मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१९
एवं गुणतत्त्वमुक्त्वा बुद्धितत्त्वं वक्तुमाह
बुद्धितत्त्वं ततो नाना-
भावप्रत्ययलक्षणम् ।
परं तदात्मनो भोग्यं
वक्ष्यमाणार्थसंस्कृतम् ॥ २३ ॥
वक्ष्यमाणलक्षणा धर्मादयो भावास्तथा
विपर्ययाशक्त्यादयः प्रत्ययाः, त एव लिङ्गं
सत्तागमकं यस्य तत् अभिधास्यमानैरर्थैर्विषयैः
संस्कृतमुपरक्तं बुद्धितत्त्वं परं प्रकृष्टमव्यवहित-
मात्मनो भोग्यं विषयाणां भोग्यत्वेऽपि तत्प्र-
तिबिम्बितत्वेनासन्निकृष्टत्वादपकृष्टत्वं यतः ।
उक्तं च तत्रभवत्सद्योज्योतिःपादैः
'बुद्धिर्विषयाकारा सुखादिरूपा समासतो भोग्या।'
(त० सं० १३)
इति ॥ २३ ॥
भावान्वक्तुमाह
भावा बुद्धिगुणा धर्म-
ज्ञानवैराग्यभूतयः ।
२२० मृगेन्द्रतन्त्रे । [ ११०
सात्त्विका व्यत्ययेनैते
रागमुत्सृज्य तामसाः ॥ २४ ॥
धर्मज्ञानवैराग्यैश्वर्याख्या बुद्धिगुणा भाव-
संज्ञया विज्ञेयाः
'भावयन्ति यतो लिङ्गं तेन भावा इति स्मृताः ।'
एते च सात्त्विका बोद्धव्याः । व्यत्ययेन विप-
र्ययेणैते रागमुत्सृज्य वैराग्यविवर्जितास्ता-
मसाः अधर्माज्ञानानैश्वर्यरूपाः । अवैराग्यल-
क्षणस्तु भावो राजसः ॥ २४ ॥
प्रत्ययान् संचष्टे
प्रत्ययास्तदुपादाना-
स्तेऽष्टौ नव चतुर्गुणाः ।
सप्त पञ्च च विख्याताः
सिद्धाद्या वर्गशो मुने ॥ २५ ॥
ते धर्मादय उपादानमुत्पत्तिहेतुर्येषां ते
संसार्यणोः प्रत्यायनात्प्रत्यया इष्टाः । कियन्त
इत्याह अष्टौ नवेत्यादि, अष्टविधा सिद्धिर्नव-
विधा तुष्टिर्वक्ष्यमाणलक्षणा । उक्तं च सांख्यैः
'ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ......................॥' (५१)
.
Wait, look at 'कौष्ठ्य': ष् + ठ + य. The 'ठ' in ष्ठ्य looks EXACTLY like the 'ठ' in कौण्ठ्यानि!
Yes! In 'कौष्ठ्य', you see ष्, then that round 'ठ', then '्य'.
In 'कौण्ठ्यानि', you see ण्, then that EXACT SAME round 'ठ', then '्या', then 'नि'!
It is 100% "कौण्ठ्यानि"!
Now look at the next word:
Letter 1:
Is it 'कै' or 'क्लै'?
Look at the left of 'क':
Wait! Look at the left vertical curve of 'क'.
Is there a 'ल' underneath?
Look at line 12: 'कापिलाः' - the 'पि' has a loop.
Look at 'क्लैब्य': in Sanskrit, 'क्ल' is written with a 'क' that has a 'ल' attached to its bottom-left leg.
Does this 'क' have anything attached?
Wait, look at 'कैन्यो...':
Wait, is the letter 'क' or is it 'क्ल'?
It's just 'क', with two strokes on top: 'कै'.
Now the next letter:
Is it 'न्यो' or 'ब्यो'?
Wait, look at 'ब्य' in 'विपर्ययभेदा-' (line 15):
In line
२२२ मृगेन्द्रतन्त्रे । [ ११०
किं तदित्याह
सांसिद्धिका वैनयिकाः
प्राकृताश्च भवन्त्यणोः ॥२६॥
एते भावाः सांसिद्धिकादिभेदात्त्रिधा संसा-
र्यणोर्भवन्ति ॥२६॥
अथ तेषां सांसिद्धिकादीनां स्वरूपमभिधत्ते
विशिष्टधर्मसंस्कार-
समुद्दीपितचेतसाम् ।
गुणः सांसिद्धिको भाति
देहाभावेऽपि पूर्ववत् ॥ २७ ॥
विशिष्टेनेष्टापूर्तादिधर्मसंस्कारेण सम्यगु-
द्दीपितं चेतो येषां तेषां न परं देहसंयोगे
यावद्देहाभावेऽपि प्राग्वद्यो गुणः प्रकाशते, स
सांसिद्धिको नाम बोद्धव्यः ॥ २७ ॥
लोकधीगुरुशास्त्रेभ्यो
भाति वैनयिको गुणः ।
यस्तु सयथावत्स्थितलोकबुद्धेर्गुरुतः शास्त्राद्वा
समर्जितः, स वैनयिको भाति प्रकाशते ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २२३
समर्जितो वैनयिको
मनोवाक्तनुचेष्टया ॥ २८ ॥
यो मनोवाक्तनुचेष्टया शुद्धव्यापारेणार्जितः,
स वैनयिको बोद्धव्यः ॥ २८ ॥
प्राकृतो देहसंयोगे
व्यक्तः स्वप्नादिबोधवत् ।
यः पुनः स्वप्नमदमूर्च्छाप्रबुद्धस्य यथाप्रस्तुत-
संस्कार इव देहसंयोग एव व्यज्यते, न देहा-
पायेऽपि, स प्राकृतो नाम गुणो विज्ञेयः ॥
अथैतेभ्यः सांसिद्धिकादिभ्यो धर्मेभ्यः फ-
लविशेषान्वक्तुमाह
स्वर्गो मुक्तिः प्रकृतित्वाविघातौ
योनिक्रान्तिर्निरयावाप्तिबन्धौ ।
रूपेष्वर्था विनयप्राकृतेषु
संपद्यन्ते सविघाताः क्रमेण ॥ २९॥
तत्र तावद्वैनयिकेषु रूपेषु क्रमेणार्थाः संप-
द्यन्ते स्फीतिमुपयान्ति । के त इत्याह स्वर्ग
इत्यादि, धर्मात्स्वर्गः, ज्ञानान्मुक्तिः, वैराग्यात्प्र-
२२४ मृगेन्द्रतन्त्रे । [ ११०
कृतिलयः, ऐश्वर्यादविघातः यथेष्टसिद्धिरि-
त्यर्थः । अथाधर्मात्तिर्यगादियोनिक्रान्तिः, अ-
ज्ञानान्निरयावाप्तिः, अवैराग्याद्वन्धः, अनैश्व-
र्याद्विघातः ॥ २९ ॥
अथ सांसिद्धिकेषूच्यन्ते
वश्याक्रान्तिस्तत्परिज्ञानयोगो
भोगानिच्छा विघ्नसंघव्यपायः ।
भोगासक्तिर्न्यकृतिर्देहलब्धि-
र्विघ्नश्चार्थास्तेषु सांसिद्धिकेषु ॥ ३०
धर्मादिषु सांसिद्धिकेषु सत्स्विदमिदं संप-
द्यत इति पूर्वेण संबन्धः । किं किमित्यत्राह
वश्याक्रान्तिरित्यादि, वश्याक्रान्तिः सांसिद्धि-
काद्धर्मात्, तत्परिज्ञानयोगस्तादृग्विधाज्ज्ञानात्,
भोगेष्वनभिलाषो वैराग्यात्, विघ्नसमूहापगम
ऐश्वर्यात्, भोगेष्वासक्तिः सांसिद्धिकादधर्मात्,
न्यकृतिर्न्यक्कारस्तथाविधादज्ञानात्, देहलब्धिर-
वैराग्यात्, कार्येषु विघ्नोऽनैश्वर्यादिति ॥ ३० ॥
इति श्रीमद्भट्टविद्याकण्ठात्मजनारायणकण्ठकृतौ मृगेन्द्रवृत्तौ
मायाकार्यविचारप्रकरणं दशमम् ॥ १० ॥
अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( एकादशः पटलः )
इत्थं भावान्विचार्य प्रत्ययान् प्रागुद्दिष्टान्
लक्षयितुं समनन्तरोपसंहृतप्रकरणशेषभूतं प्र-
करणान्तरमाह
अथ सिद्ध्यादिवर्गाणां
लेशात्सामान्यलक्षणम् ।
कथ्यते विप्लवो मा भूत्
समासोक्तेः प्रभेदशः ॥ १ ॥
अथेति भावोक्त्यनन्तरं प्रत्ययसंबन्धिनां
सिद्धितुष्ट्यादिवर्गाणां संक्षेपात्साधारणं लक्षणं
कथ्यते । किमर्थमित्याह विप्लवो मा भूदिति,
प्रभेदशः प्रविभागशः वर्गशः या संक्षेपोक्तिः
कृता, तस्याः सकाशाद्विप्लवो मतिसंमोहो मा
भूत् । तेऽष्टौ नव चतुर्गुणाः सप्त पञ्च चेत्ये-
२९
२२६ मृगेन्द्रतन्त्रे । [ १।११
तावता संक्षिप्तप्रभेदकथनेन बुद्धिविप्लवो यः
शङ्क्यते, स एवंविधा तुष्टिरित्थंविधा सिद्धि-
रित्येवं सामान्यलक्षणे संक्षिप्ते कृते न भव-
तीत्येतदर्थमिदमित्यर्थः ॥ १ ॥
अथ तदुच्यते
पुंप्रकृत्यादिविषया
बुद्धिर्या सिद्धिरत्र सा ।
तुष्टिर्नुरकृतार्थस्य
कृतार्थोऽस्मीति या मतिः ॥२॥
पुंस्यात्मनि, प्रकृतावव्यक्ते आदिग्रहणा-
द्ध्यक्ते च या बुद्धिर्विज्ञानं, सा सिद्धिरित्युच्यते ।
या त्वकृतार्थस्य नुः पुंसः कृतार्थोऽस्मीति बुद्धिः,
सा तुष्टिः ॥ २ ॥
अशक्तिः कारकापाये
सदर्थाप्रभविष्णुता ।
किञ्चित्सामान्यतोऽन्यत्र
मतिरन्या विपर्ययः ॥ ३ ॥
कारकाणामन्तःकरणबहिष्करणानामपाये
विनाशे सति विद्यमानेऽप्यर्थे अप्रभवणशील-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २२०
त्वमशक्तिरन्धबधिरादेरिव रूपशब्दादौ । कि-
ञ्चित्साधारण्यादन्यस्मिन्नन्यादृशी बुद्धिर्विपर्ययः
मरुमरीचिकास्विव जलावगतिः ॥ ३ ॥
प्रकाशकतया सिद्धि-
र्व्यक्तादेः सत्त्वभावजा ।
प्रकाशार्थप्रवृत्तत्वा-
द्रजोंशप्रभवापि च ॥ ४ ॥
सैषा सिद्धिर्व्यक्त्यादिप्रकाशकत्वात् सा-
त्त्विकी सत्त्वस्य प्रकाशस्वरूपत्वात् । किंच
प्रकाशार्थप्रवृत्ततया हेतुभूतया रजोंशप्रभवा-
प्यसौ सिद्धिर्ज्ञेया । नह्यमिश्रा गुणा जनका
इत्युक्तम् ॥ ४ ॥
यतः
तुष्टिर्मिथ्यास्वरूपत्वा-
त्तमोगुणनिबन्धना ।
सुखरूपतया ब्रह्म-
न्सात्त्विक्यप्यवसीयते ॥ ५ ॥
२२८ मृगेन्द्रतन्त्रे । [ १।११
अकृतार्थस्य कृतार्थोऽस्मीति बुद्धिस्तुष्टि-
र्योक्ता, सेयं मिथ्यारूपत्वात् तमोगुणलक्षणा,
सुखरूपतया सात्त्विक्यप्यवगम्यते ॥ ५ ॥
अशक्तिरप्रवृत्तत्वा-
त्तामसी दुःखभावतः ।
राजस्यपि गुणो दृष्टः
कार्ये कारणसंश्रयः ॥ ६ ॥
अप्रवृत्तिरूपा अशक्तिरुक्ता । अतश्चासौ ता-
मसी, दुःखहेतुत्वाच्च राजस्यपि विज्ञेया। यो हि
कार्येऽशक्त्याख्ये दुःखरूपोऽप्रभविष्णुतारूपो
वा गुणोऽस्ति, सोऽवश्यं कारणाश्रयः रजस्तमो-
लक्षणकारणजनित इत्यर्थः ॥ ६ ॥
विपर्ययस्तमोयोनि-
र्मिथ्यारूपतया स च ।
सामान्यमात्रकाभासा-
त्सत्त्वात्मेति विनिश्चितः ॥७॥
विपर्ययस्य मिथ्यारूपत्वात् तमःप्रभवत्वम्।
स च विपर्ययः साधारण्यमात्रप्रथनात्प्रकाश-
रूपः सत्त्वात्मकोऽपि निश्चितः ॥ ७ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २२९
उपसंहरन्नाह
इति बुद्धिप्रकाशोऽयं
भावप्रत्ययलक्षणः ।
बोध इत्युच्यते बोध-
व्यक्तिभूमितया पशोः ॥ ८ ॥
इति एवंप्रतिपादितो भावप्रत्ययलक्षणो
बुद्धिप्रकाशः पशोः संसार्यणोः बोधव्यक्त्या-
श्रयत्वाद्वोधसंज्ञयोच्यते ॥ ८ ॥
अथात्र मुनिः सांख्यच्छायया प्रश्नयति
बुद्धिर्बोधनिमित्तं चे-
द्विद्या तद्व्यतिरिच्यते ।
रागोऽपि सत्यवैराग्ये
कलायोनिः करोति किम् ॥ ९ ॥
उक्तया नीत्या बोधनिमित्तत्वं बुद्धैर्यद्युच्यते
तद्विद्याया आनर्थक्यं तस्या अपि बोधहेतु-
त्वेनाभ्युपगमात् । यदि च सामान्यव्यापारत्वे-
ऽपि तदभ्युपगमः, तदानवस्था । किंच अवै-
राग्यलक्षणे बुद्धिधर्मे रागरूपे सत्यपि कलाज-
न्मा रागः किं करोति, न किञ्चिदप्यस्य कार्य-
२३० मृगेन्द्रतन्त्रे । [ १।११
मवैराग्येणैवातिशयवता तत्प्रयोजनस्य सं-
पत्तेः ॥ ९ ॥
अथैतत्प्रतिक्षेपः
व्यञ्जकान्तरसद्भावे
व्यञ्जकं यद्यपार्थकम् ।
मनोदेवार्थसद्भावे
सति धीरप्यनर्थिका ॥ १० ॥
बोधव्यञ्जकविद्याख्यं तत्त्वं बुद्ध्यात्मकव्य-
ञ्जकान्तरसद्भावे सति यद्यनर्थकं, तर्हि भव-
तोऽपि कापिलस्य मनइन्द्रियलक्षणार्थसद्भावे
बुद्धिरप्यनर्थिका । तथाहि रूपादिग्राहकचक्षु-
रादिकरणावधातरि मनसि व्यञ्जकान्तरेण
बुद्ध्याख्येन किं प्रयोजनं मनोधिष्ठितैरिन्द्रियै-
रेव तत्तत्कार्यसिद्धेः ॥ १० ॥
अथैवं ब्रुवते केचि-
त्करणत्वविवक्षया ।
सोऽपि देवैर्मनःषष्ठैः
पक्षोऽनैकान्तिकः स्मृतः ॥११॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३३१
अथ प्रोक्तवद्बुद्धेरप्यानर्थक्यप्रसङ्गतया व्य-
ञ्जकान्तरसद्भावे व्यञ्जकस्यानर्थक्यं प्रसज्यत इ-
त्येवं न पर्यनुयुज्यते, किंतु करणत्वविवक्षयैवं
केचिद्ब्रुवते चोद्यं कुर्वन्ति—यदुत बुद्ध्याख्ये
करणे सत्यपि किं विद्याभिधानेन करणेन ।
यथोक्तं
‘...............सा विद्या तत्परं करणम् ।’ (त० सं० १२)
इति । इहाप्युक्तं
‘तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः ।’ (१।१०।९)
इति । सोऽप्ययं पक्षो मनःषष्ठैर्बुद्धीन्द्रियैरनै-
कान्तिकः । तथाहि बुद्धीन्द्रियपञ्चकस्य स्वस्व-
विषयग्रहणक्रियायां करणस्य सतः षष्ठेन मनसा
करणान्तरेणाङ्गीक्रियमाणेनानैकान्तिकीकृतमे-
तत्—यत्करणान्तरसद्भावे करणानर्थक्यमिति ।
प्रत्युत करणान्तरापेक्षस्य कासुचित्क्रियासूप-
लम्भः । उक्तं च श्रीमत्पराख्ये
‘करणं करणापेक्षमाजाविभकरास्त्रवत् ।’
इति । यथा चैषां श्रोत्रादीनां पञ्चानां मनः-
षष्ठत्वं करणत्वे सामान्येऽप्यात्मवादिभिरिष्टं,
तथा बुद्धौ सत्यामपि तद्ग्राहिका विद्या सेत्स्य-
तीति न कश्चिद्दोषः ॥ ११ ॥
२३२ मृगेन्द्रतन्त्रे । [ १।११
एवं च पक्षद्वयेनाशङ्कितं चोद्यं समर्थ्य,
पक्षान्तरेणाप्याशङ्कमानस्तद्दूषणायाह
अथैकविनियोगित्वे
सत्येकमतिरिच्यते ।
श्रोत्रदृक्पाणिपादादि
ततो भिन्नार्थमस्तु नुः ॥ १२ ॥
नन्वेकस्मिन्विषये विनियोगोऽस्ति यस्य स
पदार्थ एकोऽन्यस्य एकविनियोगित्वे सत्यति-
रिच्यते अधिकीभवति ध्वान्तध्वंसक्षममण्या-
लोकसंभव इव दीपः । ततश्च सुखदुःखमोहा-
त्मकपुंभोगसाधनत्वं बुद्धेरेव पर्याप्तमतस्तदर्थ-
मिष्यमाणायाः पुनरपि विद्याया आनर्थक्य-
मित्याशङ्क्यैतन्निरासः-श्रोत्रदृक्पाणिपादादीति,
तत इति एवमभ्युपगमात्, एकविनियोगित्वे
सत्येकस्यातिरेकत्वाङ्गीकरणे सतीत्यर्थः । नुरिति
पशुत्वयोगिनो भोक्तुः पुंसः । यदुक्तं प्राक्
'भोगभूमिषु ना भुङ्क्ते भोगान्कालानुवर्तिनः।' (१।१०।१३)
इति । तस्य नुः पुंसः श्रोत्रदृगादि पाणिपादादि
च भवत्पक्षे भिन्नार्थमस्तु, एकविषयं मा भूत् ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २३३
ननु केनोक्तं श्रोत्रदृगादेरेकविषयत्वं, नहि
श्रोत्रग्राह्यमर्थं दृक् गृह्णाति, पाणिकार्यं वा पादः
करोति पृथगर्थत्वेनैषां प्रातिस्विकस्वरूपत्वात् ।
सत्यं, किंतु भोगैकसाधनत्वविवक्षयैवमुक्तम् ।
तथाहि भोक्तुः पुंसः आम्रादिसौरभानुभवत-
स्तदन्वेषणोद्यमः, ततश्चाम्राः सन्तीति श्रवणा-
त्तत्र प्रवर्तनं, दृशा तद्दर्शनं, रसनेन चास्वा-
दनमित्येकविनियोगित्वमिन्द्रियाणामनुभूयमा-
नमपि भवत्पक्षे न युक्तमभ्युपगन्तुमानर्थक्य-
भयात् । ततश्च भिन्नार्थमेव श्रोत्रदृगादि पाणि-
पादादि च युष्मद्दृशा भवतु पुंभोगकार्यहेतुत्वे-
नाभिन्नविषयमपि भिन्नफलमस्त्वित्यर्थः । न
चैवमित्थम् ॥ १२ ॥
तृतीयमपि पराशङ्काप्रकारं परिहृत्य पराभि-
मतमेकविनियोगित्वं विद्याबुद्ध्योर्निराकर्तुमाह
न चैकविनियोगित्वं
विद्याबुद्ध्योः कथञ्चन ।
विनियोगान्तरद्वारा
न दृष्टानेकसाध्यता ॥ १३ ॥
३०
२३४ मृगेन्द्रतन्त्रे । [१।११
न च विद्याया बुद्धेश्चैकार्थविनियोगित्वं भि-
न्नविषयत्वात्। विनियोगान्तरं च तत् द्वारं मुखं
यस्याः सा मुखान्तरेणान्येन विनियोगेन प्रवृत्ता
अनेकसाध्यता न दुष्टा यथा इन्धनोदकद-
र्व्याद्यनेकसाधनसाध्यायाः पाकक्रियायाः पृ-
थक्प्रयोजनत्वे सति भिन्नकारकाभ्युपगमे न
किञ्चिदपकृष्यते ॥ १३ ॥
अथ किं तद्भिन्नविषयत्वं विद्याबुद्ध्योरित्याह
विद्या व्यक्ताणुचिच्छक्ति-
र्नुन्नाशेषाक्षगोचरान् ।
स्वीकृत्य पुंस्प्रयुक्तस्य
करणस्यैति कर्मताम् ॥ १४ ॥
मतिस्तेनेतरा
विद्या तावत् व्यक्ताणुचिच्छक्तिः व्यक्ता
उद्दीपिता अणोश्चिच्छक्तिर्यया, एतावदेवास्याः
करणीयम् । ततस्तु नुन्नं प्रेरितमवधानेन नियो-
जितमशेषं मनो येषां तानि तथाविधानि या-
न्यक्षाणीन्द्रियाणि तद्गोचरांस्तद्विषयान् स्वी-
कृत्य, पुंस्प्रयुक्तस्येति पुंसा प्रकर्षेण युक्तस्य सा-
[header] श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३५
क्षात्स्वात्मन्येवोपकारकत्वेन स्थितस्यास्यैव वि-
द्याख्यस्य करणस्य बुद्धैर्यतः कर्मतामेति ग्राह्य-
त्वमागच्छति, तेनेतरा विद्या अतो दूरं भिन्ना ॥
तदियता विद्यावैधर्म्यं निराकृत्य, अथ द्वि-
तीयचोद्यस्य निरासः
रागो
न गौणस्तद्विधर्मतः ।
तच्च भोग्यत्वमेतद्वा
वीतरागस्ततो हतः ॥ १५ ॥
रागो न बुद्धिगुणोऽवैराग्यलक्षणः । कुत
इत्याह तद्विधर्मतः, तस्मादागमोक्ताद्रागात् गौ-
णस्य वैधर्म्यं यतः । लुप्तभावप्रत्ययो विधर्म-
शब्दः । किं तद्वैधर्म्यमित्याह तच्च भोग्यत्वमिति,
अवैराग्यलक्षणो बुद्धिधर्मः स्रक्चन्दनवनिता-
दिर्वा विषय एवं बहिष्ठो यः परेषां रागत्वेनेष्टः,
तस्यैतदेव वैधर्म्यं-यद्भोग्यत्वम् । भोगाभिष्वङ्ग-
हेतुना रागेण भोजकेन च भाव्यम् । नच भोग्य-
स्य भोगहेतोश्चाभेदः । एतद्वा भोग्यत्वं रागस्या-
ङ्गीक्रियते, तर्हि वीतरागस्ततो हतः, तत इति
एवमभ्युपगमाद्वीतरागाभावदोषः प्रसज्यते ।
२३६ मृगेन्द्रतन्त्रे । [ १।११
भोक्तृगतरागानभ्युपगमे बहिष्ठवराङ्गनादिभो-
ग्यविशेषरूपरागोपगमे च सति सरागवीतराग-
संनिकर्षस्थस्रगादौ भोग्यविषये सर्वेषां सराग-
ता प्राप्नोति, नहि कश्चिदत्र वीतरागो भवेत् ।
वस्तुतो वीतरागाणामपि भोग्यविशेषसंनिधि-
मात्रादेव सरागताया दृष्टत्वात् । उक्तं च
सद्योज्योतिःपादैः
'भोग्यविशेषे रागे नहि कश्चिद्वीतरागः स्यात् ।'
(त० सं० १०)
इति । तस्माद्भोक्तृगत एव रागोपगमो, न भो-
ग्यविशेषरूपः स्रगादिः अवैराग्यलक्षणबुद्धिध-
र्मात्मको वा ॥ १५ ॥
अतश्च
रागोऽर्थेष्वभिलाषो यो
न सोऽस्ति विषयद्वये ।
उक्तवद्भोक्तृगतो रागो योऽर्थेषु स्रगादिष्व-
भिलाष इत्यभिलाषहेतुरेवाभिलाषशब्देनोक्तः
कारणे कार्यस्याभेदोपचारात् आयुर्घृतमिति-
वत्, स च रागाख्योऽर्थेषु अभिलाषरूपत्वाद-
भिलाषहेतुर्विषयद्वये एकस्मिन्बाह्ये स्रक्चन्द-
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३७
नादौ वीतरागाभावप्रसङ्गतया नास्तीत्यभ्युपग-
न्तव्यः, द्वितीयस्मिंस्तु अवैराग्यलक्षणे बुद्धि-
धर्मे भोग्यरूपत्वादभिलाषहेतुत्वं नास्ति । त-
स्मादभिलाषहेतुना रागेण जन्यते असौ बु-
द्धिगतस्पृहात्मकः क्रियारूपो भोग्यत्वसंपादक
इत्यलम् ॥
ननु कर्मैव सुखदुःखादिरूपभोग्येऽभिलाष-
हेतुत्वेन भविष्यतीत्याह
कर्मास्तु व्यापकं कल्प्यं
कल्पितेऽपीतरत्र यत् ॥ १६ ॥
प्रागुक्तेऽस्मिन् विषयद्वये सरागवीतरागा-
त्मकस्थितिव्यवस्थापकत्वेन व्यापकं कर्मास्तु,
यत् इतरत्रेति रागे परिकल्पितेऽपि कल्प्यं कि-
लावश्यमभ्युपगन्तव्यम् । तच्छेतोरपि कर्मैष्ट-
व्यम् । तदेव तत्तद्वस्तुवैचित्र्यात् सरागवीतरा-
गताकारणत्वेनास्त्विति पूर्वः पक्षः ॥ १६ ॥
सिद्धान्तस्तु
कर्मणः केवलस्योक्तं
नियतावेव दूषणम् ।
२३८ मृगेन्द्रतन्त्रे । [ १।११
केवलस्य कर्मणो नियतिसिद्धावेव दूषणं
दर्शितम् । तथाचोक्तं
'भोगोऽर्थः सर्वतत्त्वानां सोऽपि कर्मनिबन्धनः ।
कर्मैवास्तु शरीरादि ततः सर्वमपार्थकम् ॥
अथ देहादिसापेक्षं तत्पुमर्थप्रसाधकम् ।
ततो नियतिसापेक्षम्स्तु कर्म नियामकम् ॥' (१।१०।१६)
इति । तस्मात् तनुकरणभोगादिवैचित्र्यमात्र
एव चरितार्थत्वात् कार्यान्तरे प्रमाणाभा-
वाच्च न कर्मणो रागकार्यसंपादकत्वम्, अपि-
तु उक्तप्रयोजनः कलाजन्यो रागः सिद्धः । नच
रागवद्द्वेषस्यापि तत्त्वान्तरत्वं द्वेषादीनां रागज-
नितप्रवृत्तिविशेषात्मकत्वात् । कस्मिंश्चिदभिल-
षणीये वस्तुनि किल व्याहन्यमानेऽस्य द्वेषा-
दयः संजायन्ते ॥
नन्वितरेतरोपमर्देन रागद्वेषयोर्यतोऽवस्थि-
तिस्तस्मादेकस्मिन्पुंसि सहानवस्थानदोषः प्रा-
प्नोतीत्याह
दोषः सहानवस्थानो
नासाम्याद्द्वेषरागयोः ॥ १७ ॥