नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 111, कुल 258 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः । ९३
स्वयं च चेलवलयचोरुरववाचालितप्रकोष्ठेन सविलासं विस्मयकरं
करपल्लवेन तं⁴ राजपुत्री राजहंसमुच्चिक्षेप ॥ क ॥
पाणिपङ्कजस्थित एव सोऽप्यभिमुखीभूय विभाव्य च चेतश्चमत्का-
रकारिणमस्याः कान्तिविशेष⁵माशिषमदात् ॥ ख ॥
'कंदर्पस्य जगज्जैत्रशस्त्रेणाश्चर्यकारिणा ।
रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ६ ॥
अपिच ।
निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं
स्वव्यापारपरिश्रमस्य कलशं वेधाः संमारोपयत्⁷ ।
कंदर्पं पुरुषाः स्त्रियोऽपि⁸ दधते दृष्टे च यस्मिन्सति
द्रष्टव्यावधिरूपमाप्नुहि पतिं तं दीर्घनेत्रं⁹ नलम्' ॥ ७ ॥
दमयन्ती तु तस्मिन्क्षणे 'कं¹⁰ संस्कृतवाचः पक्षिणो विवक्षितवा-
चश्च' इति मनसि विस्मयं भयं च, 'नामाप्याह्लाद़¹¹र्जननं नलस्य' इति
वपुषि वेपथुं रोमाञ्चं च हृदयेऽनुरागमौत्सुक्यं च, समकालमुल्लोला-
यमानमुद्वहन्ती चिन्तयांचकार ॥ ग ॥
'सोऽयं यस्तेन पान्थेन यान्त्या गौरीमहोत्सवे ।
नलोऽप्यनल एवासीद्वर्णितो मे पुरः पुरा' ॥ ८ ॥
अथास्याः सेखी¹² परिहासशीला नाम नाम्नैव नलस्योद्भिन्नबहुलपु-
लकाङ्कुरामिमामवलोक्य नर्मालापमकरोत् ॥ घ ॥
कंदर्पस्येति ॥ रूपेणेत्युपलक्षणे तृतीया । रम्भावदूरूयस्याः । 'उरूत्तर-'
इत्यूङ् संबुद्धौ ह्रस्वत्वम् ॥ ६ ॥
निर्मायेति ॥ दर्पमहंकारं पुरुषाः कं दधते । न कमपीत्यर्थः । स्त्रियः पुनः
कंदर्पं मन्मथं दधते । सकामा भवन्तीत्यर्थः । अपिः पुनरर्थे समुच्चये वा ॥ ७ ॥
सोऽयमिति ॥ यो नलः स कथमनेलः । परिहारे त्वनलो वह्निः । स्मरसन्ता-
पहेतुत्वात् ॥ ८ ॥
१ 'चलद्वलय' २ 'चारुवाचालित' ३ 'सविलासविस्मयकरन्' ४ 'तं राजहंसं
राजपुत्री समुच्चिक्षेप' ५ 'कारणम्' ६ 'सदृशम्' ७ 'संमारोपयन्' ८ 'स्त्रियो
विदधते' ९ 'दीर्घनेत्रे' १० 'क्व पक्षिणः' ११ 'जनकम्' १२ 'परिहासशीला
नाम सखी'