मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 253, कुल 448 में से
संदर्भ में पढ़ेंश्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २२३
समर्जितो वैनयिको
मनोवाक्तनुचेष्टया ॥ २८ ॥
यो मनोवाक्तनुचेष्टया शुद्धव्यापारेणार्जितः,
स वैनयिको बोद्धव्यः ॥ २८ ॥
प्राकृतो देहसंयोगे
व्यक्तः स्वप्नादिबोधवत् ।
यः पुनः स्वप्नमदमूर्च्छाप्रबुद्धस्य यथाप्रस्तुत-
संस्कार इव देहसंयोग एव व्यज्यते, न देहा-
पायेऽपि, स प्राकृतो नाम गुणो विज्ञेयः ॥
अथैतेभ्यः सांसिद्धिकादिभ्यो धर्मेभ्यः फ-
लविशेषान्वक्तुमाह
स्वर्गो मुक्तिः प्रकृतित्वाविघातौ
योनिक्रान्तिर्निरयावाप्तिबन्धौ ।
रूपेष्वर्था विनयप्राकृतेषु
संपद्यन्ते सविघाताः क्रमेण ॥ २९॥
तत्र तावद्वैनयिकेषु रूपेषु क्रमेणार्थाः संप-
द्यन्ते स्फीतिमुपयान्ति । के त इत्याह स्वर्ग
इत्यादि, धर्मात्स्वर्गः, ज्ञानान्मुक्तिः, वैराग्यात्प्र-