सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 259, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 259

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २२९
उपसंहरन्नाह
इति बुद्धिप्रकाशोऽयं
भावप्रत्ययलक्षणः ।
बोध इत्युच्यते बोध-
व्यक्तिभूमितया पशोः ॥ ८ ॥
इति एवंप्रतिपादितो भावप्रत्ययलक्षणो
बुद्धिप्रकाशः पशोः संसार्यणोः बोधव्यक्त्या-
श्रयत्वाद्वोधसंज्ञयोच्यते ॥ ८ ॥
अथात्र मुनिः सांख्यच्छायया प्रश्नयति
बुद्धिर्बोधनिमित्तं चे-
द्विद्या तद्व्यतिरिच्यते ।
रागोऽपि सत्यवैराग्ये
कलायोनिः करोति किम् ॥ ९ ॥
उक्तया नीत्या बोधनिमित्तत्वं बुद्धैर्यद्युच्यते
तद्विद्याया आनर्थक्यं तस्या अपि बोधहेतु-
त्वेनाभ्युपगमात् । यदि च सामान्यव्यापारत्वे-
ऽपि तदभ्युपगमः, तदानवस्था । किंच अवै-
राग्यलक्षणे बुद्धिधर्मे रागरूपे सत्यपि कलाज-
न्मा रागः किं करोति, न किञ्चिदप्यस्य कार्य-