात्र्या युगेनेवाचरि-
तम् ॥ या च पथिकान्मया श्रुता । सैवेयं हंसेनापि कथिता प्रायो भवेत् । युगं
कृतयुगादि । त्रियामयेति त्रिसंख्यामितप्रहररात्रिवाचकत्वेन साभिप्रायम् । प्रायः-
शब्दो वितर्के ॥ १ ॥
───
१ 'जयति'. २ 'सोऽथ; योऽथ. ३ 'आकाङ्क्षितम्'. ४ 'झात्कारित'. ५ 'आग्रहेण'.
६ 'आपृष्ट'. ७ 'आलोचितम्'; 'आलोकितम्'.