मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
DevanagariSanskritpublished448 पृष्ठ
पृष्ठ 249, कुल 448 में से
संदर्भ में पढ़ेंपृष्ठ 249
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१९
एवं गुणतत्त्वमुक्त्वा बुद्धितत्त्वं वक्तुमाह
बुद्धितत्त्वं ततो नाना-
भावप्रत्ययलक्षणम् ।
परं तदात्मनो भोग्यं
वक्ष्यमाणार्थसंस्कृतम् ॥ २३ ॥
वक्ष्यमाणलक्षणा धर्मादयो भावास्तथा
विपर्ययाशक्त्यादयः प्रत्ययाः, त एव लिङ्गं
सत्तागमकं यस्य तत् अभिधास्यमानैरर्थैर्विषयैः
संस्कृतमुपरक्तं बुद्धितत्त्वं परं प्रकृष्टमव्यवहित-
मात्मनो भोग्यं विषयाणां भोग्यत्वेऽपि तत्प्र-
तिबिम्बितत्वेनासन्निकृष्टत्वादपकृष्टत्वं यतः ।
उक्तं च तत्रभवत्सद्योज्योतिःपादैः
'बुद्धिर्विषयाकारा सुखादिरूपा समासतो भोग्या।'
(त० सं० १३)
इति ॥ २३ ॥
भावान्वक्तुमाह
भावा बुद्धिगुणा धर्म-
ज्ञानवैराग्यभूतयः ।